सामग्री पर जाएँ

केङ्गल् हनुमन्तय्य

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
केङ्गल् हनुमन्तय्यः
ಕೆಂಗಲ್ ಹನುಮಂತಯ್ಯ
सञ्चिका:Kengal Hanumanthaiah.jpg
2nd Chief Minister of Mysore State
In office
30 March 1952 – 19 August 1956
Preceded by K. C. Reddy
Succeeded by Kadidal Manjappa
Member of the Indian Parliament
for Bangalore City
In office
2 April 1962 – 18 January 1977
Preceded by N. Keshavaiengar
Succeeded by C. K. Jaffer Sharief
व्यैय्यक्तिकसूचना
Born (१९०८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१४)१४ १९०८
Lakkappanapalli, Bangalore, Karnataka, India
Died १ १९८०(१९८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०१) (आयुः ७२)
Political party Indian National Congress

व्यक्तित्वम्

[सम्पादयतु]

राज्यसर्वकारस्य शक्तिकेन्द्रम् इव प्रशासनस्य गर्भगृहम् इव विद्यमानस्य विधानसौधस्य निर्मापकः इत्येव प्रसिद्धः केङ्गल् हनूमन्तय्यः मैसूरुराज्यस्य द्वितीयः मुख्यमन्त्री आसीत् । प्रजातन्त्ररीत्या चितः प्रथमः मुख्यमन्त्री इत्यपि ख्यातिः अस्य अस्ति । तस्य अकर्षकं शरीरम् आसीत् ।शुभ्रं वसनं धरति स्म । नैषः स्थूलः न कृषः न कुब्जः नोन्नतः गोधूमवर्णी सुन्द्ररवदनः आसीत् । जीवने श्रद्धा उत्साहः विश्वासः कार्यसाधने स्थैर्यं च तस्य सद्गुणाः आसन् ।

जन्म बाल्यं च

[सम्पादयतु]

केङ्गल् हनूमन्तय्यस्य ग्रामः रामनगरमण्डलस्य लक्कप्पनहळ्ळी । पिता वेङ्कटगौडः माता नञ्जम्मा कुलदैवतं केङ्गल् हनूमन्तस्वामी(हनुमान्) । कृषकानां सम्प्रदायानुगुणं प्रथमपुत्रस्य कृते कुलदेवस्य नाम एव अङ्कितम् । अस्य बाल्ये कुटुम्बे अतिदारिद्र्यम् आसीत् । गृहं गोष्टं च एकम् एव आसीत् । हनूमन्तय्यस्य प्राथमिकी शिक्षा केङ्गेरीग्रामे एव समाप्ता । क्रि.श. १९२०तमे वर्षे कन्नडएल्.एस्.परीक्षाम् उत्तीर्णवान् । धनाभावात् मध्ये एकं वर्षं यावत् शालां न गतवान् । तस्य श्रद्धां सामर्थ्यं च दृष्ट्वा तद्ग्रामीणाः सहाय्यम् आचरितवन्तः । तेन बालकः हनूमन्तय्यः बेङ्गळूरु गत्वा एल्.एस्.परीक्षां समापितवान् । वेस्लिप्रौडशालायां मेट्रिक्, मैसूरुसर्वकारीयमहविद्यालये च प्रैढशिक्षणस्य अध्ययनम् अभवत् । क्रि.श. १९३०तमे वर्षे महाराजमहाविद्यालयतः पदवीं प्राप्तवान् । क्रि.श.१९३२तमे वर्षे पुणेशासनविद्यालयतः एल्.एल्.बि.पदवीम् अवाप्नोत् । अस्य प्रतिदिनं दिनचर्यालेखनस्य सदभ्यासः आसीत् । बाल्ये राजाजी-इत्याख्यस्य चक्रवर्ती राजगोपालाचार्यस्य भाषणम् अशृणोत् । अतः तस्य प्रभावः जीवने अतीवः आसीत् । राजाजिमहोदयस्य आङ्ग्लभाषाभाषणेन बहुधा अकृष्टः । स्वयं भाषणकलायां परिणतिं साधयितुम् इष्टवान् । सर्वदा प्रयत्नशीलः अल्पकालेनैव अङ्गभाषया कन्नडाभाषया च भाषणस्य नैपुण्यं सम्पादितवान् । अध्ययनावसरे विद्यार्थिसङ्घं रचयित्वा तस्य नायकः अपि अभवत् । सर्वदा सर्वत्र नायकत्वम् इच्छति स्म । अन्यायम् असहमानः विरोधं प्रकटयति स्म । क्रि.श.१९२७तमे वर्षे सञ्चालिते भारतकाङ्ग्रेस् छात्रसम्मेलने प्रतिनिधिरासीत् । तत्र एव काङ्ग्रेस् नायकानां परिचयः अभवत् । गान्धिमहात्मनः दर्शनस्य प्रेरणादयकान् अंशानां प्रापणस्य सदवकाशः तेन प्राप्तः ।

