केन्द्रियौषधानुसन्धानसंस्थानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
केन्द्रियम् औषधानुसन्धानसंस्थानम्
Central Drug Research Institute
Chattar Manzil 2005.jpg
निर्माता(रः) भारतसर्वकारः
स्थापना १७/२/१९५१
उद्देश्यम् ओषधिक्षेत्रे भारतस्य प्रबलतायाम्, आधुनिकायां च वृद्धिः[१]
अधिपतिः भारतगणराज्यस्य प्रधानमन्त्री
अध्यक्षः डॉ. राम विश्वकर्मा
कर्मचारिणः औषधानुसन्धानसंस्थाने आहत्य एकसहस्राधिकाः जनाः कार्यरताः सन्ति । तेषु कार्यकर्तृषु द्विशताधिकैकषष्टिः (२६१) वैज्ञानिकाः सन्ति ।
क्षेत्रम् लखनऊ
सङ्केतः director@cdri.res.in
जालस्थानम् www.cdriindia.org

केन्द्रिय-औषध-अनुसन्धान-संस्थानम् ( /ˈkɛndrɪjɔːʃhəðɑːnʊsənðɑːnəm/) (हिन्दी: केन्द्रिय औषध अनसन्धान संस्थान, आङ्ग्ल: Central Drug Research Institute) (सि डि आर् आई) इत्येषा संस्था वैज्ञानिक-औद्योगिक-अनुसन्धानपरिषदः (सी. एस्. आई. आर्.) अन्तर्गततया कार्यं करोति । एतस्यां संस्थायां मुख्यतः चिकित्साविज्ञानसम्बद्धं संशोधनं भवति । एतस्याः संस्थायाः अन्तर्गततया एकविंशतिकेन्द्राणि आभारतं कार्यरतानि सन्ति । एवं तु वैज्ञानिक-औद्योगिक-अनुसन्धानपरिषदः (सी. एस्. आई. आर्.) सर्वाः प्रशाखाः विशिष्टाः सन्ति । परन्तु तासु औषधानुसन्धानसंस्थानस्य स्थानं विशिष्टम् अस्ति । यतो हि एतस्मिन् संस्थाने आधुनिकपद्धतीनां संशोधनेन सह प्राच्यभारतीयचिकित्सापद्धतीनाम् अपि संशोधनं भवति [२]

उद्देश्यं, चिकित्सेतिहासः[सम्पादयतु]

केन्द्रियौषधानुसन्धानसंस्थानस्य मुख्योद्देशः अस्ति यत्, भारतस्य प्राचीनचिकित्सापद्धत्यानुगुणं भारते चिकित्सायाः विकासः स्यात् इति । तेन सह आधुनिकपद्धतीनाम् अपि विकासः भवेत् इति । भारतस्य चिकित्सापद्धिः अतिप्राचीना वर्तते । द्विसहस्रवर्षेभ्यः प्राक् भारते आयुर्वेदक्षेत्रे अतिमहत्त्वपूर्णानि संशोधनानि अभूवन् । तस्य संशोधनस्य फलस्वरूपं चरकसंहितायाः, सुश्रुतसंहितायाः च रचना अभवत् । चरकसंहिता मुख्यतः कार्यचिकित्सायाः ग्रन्थः वर्तते । सुश्रुतसंहिता शल्यचिकित्सायाः ग्रन्थः वर्तते । सुश्रुतसंहितायां शवच्छेदनस्य विधिः उल्लिखितः वर्तते । नासिकायाः, ओष्ठयोः, कर्णयोः च 'प्लास्टिक-सर्जरी' कर्तुं विधिः प्रदर्शितः अस्ति । तस्मिन् काले चिकित्सकाः केवलं निदानम् एव न कुर्वन्ति स्म, अपि तु निदानस्य नवीनानां पद्धतीनाम् आविष्करणम् अपि ते स्वयं कुर्वन्ति स्म । तस्मिन् काले चिकित्सकाः विभिन्नानां वनस्पतीनां मूलानाम् उपयोगने, पत्राणाम् उपयोगेन, रसस्य उपयोगेन च निदानं कुर्वन्ति स्म । ते सततम् आवश्यकवनस्पतिषु परीक्षणं कृत्वा ओषधीनां निर्माणं कुर्वन्ति स्म । प्राचीनभारते विकसितः निघण्टु-नामकः वनस्पतीनां शब्दकोशः अद्यापि प्रसिद्धः अस्ति । तस्मिन् ग्रन्थे वनस्पतीनां पर्यायवाचिशब्दाः उल्लिखिताः सन्ति । तक्षशिलायां, काश्यां, नालन्दायां, विक्रमशीलायां च आयुर्वेदशास्त्रस्य विद्वासः निवसन्ति स्म । विश्वविद्यालयानां विद्यार्थिनः आयुर्वेदस्य शिक्षणं प्राप्य अध्ययनाध्यापनेन सह निदानकार्यम् अपि कुर्वन्ति स्म ।

