कर्णाटकस्य दुर्गाणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कर्णाटकस्य दुर्गाणि
देवनहलळ्ळि दुर्गा
देवनहलळ्ळि दुर्गा

विश्वे सर्वत्र राजानः राज्यं साम्राज्यं राजधानीं च शत्रुभ्यः रक्षितुं गिरिकन्दरदुर्गान् निर्मान्ति स्म । भारतस्य कर्णाटकराज्ये अपि केचन दुर्गाणि सन्ति ये पूर्वमहाराजैः निर्मितानि ।

बसवकल्याणदुर्गम्[सम्पादयतु]

बसवकल्याणदुर्गम् अथवा कल्याणदुर्गं कर्णाटकस्य बीदरमण्डले अस्ति । एतत् कल्याणदुर्गं कल्याणीचालुक्यानां राजधानी आसीत् । एते १० शतकतः १२ शतकपर्यन्तं सार्धभारतं यावत् शासयन्तः आसन् ।

बळ्ळारिदुर्गम्[सम्पादयतु]

बळ्ळारिदुर्गं बळ्ळारिमण्डलस्य बळ्ळारिशैले अस्ति । एतत् दुर्गं भागद्वये निर्मितमस्ति । विजयनगरसंस्थानस्य सामन्तराजः हनुमन्तनायकः दुर्गस्य ऊर्ध्वभागं निर्मितवान् ।

बेळगाविदुर्गम्[सम्पादयतु]

बेळगाविदुर्गं कर्णाटकस्य बेळगाविमण्डले अस्ति। एतत् दुर्गं मार्कण्डेयनद्याः समीपे जयराम इति नामकः राजा निर्मितवान् । अत्र दुर्गादेव्याः च गणेशस्यापि देवालयः अस्ति ।

सवदत्तिदुर्गम्[सम्पादयतु]

सवदत्तिः बेळगाविमण्डलस्य पुरातननगरेषु एकं नगरम् । सवदत्तिदुर्गं निरसङ्गिदेसायिः अष्टादशशतके निर्मापितवान् । एतस्य दुर्गस्य मध्ये काडसिद्धेश्वरस्य देवालयः अस्ति । दुर्गं परितः सुन्दरं शिल्पं निर्मितम् ।

सदाशिवगडदुर्गम्[सम्पादयतु]

सदाशिवगडदुर्गम् उत्तरकन्नडमण्डलस्य कारवार इति प्रदेशे अस्ति । एतत् दुर्गं काळीनद्यरबीसमुद्रयोः सङ्गमक्षेत्रे निर्मितम् । एतत् दुर्गं बसवलिङ्गराजाः निर्मितवन्तः ।

वारसगडदुर्गम्[सम्पादयतु]

वारसगडदुर्गं बेळगाविमण्डले अस्ति । दशमशतमानस्य अत्यन्तं वैभवयुक्तं दुर्गं सद्यः जीर्णावस्थायामस्ति । दुर्गं तावत् सामान्यतः ५०० मीटर् विस्तारं ३०० मीटर् लम्बमस्ति । दुर्गमेतेत् निम्नवप्रप्रदेशे विद्यमाने शैले निर्मितं वर्तते तथा च शैलस्य बहुभागाः गुल्मैः आच्छादिताः सन्ति । शैलोऽयं पाषाणमृद्भिः पूरितोऽस्ति । तथा च अत्र गभीरः प्रपातोऽपि अस्ति । शैल्स्योपरि मारुतेः मन्दिरमस्ति ।

बेङ्गळूरुदुर्गम्[सम्पादयतु]

विजयनगरसंस्थानस्य सामन्तराजाः केम्पेगौडाः मृदः दुर्गनिर्माणपूर्वकं बेङ्गळूरुनगरं निर्मितवन्तः । तदनन्तरं १७६१ तमे शतके तत्रैव हैदरालिः मृदः दुर्गस्य स्थाने शिलादुर्गं निर्मितवान् । ब्रिटीश् ईस्ट्‌इण्डिया संस्था १७९१ वर्षस्य मार्चमासस्य २१ तमे दिनाङ्के टिप्पूसुल्तान् राजानं पराजित्य एतत् बेङ्गळूरुदुर्गं स्ववशं कृतवती ।