जीवनम्

[सम्पादयतु]

क्रि.श.१९२१तमे वर्षे तस्य विद्यार्थिजीवने एव हनूमन्तरायः खादिवस्त्रं धर्तुम् आरब्धवान् । केङ्गल् हनूमन्तय्यस्य सकाले बेङ्गळूरुनगरस्य पुट्टम्मया सह विवाहः अपि सम्पन्नः । सः सुदाम्पत्यफलरूपेण विजयलक्ष्मी वसन्तलक्ष्मी चेति द्वे पुत्र्यौ प्रप्तवान् । बाल्ये दारिद्र्यम् अनुभूतम् इति कारणेन धनसम्पादनार्थं मनः कृतवान् । अतः न्यायवादिनः वृत्तिम् आरब्धवान् । किन्तु धनलोभात् असत्यमार्गेण गन्तुम् नेच्छति स्म । अल्पेनैव कालेन सः प्रसिद्धः न्यायवादी अभवत् । अतः कालेन धनिकः अपि संवृत्तः । यदा सः स्ववृत्तिं निर्वहन् आसीत् तदा एव राजद्रोहस्य अपवादः आगतः । सर्वकारः आक्षेपानुगुणं चिन्तयितुं न्यायालयम् असूचयत् । न्यायाधीशः तं दण्डशुल्कं पूरयितुम् आदिशत् । किन्तु शुल्कं दातुं धनम् एव नासीत् । सः कालान्तरे बेङ्गळूरुमण्डलस्य हरिजनसेवासङ्गस्य कार्यदर्शी अभवत् । हिन्दीप्रचारसभायाः अध्यक्षः अभवत् ।

मैसूरुसंस्थानस्य प्रसिद्धः नेता के.सि.चेङ्गलरायरेड्डी न्यायवादिवृत्तिं परित्यज्य राजनीतिमागत्य स्वातन्त्र्यप्राप्तये अन्दोलनम् प्रवेष्टुम् आहूतवान् । देशे सर्वत्र गान्धिमहात्मनः नेतृत्वे स्वातन्त्रसङ्ग्रामः आरब्धः आसीत् । सङ्ग्रामे भागं वोडुं महात्मागान्धिनः अह्वानं पुरस्कृत्य सङ्ग्रामे सम्मिलितवान् । कालक्रमेण राजकीयक्षेत्रम् अपि प्रविष्टवान् । क्रि.श १९३६तमे वर्षे बेङ्गळूरुमण्डलस्य काङ्ग्रेस् अध्यक्षः भूत्वा दशवार्षाणि कार्यं निरवहत् । क्रि.श. १९३७तमे काले मण्ड्यमण्डलस्य शिवपुरे स्वातन्त्र्यप्राप्तये ध्वजसत्याग्रहः अभवत् । हनूमन्तय्यमहोदयेन निषेधाज्ञा उल्लङ्घ्य राष्ट्रध्वजं धृत्वा यात्रा कृता इति कारणेन सर्वकारेण बद्धः अभवत् । मासत्रयं कारावारवासं दत्त्वा पञ्चशतरूप्यकाणां दण्डशुल्कः अपि स्वीकृतः । एषः केङ्गलमहोदयस्य प्रथमः कारागारवासः । कारगृहतः बहिरागतः सर्वविधत्यागार्थं सिद्धः अभवत् । अस्य लक्ष्यं तु एकम् एव आङ्ग्लेयानां कूटतन्त्रस्य विरुद्धं प्रतिप्रहारः दातव्यः भारतस्य स्वातन्त्र्यप्राप्तिः च इति। यत्र यत्र अवकाशः प्राप्तः तत्र तत्र सर्वत्र आङ्ग्लानां विरुद्धं कठोरं भाषणं कृत्वा जनेषु स्वातन्त्र्यप्राप्तिविषये उत्साहं जनयति स्म ।