पराधीनभारतं संशोधनं कर्तुम् असमर्थम् अभवत् । प्राचीनभारतस्य असीमितज्ञानस्य स्थानं प्रमाणपत्राधारितेन लघूद्योगात्मकेन सीमितशिक्षणेन स्वीकृतम् । आधुनिकचिकित्सायां प्राचीनभारतीयचिकित्सानुगुणं संशोधन-निदनयोः सम्मिश्रणं नास्ति । अतः भिन्नस्य चिकित्सानुसन्धानस्य आवश्यका समुद्भूता । मध्ययुगे यदा भारतीयचिकित्साविज्ञानस्य ह्रासः जायमानः आसीत्, तदा यूनानी-चिकित्सापद्धत्याः भारतदेशे प्रचलनम् आरब्धम् । ततः यूरोप-देशे विकसिता एलोपैथी-चिकित्सापद्धतिः भारते विकसिता । १८३३ तमे वर्षे भारतदेशे प्रप्रथमः चिकित्सामहाविद्यायस्य आरम्भः कोलकाता-महानगरे अभवत् । तस्य महाविद्यालयस्य मधुसूदन गुप्त-आख्यः विद्यार्थी १८३४ तमे वर्षे भारतदेशे प्रप्रथमं शवच्छेदनक्रियाम् अकरोत् । ततः कालान्तरे मद्रास-मुम्बई-भावनगरादिषु अपि चिकित्सामहाविद्यालयस्य आरम्भः अभवत् । विशालचिकित्सालयान् चिकित्सामहाविद्यालयैः सह एकीकृत्य चिकित्सायाः आधुनिकपद्धतेः प्रचारः, प्रसारश्च आरब्धः ।

आधुनिकचिकित्सापद्धत्यां वैद्यस्य कार्यं प्रमुखं भवति । यतो हि सः एव रोगस्य निदानं करोति । परन्तु वैद्यस्य दायित्वं निदानपर्यन्तमेव सीमितं भवति । सः संशोधनं कृत्वा ओषधिसंशोधनस्य कार्यं कर्तुं समर्थः न भवति । संशोधनस्य अभावेन आधुनिकपरद्धत्याः अपेक्षया पुरातनपद्धत्या एव चिकित्साकार्यं भवति स्म । तेन जनसामान्यानाम् अतिहानिः अभवत् ।

भारते एकोनविंशतिशतके पुनः विज्ञानस्य, प्रौद्योगिक्याः च क्षेत्रे पुनरुत्थानस्य आरम्भः अभवत् । १७८४ तमे वर्षे संस्कृतेः पुरातत्वस्य च क्षेत्रे संशोधनार्थं कोलकाता-महानगरे 'एशियाटिक् सोसायटी' इत्यस्याः संस्थायाः स्थापना अभवत् । ततः १८७५ भारतीय-वातावरण-विज्ञान-विभागस्य, १८९० तमे वर्षे भारतीय-वनस्पति-विज्ञान-सर्वेक्षण-संस्थायाः, १९१६ तमे वर्षे भारतीय-प्राणिविज्ञान-सर्वेक्षण-संस्थायाः च स्थापना अभवत् । उक्तानां सर्वासां संस्थानां स्थापना आङ्ग्लशासनकाले अभवत् । १८७६ तमे वर्षे डॉ. महेन्द्रलाल इत्याख्येन महानुभावेन 'इण्डयन् एसोसिएशन् फॉर् द कल्टिवेशन् ऑफ् साइन्स्' इत्यस्याः संस्थायाः स्थापना कृता आसीत् । परन्तु तस्याः संस्थायाः सम्पूर्णं साहसं तस्य वैज्ञानिकस्य व्यक्तिगतं साहसम् आसीत् । तस्यां संस्थायां संशोधनकार्यं कुर्वन् चन्द्रशेखर वेङ्कटरामन् १९३० तमे वर्षे भौतिकीक्षेत्रे नॉबल्-पुरस्कारं प्राप्तवान् ।

