खुदीराम बोस

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
खुदीराम बोस
युवा क्रान्तिकारी खुदीराम बोस (१९०५ तमे वर्षे)
युवा क्रान्तिकारी खुदीराम बोस (१९०५ तमे वर्षे)
जन्म (१८८९-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-०३)३, १८८९
हबीबपुरं, मिदनापोरमण्डलं, पश्चिमवङ्गराज्यम्, भारतम्
मृत्युः ११ १९०८(१९०८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११) (आयुः १८)
कोलकाता
देशीयता भारतीयः
जातिः वङ्गी
वृत्तिः क्रांतिकारी edit this on wikidata
कृते प्रसिद्धः युवतमः स्वतन्त्रताक्रान्तिकारी

खुदीराम बोस (बांग्ला: ক্ষুদিরাম বসু ; जन्म: १८८९ - मृत्यु : १९०८) भारतस्य स्वाधीनतायै १९ वर्षस्य वयसि मृत्युदण्डं प्राप्तवान् । केषाञ्चन इतिहासविदां मतम् अस्ति यद्, लघुनि वयसि भारताय क्रान्तिं कुर्वन् मृत्युदण्डं प्राप्तवत्सु क्रान्तिकारिषु सः युवतमः आसीदिति । परन्तु १८७२ वर्षस्य जनवरी-मासस्य सप्तदशे (१७) दिनाङ्के कूकाओं इत्यत्र जाते सार्वजनिकनरसंहारे त्रयोदश (१३) वर्षीयः कश्चन बालकः अपि मृत्युङ्गतः इति श्रूयते । सः त्रयोदशवर्षीयः बालकः तस्मिन् नरसंहारे पञ्चाशत्तमः (५०) आसीत् । यदा सैनिकाः तं बालकं अग्निगोलकक्षेपकस्य सम्मुखं स्थापितवन्तः, तदा सः लुधियाना-प्रदेशस्य तत्कालीनस्य उपायुक्तस्य (Deputy Commissionaire) कावन इत्येतस्य मासुरीं (श्मश्रुं) दृढतया अगृह्णात् । तेन त्रयोदशवर्षीयेण बालकेन तस्य उपायुक्तस्य मासुरी तावत् पर्यन्तं न त्यक्तवान्, यावत् पर्यन्तम् आङ्ग्लसैनिकैः तस्य हस्तौ न अछिद्येताम् <ref> सरफरोशी की तमन्ना, भागः ४, पृ. १३ </ref>। 

जन्म, प्रारम्भिकं जीवनञ्च[सम्पादयतु]

खुदीरामस्य जन्म ३ दिसम्बर १८८९ दिनाङ्के पश्चिम बङ्गाल-राज्यस्य मिदनापुर-मण्डलस्य हबीबपुर-नामके ग्रामे अभवत् । तस्य पितुः नाम बाबू त्रैलोक्यनाथ बोस, मातुश्च नाम लक्ष्मीप्रिया देवी आसीत् । बालखुदीरामस्य मनसि देशस्य स्वतन्त्रतायै नवम्यां कक्षायाम् एव विचाराः स्फुटिताः । क्रान्तिकार्ये रतः सः स्वस्य अभ्यासम् अपि अत्यजत् । सः स्वदेश्यान्दोलनस्य सक्रियः क्रान्तिकारी आसीत् । छात्रजीवनात् युवावस्थां यावत् हिन्दुस्थानस्य स्वतन्त्रतायै अविरत-परिश्रम-कर्ता खुदीरामः अत्याचारिणः आङ्ग्लसर्वकारस्य उच्छेदनम् इच्छति स्म । अलीपुरमध्ये यः प्रख्यातः विस्फोटः जातः आसीत्, तस्मिन् काण्डे खुदीरामः अपि रतः आसीत् । ततः एकोनविंशे वयसि हस्ते भगवद्भगवद्गीतां गृहीत्वा प्रसन्नमुखः खुदीरामः मृत्युदण्डं स्वीकृतवान् ।

क्रान्तौ योगदानम्[सम्पादयतु]

शालायाः अध्ययनं त्यक्त्वा खुदीरामः 'रिवोल्यूशनरी पार्टी' इत्याख्यस्य दलस्य सदस्यः अभवत् । तत्र तेन वन्दे मातरम् इत्याख्यस्य प्रचारपत्रस्य वितरणकार्यात् स्वयोगदानस्य आरम्भः कृतः । १९०५ तमे वर्षे वङ्गभङ्गस्य विरोधाय आरब्धस्य आन्दोलनस्य सक्रियेषु सदस्येषु सोऽपि अन्यतमः ।

राजद्रोहस्य आरोपात् मुक्तिः[सम्पादयतु]