राजकीयप्रवेशः

[सम्पादयतु]

क्रि.श.१९४०तमे वर्षे बेङ्गळूरुनगरसभायाः निर्वाचने स्पर्धयित्वा चितः अभवत् । इतः एव तस्य राजकीयजीवनस्य आरम्भः अभवत् । क्रि.श.१९४२तमे वर्षे नगरसभाध्यक्षः आभवत् । अधिकारावधौ बहूनि जनोपकारीणि कार्याणि कृत्वा लोकविश्वासं सम्पादितवान् । तस्मिन् एव काले गान्धिमहात्मना अरब्धे क्विट् इण्डिया आन्दोलने प्राविशत् । अतः पुनः कारागारवासम् अनुभूतवान् । क्रि.श.१९४७तमवर्षस्य आगष्ट् पञ्चदशे यदा भारतं स्वतन्त्रम् अभवत् तदा समग्रः देशः सन्तोषे निमग्नः अभवत् । किन्तु मैसूरुसर्वकारः सन्तोषं नान्वभवत् । यतः मैसूरुराजाः प्रजाप्रभुत्वं नाङ्गीकृतवन्तः । एतेन कुपितः केङ्गल् हनूमन्तय्यः ‘मैसूरु चलन्तु’ इति आन्दोलनम् आरब्धवान् । प्रासादस्य पुरतः सत्याग्रहः कृतः चेत् गोलिकाघातेन मारयामि इति मैसूरुसंस्थानेन उक्तम् अपि अपरिगणय्य आन्दोलनं समुन्नीतवान् । किन्तु तदापि तस्य बन्धनम् अभवत् । सः वर्षं यावत् कारागारे स्थापितः । देशस्य स्वतन्त्रतयाः प्राप्तये केङ्गल् महोदयः सप्तवारं कारागारं प्रविश्य सार्धचत्वारि वर्षाणि यावत् बन्धनस्य कष्टम् अनुभूतवान् । क्रि.श. १९४७ तः १९५२ पर्यन्तं भारतस्य राज्याङ्गरचनासभायाः सदस्यः आसीत् । भारतसंसत्कार्यसमितेः काङ्ग्रेस् पक्षस्य कार्यकारिसमितेः च सदस्यः अपि अभवत् । भारतस्य प्रतिनिधित्वेन स्टक् होम्, डब्लिन् इत्यादीनां देशानां प्रवासं कृतवान् । क्रि.श.१९५०तमे वर्षे मैसूरु काङ्ग्रेस् पक्षस्य अध्यक्षः अपि अभवत् ।