भारते विज्ञानस्य पुनरुद्धारेण सह एव भारतवर्षेण महान्तः वैज्ञानिकाः जनिताः । तेषु जगदीशचन्द्र बसु, प्रफुल्लचन्द्र राय, श्रीनिवासन् रामानुजन्, चन्द्रशेखर वेङ्कटेशरामन्, मेघनाद साहा, सत्येन्द्रनाथ बसु इत्यादीनां महानुभावानां मुख्यस्मरणं भवति । एतेषु अनेके स्वस्य स्वतन्त्रानुसन्धानकेन्द्रस्य अपि स्थापनाम् अकुरवन् । यथा जगदीशचन्द्र बसु कोलकाता-महानगरे 'बोस इन्स्टिट्यूट्' इत्यस्याः संस्थायाः स्थापनाम् अकरोत् । चन्द्रशेखर वेङ्कटरामन् इत्यनेन अपि 'रामन् रिसर्च् इन्टिट्यूट्' इत्यस्याः संस्थायाः स्थापना कृता आसीत् । १८९२ तमे वर्षे 'बङ्गाल केमिकल्स् एण्ड् फार्मास्यूटिक्स्' इत्यस्याः संस्थायाः स्थापनां प्रफुल्लचन्द्रः अकरोत् ।

इतिहासः[सम्पादयतु]

१९४२ तमे वर्षे भारतदेशे वैज्ञानिक-औद्योगिक-अनुसन्धानपरिषदः (सी. एस्. आई. आर्.) स्थापना अभवत् । परिषदः सदस्यैः प्रारम्भिके काले येषाम् एकादशानाम् अनुसन्धानशालानां स्थापना कृता आसीत्, तासु प्रयोगशालासु ओषध्यनुसन्धानप्रयोगशाला अन्यतमा । भारतस्वतन्त्रतायाः सार्धत्रिवर्षानन्तरं गोमतीनद्याः तटे विकसितस्य लखनऊ-महानगरस्य 'छत्तर मञ्जिल'-नामके प्रासादे ओषध्यनुसन्धानसंस्थानस्य आरम्भः अभवत् । १९५१ तमस्य वर्षस्य फरवरी-मासस्य सप्तदशे (१७/२/१९५१) दिनाङ्के भारतगणराज्यस्य प्रप्रथमः प्रधानमन्त्री जवाहरलाल नेहरू ओषध्यनुसन्धानसंस्थानस्य उद्घाटनम् अकरोत्[३]

'छत्तर मञ्जिल'-प्रासादः अत्यन्तः वैभविप्रासादः वर्तते । १७३५-१८०० मध्ये फ्रांस-देशस्य सैनिकाः, व्यापारिणः च तं प्रासादं निर्मापितवन्तः । अवधपूर्याः तत्कालीनः शासकः आसफउद्दौला इत्यस्मै एषः प्रासादः अरोचत । अतः सः ५५,००० रूप्यकाणि दत्त्वा एनं प्रासादम् अक्रीणात् । तस्य शासकस्य वंशजः सआदतअली एतस्मिन् प्रासादे कदाचित् निवसति स्म । सः यदा रुग्णः भवति स्म, तदा तस्मिन् प्रासादे कानिचन दिनानि विश्रान्तिं स्वीकरोति स्म । सः प्रसादेऽस्मिन् आरोग्यस्नानं (Health Bath) करोति स्म । एषः प्रासादः तस्मै सुखं यच्छति स्म । अतः सः एतस्य प्रासादस्य नामकरणं 'फरहत बख्श' इति अकरोत् । उर्दूभाषायां फरहत अर्थात् सुखं तथा च बख्श अर्थात् दाता भवति । तस्य प्रासादस्य अट्टालिका छत्रवत् अस्ति । अतः पथिकाः एनं प्रासादं छत्तर मञ्जिल इति कथयन्ति स्म । ततः एनं प्रासादं परितः अनेकेषां वैभवशालिप्रासादानां निर्माण् अभवत् । १८५६ तमं वर्षं पर्यन्तं प्रासादेऽस्मिन् लखनऊ-महानरस्य शासकानाम् अधिकारः आसीत् । परन्तु ततः १८५७ तमे वर्षे स्वातन्त्र्ययुद्धकाले प्रासादः क्षतिग्रस्तः अभवत् । एतस्य प्रासादस्य उपरि आङ्ग्लैः आधिपत्यं स्थापितम् । स्वातन्त्र्यानन्तरं १९४९ तमे वर्षे छत्तर मञ्जिल-प्रासादः केन्द्रियौषधानुसन्धानस्य मुख्यप्रयोगशलात्वेन भारतसर्वकारेण अधिगृहीतः । शासकानां विलाससीलानां प्रतीकः, साक्षी च एषः प्रासादः साम्प्रतं जनसामान्यानां स्वास्थ्यसेवायै समर्पितः अस्ति ।