गजेन्द्रगढदुर्गम्[सम्पादयतु]

गजेन्द्रगढदुर्गं कर्नाटकस्य गदगमण्डले अस्ति । भारतस्य हीन्दवीराज्यस्य पुनःस्थापकः शिवाजिमहाराजः एतत् दुर्गं निर्मितवान् । दुर्गमेतत् लम्बशैलोपरि अत्यन्तं सुन्दरं दृश्यते । अत्रैव काळेश्वरदेवालयः विराजते । एतस्य देवालयस्य पुरतः विद्यमानः तटाकः अस्य क्षेत्रस्य मुख्यस्थानम् । आवर्षं तटाकः जलपूर्णः दृश्यते । एवं अस्य तटाकस्य मूलस्थानं ये केऽपि न ज्ञातवन्तः ।

मुद्गलदुर्गम्[सम्पादयतु]

मुद्गलदुर्गं कर्नाटकस्य रायचूरुमण्डले अस्ति । ॠषिषु सप्तब्रह्मर्षयः एवं द्वौ राजर्षिणौ इति प्रसिद्धिः अस्ति । राजर्षिणोः एकः विश्वामित्रः अपरश्च मुद्गलः । तत्र मुद्गलः अतीव उदारिणः तथा करुणाशाली च आसीत् । एते मुद्गलोपनिशत् नामिकाम् उपनिषदं रचितवन्तः । मुद्गलदुर्गे अश्वत्थनारायण-श्रीवेङ्कटेश्वर-नरसिंहानां देवालयाः सन्ति । मुद्गलॠषयः शिलायुगकलिकाः आसन् । एकादशशतके देशस्य नानाप्रदेशात् विद्यार्थिनः अत्रागत्य विद्याभ्यासं कुर्वन्ति स्म ।

मिर्जान्-दुर्गम्[सम्पादयतु]

मिर्जान्-दुर्गम् उत्तरकन्नडमण्डलस्य पश्चिमसमुद्रस्य कूले अस्ति । गेरसोप्पप्रदेशस्य राणी चन्नभैरादेवी एतत् दुर्गं षोडशशतके निर्मितवती । सा एतस्मिन् दुर्गे एव वसन्ती ५४ वर्षं यावत् राज्यं शासितवती । तस्याः शासनावसरे एव मरीचलवणक्रमुकाणां निर्यातं कुर्वन्ति स्म ।

चित्रदुर्गस्य शिलादुर्गम्[सम्पादयतु]

चित्रदुर्गनगरस्य दुर्गं दशमशतकादारभ्य अष्टादशशतकपर्यन्तं राष्ट्रकूटवंशः,चालुक्यवंशः, होय्सळवंशः, विजयनगरसाम्राज्यम् इत्ययादिभिः राजकुलैः निर्मितमस्ति । एतस्मिन् दुर्गे सप्तसुभद्राणि शिलामयानि दुर्गाणि निर्मितानि । एतस्मिन् दुर्गे अनेकेषां तटाकानां परस्परसंयोगः दृश्यते। तथा च वृष्टेः जलसङ्ग्रहणाय व्यवस्था कृता वर्तते । अत एव अत्र कदापि जलाभावः न सम्भवति। मदकरिनायकस्य शासनावसरे हैदरालि राज्ञः सैनिकाः दुर्गस्य रन्ध्रेण सर्पितुं यत्नं कृतवन्तः । एतत् दृश्यम् अवलोकितवती तत्रस्थस्य सैनिकस्य पत्नी ओबव्वनामिका मुसलेन अन्तस्सर्पतः घातयित्वा मारितवती । इदनीम् अपि तत्रस्थं रन्ध्रम् ओबव्वन किनण्डि इति प्रसिद्धमस्ति । तथा च शत्रुभ्यः स्वराज्यरक्षणार्थं स्वीयान् प्राणान् पणीकृत्य धैर्यं प्रदर्शितवती । अत एव ओनके ओबव्व इति प्रसिद्धिं गतवती च ।