केङ्गल् हनूमन्तय्यनिर्मितः विधानसौधः

केङ्गल् हनूमन्तय्यमहोदयः प्रजाप्रभुत्वरीया निर्वाचितः मैसूरुराज्यस्य प्रथमः मुख्यमन्त्री इति ख्यातः । क्रि.श.१९५२तमवर्षस्य मार्चमासतः क्रि.श. १९५६पर्यन्तं मुख्यमन्त्रिपदं निरूढवान् । तस्य सचिवमण्डले केवल् षट् मन्त्रिणः आसन् । तदा तस्य जीवनस्य उत्तमा स्थितिः आसीत् । हनूमन्तय्यमहोदयः सार्वजनिकशिक्षाक्षेत्रे नूतनान् उपक्रमान् आनीतवान् । प्राथमिकशिक्षातः विश्वविद्यालयपर्यन्तं सर्वविधानि परिवर्तनानि आनीतवान् । शिक्षणेन युवानः स्वावलम्बिनः भवेयुः इति अस्य आशयः आसीत् । साहित्यसंस्कृत्योः विषये अस्य महान् आदरः आसीत् । अतः क्रि.श. १९५४तमे वर्षे नूतनां काञ्चित् योजनां सञ्चालितवान् । कन्नडभाषायाः कोशनिर्माणार्थं बहून् कन्नडलेखकान् नियोजितवान् । कन्नडपरिषदः आर्थिकानुदानं वर्धितवान् । कन्नडभाषाविश्वकोशस्य निर्माणे अपि अस्य योजना एव कारणीभूता इति स्मर्तव्यम् । बहुकालं शासनं कृतवन्तः आङ्ग्लजनाः नगराणां पत्तनानां च नामानि आङ्ग्लभाषया परिवर्तितवन्तः । हनूमन्तय्यमहोदयः तानि पुनः परिवर्त्य कन्नडभाषायाः नामानि दत्तवान् । सिरङ्गपाठारितः- श्रीरङ्गपत्तनं, चिटल्ड्रुग्तः- चित्रदुर्गं, फ्रेञ्चराक्स् तः -पाण्डवपुरं, क्लोस्पेट्तः- रामनगरं च अभवन् । केङ्गल् हनूमन्तय्यः कन्नडभाषाभिमानी आसीत् इति वक्तुम् एषः दृष्टन्तः पर्याप्तः । जातिभेदं सः न सहते स्म । सः स्वयं जात्यतीतव्यक्तिः आसीत् । दीनानां सदा सहायहस्तः आसीत् । तस्य समयप्रज्ञा महती आसीत् । कस्मिन् अपि कार्ये दीर्घसूत्रः न भवति स्म । वचस्येकं मनस्येकं इतिवत् न। यथा वदति तथा आचरति स्म । सर्वदा वचनपरिपालनं करोति स्म । देशे सर्वत्र प्रचलितस्य आहारनियन्त्रणस्य पद्धतिं निषिध्य आहारसौलभ्यं कल्पितवान् । शरावतीविद्युदागारः अनेन एव आरब्धः । शुद्धजलाभावस्य प्रदेशेषु पानजलस्य व्यवस्थाः कल्पिताः । कोलारमण्डलस्य स्वर्णखनिः राष्ट्रीकृता अभवत् । केङ्गल् हनूमन्तय्यस्य काले एव बेङ्गळूरुनगरं सार्वभौमीयं नगरम् इति उद्घुष्टम् । अस्य मन्त्रिपदस्य काले कृतानि महत्कार्याणि नाम विधानसौधस्य निर्माणम् । एषः सौधः न केवलं शिलाभिः वज्रचूर्णैः निर्मितम् भवनम् ।अपि तु एतत् किञ्चित् अमरकाव्यम् । सर्वकारं सञ्चालयितुं याः व्यवस्थाः अवश्यकाः सर्वाः अत्र सन्ति । विधानसौधस्य निर्माणकार्ये निमग्नः आसीत् किन्तु तत्र उपवेष्टुम् अशक्तवान्। कर्णाटकस्य एकीकरणार्थं केङ्गल् महोदयेन निष्कपटः प्रयत्नः कृतः । स्वतन्त्रे भारते भाषानुगुणं प्रान्तानां चयनं भवेत् इति अस्य वादः आसीत् । क्रि.श. १९५६तमे वर्षे एप्रिल् मासे मैसूरु विधनसभायां विधानपरिषदि च पुनः राज्यस्य विभागः व्यवस्थापयितव्यः इति निर्णायः अङ्गीकृतः । सचिवसम्पुटे एव विरोधेषु सत्सु अपि अचञ्चलः हनूमन्तय्यः राज्यस्य कर्णाटकम् इत्येव नाम निर्देशितवान् । विक्षिप्तानां कन्नडभाषिकभागानां पुनः संयोजनम् अभवत् । अस्य आन्दोलनस्य फलरूपेण कर्णाटकम् एकीकृतम् । क्रि.श.