ओषधिक्षेत्रे संशोधनानि[४][सम्पादयतु]

काला-अजार[सम्पादयतु]

१९९५ तमे वर्षे समाचारपत्रेषु मुख्यसमाचारस्य शीर्षकं भवति स्म यत्, बिहारराज्ये एकः रहस्यमयरोगः अतिवेगेन विस्तरन् अस्ति इति । वर्षद्वयाभ्यान्तरे अनेके जनाः तेन रहस्यमयरोगेण मृताः । चिकित्सकाः किङ्कर्तव्यमूढाः आसन् । यतो हि रक्तपरीक्षणाय आवश्यकाः रक्तपरीक्षणपेटिकाः भारतदेशस्य पार्श्वे नासन् । तस्यां स्थित्यां कानिचन तथ्यानि जनसामान्यानां सम्मुखम् आगतानि । बिहारराज्यस्य दक्षिणभागे नवतिप्रतिशत् जनाः मेलेरिया, तपेदिक, काला-अजार इत्येताभिः रोगैः पीडिताः आसन् । सर्वकारस्य साङ्खिक्यानुसारं तस्मिन् रोगप्रकोपे २४,००० जनाः मृताः । प्रॉ. सी. पी. ठाकुर-महाभागस्य कथनम् अस्ति यत्, यदि काला-अजार-रोगस्य दशवर्षेषु उन्मूलनं न भवति, तर्हि आगामिदशवर्षेषु बिहारराज्ये एषः रोगः अत्युग्रं स्वरूपं धरिष्यति इति ।

काला-अजार-रोगेन ग्रस्तः रोगी अतिदुर्बलः भवति । तस्य रोगिणः यकृति (Lever), गुल्मे (spleen) च अत्यधिका वृद्धिः भवति । तेन रोगिणः उदरं बहिः आगच्छति । एतस्य रोगस्य प्रारम्भिके काले निदानं भवति चेत्, रोगपरिहारः भवति । परन्तु पुरा भारते काऽपि विशेषपद्धतिः नासीत्, यया काला-अजार-रोगस्य प्रारम्भिके काले ज्ञानं भवेत् । केन्द्रियौषधानुसन्धानसंस्थानेन काला-अजार-रोगस्य प्रारम्भिककाले एव ज्ञानं प्राप्तुम् एकस्याः पद्धत्याः संशोधनं कृतम् । सा पद्धतिः रोगिणे रोगस्य अवस्थितेः ज्ञानं प्राप्तुं समर्था अस्ति ।

काला-अजार-रोगस्य अवस्थितेः शोधिका एका पेटिका संस्थानेन निर्मिता अस्ति । तस्याः पेटिकायाः निर्माणकार्यं, विपणनकार्यं च संस्थानम् अन्यस्यै संस्थायै अयच्छत् । शीघ्रं हि तस्याः पटिकायाः माध्यमेन रोगस्य निदानकार्यं वेगवद् भविष्यति ।

मलेरिया[सम्पादयतु]

NVBDCP इत्यस्य २०११ साङ्ख्यिक्यानुसारम्

मलेरिया-रोगः अतिभयावहः रोगः अस्ति । अतः तस्य रोगस्य ओषधिं संशोधयितुम् ओषध्यनुसन्धानकेन्द्रेण विशेषपरिश्रमः कृतः अस्ति । केन्द्रेण आर्टीथर्, बुलाक्विन् च द्वे ओषध्यौ विकसिते । तयोः औषधयोः साहाय्येन भारते मलेरिया-रोगस्य निदानं भवदस्ति । आर्टीथर्-औषधिः रक्तस्य शाईजॉन्ट्-नामकस्य पदार्थस्य नाशं कर्तुं विकसिता ओषधिः अस्ति । प्लाजमोडियम् फैल्सीपेरम इत्यनेन जातस्य मलेरिया-रोगस्य साधारणं, जटिलं च निदानम् आर्टीथर्-ओषध्या भवति । तथा च बुलाक्विन्-ओषध्याः संशोधनम् अपि केन्द्रेण मलेरिया-रोगस्य निदानार्थं कृतम् अस्ति । ऐण्टीपिलैप्स इत्यस्य अपेक्षया एषा ओषधिः अतिसुरक्षिता अस्ति । एतस्याः ओषध्याः विपणनं निकोलस् पिरामल लि.-संस्थया अबलाक्वीन् इत्यनेन नाम्ना क्रियते ।