खुदीराम बसु आङ्ग्लसैनिकैः बद्धः

१९०६ तमस्य वर्षस्य फरवरी-मासे मिदनापुरे काचित् औद्योगिकी, कृषिसम्बद्धा च प्रदर्शनी आयोजिता आसीत् । प्रदर्शनीं द्रष्टुं समीपस्थेभ्यः प्रान्तेभ्यः असङ्ख्याकाः जनाः उपस्थिताः आसन् । वङ्गप्रदेशस्य केनचित् क्रान्तिकारिणा सत्येन्द्रनाथेन लिखतस्य ‘सोनार बांगला’ इति नामकस्य ज्वलन्तपत्रस्य प्रतयः खुदीरामः प्रदर्शन्याः अवसरे व्यतरयत् । कश्चन आरक्षकः खुदीरामं ग्रहीतुं तस्य पृष्ठे अधावत्, परन्तु खुदीरामः तस्य आरक्षकस्य मुखे मुष्टिकाप्रहारं कृत्वा शेषपत्राणि स्वीकृत्य अधावत् । एतस्य कृत्यस्य कृते तस्योपरि अभियोगः अपि अभवत्, परन्तु तस्य विरुद्धं कोऽपि साक्षी नासीत्, अतः सः निर्दोषः असिद्ध्यत । 

इतिहासज्ञात्री मालती मलिक इत्यस्याः मतानुसारं २८ फरवरी १९०६ दिनाङ्के खुदीराम बोस इत्येषः आङ्ग्लारक्षकैः गृहीतः, परन्तु सः कारागारात् पलायने सफलः अभवत् । ततः पुनः अप्रैल-मासे आङ्ग्लारक्षकाः तं धर्तुं समर्थाः अभूवन् । परन्तु १६ मई १९०६ दिनाङ्के सः अभियोगाद् विमुक्तः ।

६ दिसंबर १९०७ दिनाङ्के खुदीरामः नारायणगढ-रेलवे-स्थानके वङ्गराज्यपालस्य विशेष-रेल-यानस्योपरि आक्रमणम् अकोरत् । परन्तु तस्मिन् आक्रमणे राज्यपालस्य हत्यां कर्तुं सः असफलः अभवत् । १९०८ तमे वर्षे वाट्सन, पैम्फायल्ट फुलर इत्येतयोः आङ्ग्लाधिकारिणोः उपरि हस्ताग्निशस्त्रेण  प्रहारः कृतः, तस्मिन् प्रयासेऽपि सः निष्फलः जातः । 

किङ्ग्जफोर्ड-हत्या [सम्पादयतु]

मिदनापुरे ‘युगान्तर’ नामिका काचित् क्रान्तिकारिणां गुप्तसंस्था आसीत् । तस्याः माध्यमेन खुदीरामः क्रान्तिकार्यं कुर्वन् आसीत् । १९०५ तमे वर्षे लॉर्ड कर्जन इत्येषः यदा वङ्गविभाजनस्य घोषणाम् अकरोत्, तदा तस्य विरोधं कर्तुम् अनेके भारतीयाः मार्गेषु विरोधप्रदर्शनानि आचरितवन्तः । तस्मिन् विरोधप्रदर्शने यैः भारतीयैः भागः स्वीकृतः, तेभ्यः भारतीयेभ्यः कोलकाता-राज्यस्य तत्कालीनेन न्यायाधीशेन किंग्जफोर्ड इत्येनेन क्रूराः दण्डाः घोषिताः । अन्येषु अभियोगेष्वपि सः क्रान्तिकारिभ्यः अत्यधिकान् कष्टदायकान् दण्डान् अयच्छत् । किंग्जफोर्ड इत्यस्य क्रूरनिर्णयैः प्रभावितः आङ्ग्लसर्वकारः तस्य प्रोत्साहनाय तस्य पदोन्नतिना सह अपरे स्थाने स्थानान्तरम् अकरोत् । एवं किंग्जफोर्ड इत्येषः मुजफ्फरपुरस्य सत्रन्यायाधीशः अभवत् । ‘युगान्तर’समितेः कस्याञ्चित् गुप्तगोष्ठ्यां किंग्जफोर्ड इत्यस्य हत्यायाः निश्चय अभवत् । तस्य कार्यस्य कृते खुदीरामस्य, प्रफुल्लकुमारस्य च चयनम् अभवत् । खुदीरामस्य, प्रफलुल्कुमारस्य च पार्श्वे एकः अग्निगोलकः, एका भुशुण्डी च आसीत् । मुजफ्फरपुरे सम्प्राप्तौ तौ प्रप्रथमं तु किंग्जफोर्ड इत्यस्य प्रासादस्य गुप्तचरीम् अकुरुताम् । तौ किंग्जफोर्ड इत्यस्य रथस्य, अश्वस्य रङ्गं ज्ञातवन्तौ । ततः खुदीरामः तु किंग्जफोर्ड इत्यस्य कार्यलयं गत्वा तं समीपात् अपश्यत् ।

आक्रमणम्[सम्पादयतु]

