भारतस्य प्रशासनिकविभागाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य प्रशासनिकविभागाः भारतस्य उपराष्ट्रियप्रशासनिकैककाः सन्ति; ते देशोपविभागानाम् एकेन पदानुक्रमेण निर्मिताः सन्ति ।

भारतीयराज्यानि प्रदेशाः च उपविभागस्य समानस्तरस्य कृते बहुधा भिन्न-भिन्न स्थानीयोपाधि-प्रयोगं कुर्वन्ति (यथा – आन्ध्रप्रदेश-तेलङ्गाणा-राज्ययोः मण्डलानि उत्तरप्रदेश-अन्य-हिन्दीभाषिणराज्यानां तहसीलानां अनुरूपाः परन्तु गुजरात-गोवा-कर्णाटक-केरल-महाराष्ट्र-तमिळ्नाडु-राज्यानां तालुकानां अनुरूपाः भवन्ति) ।

लघुतराः उपविभागाः (ग्रामाः, खण्डाः च) केवलं ग्राम्यक्षेत्रेषु एव विद्यन्ते । नगरीयक्षेत्रेषु एतेषां ग्रामीणोपविभागानां स्थाने नगरपालिकाः विद्यन्ते ।

भारतस्य स्तराः[सम्पादयतु]

अधोदर्शिते चित्रे शासनस्य षट् स्तराः वर्णिताः सन्ति –

देशः
(अर्थात् भारतम्)
राज्यम्
(यथा– पश्चिमवङ्गराज्यम्)
विभागः
(यथा– प्रेसिडेन्सीविभागः)
मण्डलम्
(यथा– उत्तर २४ परगणामण्डलम्)
उपमण्डलम्
(यथा– बसिरहाट उपमण्डलम्)
खण्डः
(यथा– बसिरहाट २ खण्डः)

राज्यानि केन्द्रशासितप्रदेशाः च[सम्पादयतु]

भारतं २८ राज्यैः अष्टभिः केन्द्रशासितप्रदेशैः (राष्ट्रियराजधानीक्षेत्रसहितम्) च निर्मितम् अस्ति । केन्द्रशासितप्रदेशाः प्रशासकैः शासिताः भवन्ति, ये भारतस्य राष्ट्रपतिना नियुक्ताः भवन्ति । एतेषु त्रयः प्रदेशाः (देहली, जम्मूकाश्मीरं, पुदुच्चेरी) आंशिकराज्यत्वं प्राप्तवन्तः, यत्र निर्वाचिताः विधायिकाः, कार्यकारिणी मन्त्रिपरिषद् च सन्ति, येषां अधिकाराः न्यूनीकृताः सन्ति ।

हिन्दूमहासागरःबङ्गालोपसागरःअण्डमान् सागरःसिन्धुसागरः(अरब्बी)लक्षद्वीपसागरःसियाचिन् हिमसंहतिःअण्डमाननिकोबारद्वीपसमूहःचण्डीगढदादरा नगरहवेली चदमन् दीव् चदेहलीलक्षद्वीपाःपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीअरुणाचलप्रदेशराज्यम्असमराज्यम्बिहारराज्यम्छत्तीसगढराज्यम्गोवाराज्यम्गुजरातराज्यम्हरियाणाराज्यम्हिमाचलप्रदेशराज्यम्जम्मूकाश्मीरराज्यम्झारखण्डराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्मणिपुरराज्यम्मेघालयराज्यम्मिजोरमराज्यम्नागाल्याण्डराज्यम्ओडिशाराज्यम्पञ्जाबराज्यम्राजस्थानराज्यम्सिक्किमराज्यम्तमिळनाडुराज्यम्त्रिपुराराज्यम्उत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्पश्चिमबङ्गालराज्यम्अफगानस्थानबाङ्गलादेशःभूटानदेशःबर्मादेशःचीनादेशःनेपालदेशःपाकिस्थानम्श्रीलङ्काताजिकिस्थानदादरा नगरहवेली चदमन् दीव् चपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीपाण्डिचेरीआन्ध्रप्रदेशराज्यम्तेलङ्गाणाराज्यम्गोवाराज्यम्गुजरातराज्यम्जम्मूकाश्मीरराज्यम्कर्णाटकराज्यम्केरलराज्यम्मध्यप्रदेशराज्यम्महाराष्ट्रराज्यम्राजस्थानराज्यम्तमिळनाडुराज्यम्पाकिस्थानम्श्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्काश्रीलङ्का
भारतस्य २८ राज्यानां तथा ७ केन्द्रशासितप्रदेशानां च नोदनयोग्यं (clickable) चित्रम्

राज्यानि[सम्पादयतु]

सङ्ख्या राज्यम् संहिता स्थापितम् राजधानी
अरुणाचलप्रदेशः AR इटानगरम्
असम AS दिसपुरम्
आन्ध्रप्रदेशः AP अमरावती
उत्तरप्रदेशः UP लखनौ
उत्तराखण्डः UT भराडीसैणम् (ग्रीष्मकाले), देहरादून (शिशिरकाले)
ओडिशा OD भुवनेश्वरम्
कर्णाटकम् KA बेङ्गळूरु
केरळम् KL तिरुवनन्तपुरम्
गुजरात GJ गान्धीनगरम्
१० गोवा GA पणजी
११ छत्तीसगढ CG रायपुरम्[१]
१२ झारखण्डः JH राँची
१३ तमिळ्नाडु TN चेन्नै
१४ तेलङ्गाणा TS हैदराबाद्
१५ त्रिपुरा TR अगरतला
१६ नागालैण्ड् NL कोहिमा
१७ पञ्जाब PB चण्डीगढ (हरियाणया सह वितरितवान्, केन्द्रशासितप्रदेशः अपि अस्ति)
१८ पश्चिमवङ्ग WB कोलकाता
१९ बिहार BR पटना
२० मणिपुर MN इम्फाल
२१ मध्यप्रदेशः MP भोपाल
२२ महाराष्ट्रम् MH मुम्बई (ग्रीष्मकाले), नागपुरम् (शिशिरकाले)
२३ मिजोरम् MZ ऐजोल
२४ मेघालयः ML शिलाङ्ग
२५ राजस्थानम् RJ जयपुरम्
२६ सिक्किम SK गङ्गटोक
२७ हरियाणा HR चण्डीगढ (पञ्जाबेन सह वितरितवान्, केन्द्रशासितप्रदेशः अपि अस्ति)
२८ हिमाचलप्रदेशः HP शिमला (ग्रीष्मकाले), धर्मशाला (शिशिरकाले)

केन्द्रशासितप्रदेशाः[सम्पादयतु]

अक्षरं / सङ्ख्या केन्द्रशासितप्रदेशः संहिता राजधानी
अण्डमाननिकोबारद्वीपसमूहः AN पोर्ट् ब्लेयर्
चण्डीगढ CH चण्डीगढ (हरियाणा-पञ्जाबयोः राजधानी अपि)
जम्मूकाश्मीरम् JK श्रीनगरम् (ग्रीष्मकाले), जम्मू (शिशिरकाले)
दादरा नगरहवेली च दीव दमण च DD दमण
पुदुच्चेरी PY पाण्डीचेरीनगरम्
देहली DL नवदेहली
लदाख् LA लेह कार्गिल
लक्षद्वीपाः LD कवरत्ती

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. रायपुरस्य स्थाने नवरायपुरं छत्तीसगढराजधानीरूपेण स्थापयितुं योजना अस्ति ।