कृष्णनिम्बपत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कालशाकम् इत्यस्मात् पुनर्निर्दिष्टम्)
Curry Leaf Tree

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Rosids
वर्गः Eudicots
गणः Sapindales
कुलम् Rutaceae
वंशः Murraya
जातिः M. koenigii
द्विपदनाम
Murraya koenigii
(L.) Sprengel[१]

एतत् कालशाकम् अपि भारते वर्धमानः कश्चन सस्यविशेषः । एतत् कालशाकम् अपि सस्यजन्यः आहारपदार्थः । एतत् कालशाकम् आङ्ग्लभाषायां Curry Tree इति उच्यते । अस्य सस्यशास्त्रीयं नम अस्ति Murraya koenigii इति । एतत् कालशाकं तृणकुले Rutaceae कुले अन्तर्भवति । प्रायः भारते सर्वेषु अपि प्रदेशेषु अस्य कालशाकस्य उपयोगः क्रियते एव । एतत् कालशाकम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्य कालशाकसस्यस्य पत्रं बीजं च उपयुज्यते । अन्यानि अङ्गानि न उपयुज्यन्ते । सर्वस्य अपि पाकस्य व्याघरणे एतत् कालशाकम् उपयुज्यते एव ।

कालशाखपुष्पम्

आयुर्वेदस्य अनुसारम् अस्य कालशाकस्य स्वभावः[सम्पादयतु]

कालशाखफलम्
१. एतत् कालशाकं वातं वर्धयति । अतः वातप्रकृतियुक्ताः, वातजन्यैः रोगैः पीडिताः च मितेन एव उपयोगं कुर्युः ।
२. एतत् कालशाकं पित्तं कफं च हरति ।
३. एतत् कालशाकं मलसारकं, रुचिकारकं चापि ।
४. एतत् कालशाकं शोथहारकं, बलवर्धकं च ।
५. एतत् कालशाकं रक्तपित्तहरं मेध्यं चापि ।
६. विरेचनार्थम् अस्य कालशाकस्य बीजं दीयते ।
७. अजीर्णे, अतिसारे, आमदोषे, ज्वरे च अस्य कालशाकसस्यस्य पत्रम् उपयुज्यते ।
८. अस्य कालशाकस्य पत्राणि शुष्कीकृत्य सम्यक् चूर्णीकरणीयम् । तत् चूर्णं जले संस्थाप्य सम्यक् क्वथनीयम् । अनन्तरं शोधनेन प्राप्तं जलं ज्वरावसरे दातव्यम् । तेन मूत्रप्रवृत्तिः, स्वेदप्रवृत्तिः भवति । (भावप्रकाशे अस्ति)
९. अस्य कालशाकस्य पत्राणि रात्रौ जले संस्थाप्य प्रातः शोधनीयम् । तदा प्राप्तं जलम् अजीर्णे, अतिसारे च उपयोक्तुं शक्यते । (भावप्रकाशे अस्ति)
१०. अस्य कालशाकस्य पत्राणि नारिकेलतैले संस्थाप्य सम्यक् क्वथनीयम् । अनन्तरं तस्य तैलस्य शिरसि लेपनेन केशविगलनं निवारितं भवति ।
११. प्रतिदिनं प्रातः एकं पत्रम् इव मासं यावत् अस्य कालशाकस्य पत्रस्य सेवनेन श्वेतकेशाः निवारिताः भवन्ति ।
१२. एतत् कालशाकपत्रं शुष्कीकृत्य चूर्णीकृत्य दोसया, रोटिकया सह अन्नेन सह च सेवितुं शक्यते ।
१३. अस्य कालशाकसस्यस्य त्वक् अपि औषधगुणैः युक्तम् अस्ति । अस्य सेवनेन उदरसम्बद्धाः रोगाः, मानसिकसमस्याः, चर्मरोगाः च निवारिताः भवन्ति ।
१४. अस्य पत्राणि धेनुभ्यः आहारेण सह दीयते चेत् तासां गर्भधारणार्थम् अपि उपयोगाय भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "Murraya koenigii information from NPGS/GRIN". www.ars-grin.gov. आह्रियत 2008-03-11. 
"https://sa.wikipedia.org/w/index.php?title=कृष्णनिम्बपत्रम्&oldid=395473" इत्यस्माद् प्रतिप्राप्तम्