१९५६तमे वर्षे तस्य अवधेः समप्तेः पूर्वम् एव मन्त्रिपदं त्यक्तवान् । अनन्तरकालीनानि दिनानि तस्य अज्ञातवासस्य दिनानि एव । सर्वदा विश्रान्तजीवने एकान्तम् इच्छति स्म । नन्दिपर्वतप्रान्ते एकाकी बहुकलं यापयति स्म । रजकीयरङ्गात् दूरे स्थित्वा बहून् ग्रन्थान् पठितवान् । धर्मः देवः आदर्शः निष्कपटता इत्यादिषु विषयेषु विचारमथनम् अकरोत् । युवानः केङ्गल् महोदयस्य मार्गदर्शनम् इच्छन्ति स्म । जनानाम् अनुरोधेन पुनः राजकीयं प्रविष्टवान् । तस्य गृहे प्रतिदिनं राजकीयगण्याः आगत्य चर्चां चिन्तनं मथनं च कुर्वन्ति स्म । क्रि.श.१९५७तमे वर्षे केङ्गल् महोदयः मैसूरुशासनसभायाः निर्वाचने चितः । क्रि.श. १९५८तमे वर्षे रषियादेशं सन्दर्शितवान्। अग्रे केनडा, इङ्ग्लण्ड्, फ्रान्स्, हालेण्ड्, जर्मनी, स्वीडन्, अमेरिका इत्यादिदेशेषु प्रवासं कृतवान् । क्रि.श.१९६२तम् वर्षे केङ्गल् महोदयः लोकसभानिर्वचने चितः लोकसभासदस्यः अभवत् । अस्य जवाहरलालनेहरुः।नेहरुमहोदयस्य विषये अतीव गौरवम् आसीत् । किन्तु अभिप्रायभेदः आसीत् एव । क्रि.श. १९६७तमे वर्षे पुनः लोकसाभासदस्यः अभवत् । प्रासासनसमुद्धरण-आयोगस्य अध्यक्षः अपि भूत्वा क्रि.श.१९६७तमवर्षस्य मार्चतः १९७०पर्यन्तं दायित्वं निरवहत् । केङ्गल् महोदयस्य नायकत्वेन प्रशासनोत्कर्षस्य विषये २५सहस्रपुटात्मकः ग्रन्थः रचितः । भारतीयसंविधानस्य गौरवम् एषः ग्रन्थः प्राप्नोत् । क्रि.श.१९६७-६८तमे काले संसदि काङ्ग्रेस् पक्षस्य उपनायकः अभवत् । कि.श.१९६९तमे वर्षे बार्सिलोनादेशे प्रचालिते प्रशासनविज्ञानसम्मेलने भारतगणस्य नायकः अभवत् । क्रि.श.१९७०तमे वर्षे केन्द्रसर्वकारे समाजकल्याणविभागस्य सचिवः अभवत् । देशविदेशेषु सम्मेलनेषु भागम् ऊढ्वा स्वानुभवं संवर्धितवान् । क्रि.श.१९७१तमे वर्षे सम्भूते मध्यकालीने निर्वाचने बेङ्गळूरुनगरे विजितः पुनः केन्द्रे रेल्वेमन्त्री अभवत् । रेल्वेविभागे आमूलाग्रं परिवर्तनम् अनीतवान् । अस्य कार्यशैलीं राष्ट्रनायकः जयप्रकाशनारायणः प्राशंसत् । क्रि.श १९७२तमे वर्षे विनाकारणं त्यागपत्रं दातव्यम् अभवत् । अनन्तरं देशे अनिरीक्षितानि परिवर्तनानि अभवन् । काङ्ग्रेस् पक्षः पुनः विदलितः । आपत्परिस्थितिः (तुर्तुपरिस्थितिः) उद्घुष्टा । देशे विषमा परिस्थितिः सञ्जाता। तथापि केङ्गल् महोदयः मौनी अभवत् इति जनाः एतं निन्दन्ति स्म । क्रि.श. १९७७तमे वर्षे पुनः निर्वाचने काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा बेङ्गलूरुनगरे पराजितः अभवत् । पक्षस्य आन्तरिकनियमैः असम्मतः पक्षात् बहिरागतवान् । जनतापक्षं प्रोत्साहयितुं यतमानस्य तस्य आशाभङ्गः अभवत् । क्रि.श.१९७७तमे वर्षे सेप्टम्बर् मासे अष्टतत्त्वयुकत्तं सुराज्यं इति नूतनं पक्षं रचितवान् । किन्तु कानिचन दिनानि प्रवर्त्य सः पक्षः काङ्ग्रेस् पक्षे विलीनः अभवत् ।

प्रभुत्वेन विहीनः अपि तेन अलसेन न स्थितम् । मण्ड्यमण्डले केङ्गल् महोदयः स्वात्रन्त्रवीराणां स्मारकत्वेन सत्याग्रहसौधं निर्मितवान् । स्वग्रामे केङ्गल् मध्ये हनूमतः मन्दिरं निर्मितवान् । बेङ्गळूरुनगरे हनूमन्नगरे श्रीरामहनूमतोः समालिङ्गनप्रतिमासहितं देवालयं निर्माय तस्य गिरिस्थानस्य आनन्दमिलनाद्रिः इति नाम दत्तवान् । केङ्गल् इति ग्रामतः देहलीति महानगरपर्यन्तं संवृद्धः अभवत् एषः केङ्गल् हनुमन्तय्य महोदयः । दारिद्र्याग्नौ जातः देशस्य महानायकः भूत्वा दुस्साध्यं साधितवान् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=केङ्गल्_हनुमन्तय्य&oldid=363914" इत्यस्माद् प्रतिप्राप्तम्