कित्तुरुदुर्गम्[सम्पादयतु]

कित्तुरुदुर्गं बेळ्गाविमण्डलस्य कित्तुरुनगरे राणीचन्नम्मदेव्याः धैर्यसाहसरूपेण वर्तते । दत्तकपुत्रं राज्ञः उत्तराधिकारित्वेन स्वीकर्तुं न शक्यते इति आङ्ग्लानां कुतन्त्रनियमस्य विरुद्धं कुपितवती । एवं राणीचन्नम्मदेवी स्वदुर्गरक्षणार्थम् आङ्ग्लानां विरुद्धं घोरयुद्धं कृतवती । अत एव इदानीम् अपि स्त्रीकुलस्य आदर्शप्राया चन्नम्मदेवी ।

देवनहळ्ळिदुर्गम्[सम्पादयतु]

देवनहळ्ळिदुर्गं बेङ्गळूरुनगरतः २५ कि.मि दूरे वर्तते । एतत् दुर्गं मल्लभैरवगौडनामकः राजा निर्मितवान् । १५ शतके अटन्तः आगच्छन्तः कौटुम्बिकाः रामस्वामिशैलस्य अधोभागे पटगृहं स्थापितवन्तः । तेषां नायकरूपेण विद्यमानस्य भैरेगौडनामकस्य स्वप्ने तत्रैव समीपे विद्यमानं ग्रामं प्रति गन्तव्यम् इति आग्रहः जातः । तत्रैव रणभैरवस्य पुत्रः मल्लभैरेगौडः चिक्कबळ्ळापुर-दोड्डबळ्ळापुरनगरे शोधितवान् । अस्मिन् दुर्गे गोपालस्वामिनः देवालयः विराजते ।

मागळिदुर्गः[सम्पादयतु]

दोड्डबळ्ळापुरोपमण्डलस्य घातिसुब्रह्मण्यः इति पुण्यक्षेत्रस्य समीपे विराजमानः कोटः एव माकळिदुर्गः इति ख्यातः । एतस्मात् सुब्रह्मण्यमन्दिरात् ४कि.मी.दूरे प्राचीनकाले निर्मितः दुर्गः अस्ति । घाटिसुब्रह्मण्यदेवालयः दुर्गः च सोण्डूरुमहाराजैः निर्मितौ इति स्थलीयाः वदन्ति । दुर्गस्य चत्वारि प्रवेशद्वाराणि सन्ति । दुर्गस्य मध्यभागे माकळि मल्लेश्वरदेवस्य मन्दिरम् अस्ति । पृष्टभागे कश्चित् कूपः अस्ति । पानार्थम् अन्यकार्यार्थं प्राचीनाः अस्य जलमेव उपयोजयन्ति स्म । मन्दिरे निधिः अस्तीति सम्भव्य चोराः मल्लेश्वरस्वामिनः विग्रहं, नन्दिविग्रहं, ध्वजस्तम्भं च व्यनाशयन् । भक्ताः एतान् सर्वान् पुनः निर्मितवन्तः । प्रतिदिनं चारणप्रियाः अत्र आगच्छन्ति । सुन्दरेस्मिन् परिसरे आनन्देन कालं यापयन्ति । अस्य दुर्गस्य पार्श्वे एव कश्चन पर्वतः अस्ति । निकटम् एव कश्चन ग्रामः अस्ति । पर्वतस्य पृष्टभागे १०००प्रहलमितम् अरण्यम् अस्ति । तत्र विविधाः विरलाः वन्यजन्तवः सन्ति ।


"https://sa.wikipedia.org/w/index.php?title=कर्णाटकस्य_दुर्गाणि&oldid=393226" इत्यस्माद् पुनः प्राप्तिः