मलेरिया-रोगजनकानां मशकानाम् उन्मूलनार्थम् औषधानुसन्धानकेन्द्रेण विशेषलालायाः (saliva) आविष्कारः कृतः अस्ति । सद्यः सः अविष्यकारः परीक्षणाधीनः अस्ति ।

गर्भनिरोधकः[सम्पादयतु]

भारतदेशस्य जनगणना अतिवेगेन वर्धमाना अस्ति । जनसङ्ख्याविस्फोटेन संसाधनानां न्यूनता, वस्तूनाम् अभावः, अवस्था इत्यादयः समस्याः समुद्भवन्ति । ताः समस्याः निवारयितुं परिवारनियोजनस्य अपि आवश्यकता समुद्भूता । १९९२ तमे वर्षे सेन्टक्रोमान्-औषधस्य आविष्कारः पूर्णः कृतः संस्थानेन । सा ओषधिः अधुना सहेली, सेन्ट्रस् इत्याभ्यां नामभ्यां प्रसिद्धा अस्ति ।

विशेषम्[सम्पादयतु]

केन्द्रियौषधानुसन्धानसंस्थानस्य उद्योगक्षेत्रे बहुः प्रभावः अस्ति । अनेकाः राष्ट्रियसंस्थाः, अन्ताराष्ट्रियसंस्थाः च औषधानुसन्धानसंस्थानेन सह मिलित्वा संशोधनकार्ये सहयोगं कुर्वन्ति । ओषधीनां विषये, ओषधीयरसायनानां विषये च आधुनिकपद्धत्यानुगुणं सूचनाः एकत्र कर्तुम् औषधानुसन्धानसंस्थानस्य अन्तर्गततया राष्ट्रियसूचनाकेन्द्रं कार्यरतम् अस्ति ।

औषधानुसन्धानसंस्थानस्य अन्तर्गतम् अष्टादशाः (१८) अनुसंधानविभागाः सन्ति । तेषु विभागेषु विद्यावारिधेः अभ्यासः, विशेषप्रशिक्षणं च भवति । औषधानुसन्धानसंस्थाने आहत्य एकसहस्राधिकाः जनाः कार्यरताः सन्ति । तेषु कार्यकर्तृषु द्विशताधिकैकषष्टिः (२६१) वैज्ञानिकाः सन्ति ।

आधुनिकीनाम् ओषधीनां संशोधने विभिन्नानां प्रजातीनां महत्त्वपूर्णा भूमिका भवति । विभिन्नानां जीवानां, जन्तूनां च उपरि परीक्षणं कृत्वैव ओषधीनां संशोधनं भवति । जैवप्रौद्योगिकीविभागस्य साहाय्येन प्रायोगिकजन्तुजैविकानुसन्धानसंस्थाने एकस्य राष्ट्रियजन्तुप्रयोगशालायाः स्थापना जाता अस्ति । तस्मिन् केन्द्रे मूषकाणां, हेम्स्टर्-प्रजातेः (मूषकाणां विशेषप्रजातिः), शशकानां, कुक्कुराणां, बिडालानां, शूकराणां, वानराणां, पक्षिणां च प्रायोगिकवातावरणे पालनं भवति । ओषधनिमित्तं ये जीवाः मानवकल्याणस्य प्रत्यक्षाप्रत्यक्षरीत्या सहभागिनः भवन्तः सन्ति, तेषां जीवानां कृते कृतज्ञतां प्रदर्शयितुं च एतस्य केन्द्रस्य स्थापना अभवत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद्

भारतसर्वकारः

औषधिविज्ञानम्

लखनौ

बाह्यानुबन्धः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. http://www.cdriindia.org/mission&charter.htm
  2. GUNAKAR MULEY (2012). हमारी प्रमुख राष्ट्रीय प्रयोगशालाएँ. राजकमल प्रकाशन. p. 18-26. ISBN 9788126722631. 
  3. http://www.cdriindia.org/orgnisation.htm
  4. http://www.cdriindia.org/newtech.htm

अधिकवाचनाय[सम्पादयतु]

समाचारपत्रम्