औरङ्गाबाद्, महाराष्ट्रम्
सम्भाजीनगरम् सम्भाजीनगर औरङ्गाबाद् | |
|---|---|
| छत्रपतीसम्भाजीमहाराजनगरम् | |
|
क्रान्ति चतुरश्रः | |
|
Nickname(s): द्वाराणां नगरम्, ऐतिहासिकनगरम्, महाराष्ट्रस्य हृदयम् | |
| देशः | भारतम् |
| मण्डलम् | सम्भाजीनगरम् (औरङ्गाबाद्) |
| क्षेत्रम् | मराठवाडा |
| स्थापितःम् | १६१० ई॰ |
| Government | |
| • विभागीय आयुक्तः | सुनील केन्दरेकरः |
| • महापौरः | रिक्तम् |
| Area | |
| • महानगरम् | १३९ km२ |
| Elevation | ५६८ m |
| Population (२०११) | |
| • महानगरम् | ११,७५,११६ |
| • Rank |
भारतम्: ३२ तमा महाराष्ट्रम्: षष्ठी मराठवाडा: प्रथमा |
| • Density | ८,५००/km२ |
| • Metro | ११,९३,१६७ |
| • महानगरीयश्रेणी | ४३ तमा |
| Demonym(s) | सम्भाजीनगरीय / औरङ्गाबादकर |
| भाषा | |
| • आधिकारिक | मराठी |
| • अन्य | हिन्दी, उर्दू |
| Time zone | UTC+५:३० (भा॰मा॰स॰) |
| पत्रसूचकसङ्ख्या |
431 XXX |
| दूरवाणीसङ्केतः | ०२४० |
| Vehicle registration | MH 20 |
सम्भाजीनगरम् (मराठी: सम्भाजीनगर, आङ्ग्ल: Sambhajinagara; आधिकारिकरूपेण छत्रपतीसम्भाजीमहाराजनगरम्), पूर्वनाम औरङ्गाबाद्, पुरातननाम खडकी, इति एकं प्राचीननगरम् । खङ्गे इति अस्य नाम आसीत् मोगल बादशाहः औरङ्गजेबः ताजमहल् सदृशं भव्यं स्मारकम् अत्र निर्मितवान् । अनन्तर नगरस्य औरङ्गाबाद् इति नाम आगतम् अस्ति । छत्रपती संभाजीनगर प्रदेशे अपि अजन्ता एल्लोरा प्रदेशेषु इव गुहाः सन्ति । बौद्धानाम् आराधनानन्दिराणि साधुसंन्यासिनां निवासस्थानानि च आसन् । छत्रपती संभाजीनगरे स्थितायां गुहायां सप्तमशतकीयः बौद्धविहारः अस्ति । ७६ स्तम्भानां विशालं प्राङ्गणम् अस्ति । पश्चिमदिशि कमलासने उपविष्टस्य गौतमबुद्धस्य विग्रहः अस्ति । समीपे सर्पसमूहः अस्ति । प्राङ्गणात् बहिः बुद्धस्य अनेकप्रतिमाः सन्ति । द्वितीयगुहायां बृहत् बुद्धविग्रहः अस्ति । तृतीयगुहायां स्तम्भेषु शिल्पानि सन्ति । एषा गुहा पूर्णालङ्कृता अस्ति । षष्ठगुहायां बृहत् बुद्धमूर्तिः आकर्षणीया अस्ति । सपृमगुहायाम् आकर्षकाणि शिल्पानि सन्ति । विशालं प्राङ्गणम् अत्र अस्ति । बोधिसत्वस्य पद्मपाणेः सरस्वत्याः च विग्रहाः अतीव मनोहराः सन्ति । आहत्य दश गुहाः निर्मिताः सन्ति ।