३० अप्रैल १९०८ दिनाङ्के नियोजितं कार्यं कर्तुं निर्गतौ तौ किंग्जफोर्ड इत्यस्य प्रासादस्य बहिः स्थित्वा तस्य आगमनस्य प्रतीक्षां कुर्वन्तौ आस्ताम् । प्रासादस्य अधिकारिणः तौ तत्स्थानात् गन्तुम् अपि अवदन्, परन्तु तेभ्यः उचितम् उत्तरं दत्त्वा तौ तत्रैव अतिष्ठताम् । रात्रौ सार्धाष्टवादने, समीपे काले वा क्लब् इत्यस्मात् स्थानात् किंग्जफोर्ड इत्येतस्य रथसदृशः रथः तत्र सम्प्राप्तः । तं रथं दृष्ट्वा खुदीरामः तस्य रथस्य पृष्ठे अधावत् । मार्गः अन्धकारमयः आसीत् । रथः किंग्जफोर्ड इत्यस्य प्रादस्य सम्मुखम् आगतः, तदैव खुदीरामः तस्य रथस्योपरि हस्तविस्फोटकम् अक्षिपत् । हिन्दुस्थाने आङ्ग्लविरुद्धं जातः सः विस्फोटः ३ माईल् दूरेऽपि सर्वैः श्रुतः । एतस्याः घटनायाः कारणेन इङ्ग्लैण्ड-देशे, योरोप-देशे च चिन्तायाः स्थितिः उद्भूता । एनां योजनां खुदीरामः किंग्जफोर्ड इत्यस्य हत्यायै अरचयत्, परन्तु तस्मिन् विस्फोटे द्वे आङ्ग्लमहिले हते । क्लब् इत्यस्मात् स्थानात् बहिः निर्गम्यमानः किंग्जफोर्ड इत्येषः दैवयोगेन रक्षितः । खुदीरामः, प्रफुल्लकुमारश्च रात्रौ एव २४ मीलदूरे स्थितं वैनी-रेलवे-स्थानकं प्राप्तवान्तौ ।

बन्दी खुदीरामः, मृत्युदण्डश्च[सम्पादयतु]

आङ्ग्लारक्षकाः अपि तयोः अन्वेषणे संलग्नाः । वैनी-रेलवे-स्थानके एव ते तौ गृहीतवन्तः । आङ्ग्लारक्षकान् परितः दृष्ट्वा प्रफुल्लकुमारः आत्मानं भुशुण्ड्या मारयित्वा आत्महत्याम् अकरोत् । ततः आङ्ग्लारक्षकाः खुदीरामम् अधरन् । ११ अगस्त १९०८ दिनाङ्के मुजफ्फरपुर-कारागारे खुदीरामः मृत्युदण्डम् अलभत । तस्मिन् समये तस्य वयः अष्टादशवर्षोत्तराष्टमासोत्तराष्टदिनानाम् (18 years, 8 months 8 days old) आसीत् । भगवद्गीतां हस्ते गृहीत्वा खुदीरामः सधैर्यं प्रसन्नमुखः सन् मृत्युदण्डं स्व्यकरोत् । किंग्जफोर्ड इत्येषः भीतः सन् वृत्तिम् अत्यजत् । 

लोकप्रियता[सम्पादयतु]

मुजफ्फरपुर-कारागारस्य केनचित् अधिकारिणा उल्लिखितम् आसीत् यद्, मृत्युदण्डस्य सूचनां श्रुत्वा निर्भीतः खुदीरामः वेधस्थलं प्रति प्रस्थितवान् । तस्य स्मरणं कर्तुं, तस्मात् प्रेरणां प्राप्तुम् अनेकानि गीतानि कविभिः रचितानि । तेषु गीतेषु अनेकानि गीतानि अद्यत्वेऽपि अत्यधिकानि लोकप्रियाणि सन्ति । 

मरणतोत्तरं खुदीरामस्य ख्यातिः चतसृषु दिक्षु प्रसरिता । वङ्गप्रदेशस्य सूत्रकाराः तस्य नाम्ना नवीनस्य धौतवस्त्रस्य आविष्कारम् अकुर्वन् । इतिहासविदां मतानुसारं वङ्गप्रदेशस्य सर्वेभ्यः क्रान्तिकारिभ्यः खुदीरामः अनुसरणीयः अभवत् । विद्यार्थिनः तस्य मृत्योः शोकम् आचरन्तः अनेकेभ्यः दिनेभ्यः शालां, महाविद्यालयं च न गन्तवन्तः । सर्वेऽपि युवानः खुदीरामस्य नाम्ना निर्मितं धौतवस्त्रं धृत्वा तस्मै श्रद्धाङ्जलिं यच्छन्तः आसन् । 

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  • सरफरोशी की तमन्ना (भाग चार), शोध एवं सम्पादन: मदन लाल वर्मा 'क्रान्त', प्रवीण प्रकाशन, दिल्ली १९९७
  • डॉ॰ मदनलाल वर्मा 'क्रान्त' स्वाधीनता संग्राम के क्रान्तिकारी साहित्य का इतिहास (३ खण्डों में) ४७६०/६१ २३ अंसारी रोड दरियागंज नई दिल्ली-११०००२ प्रवीण प्रकाशन २००६
"https://sa.wikipedia.org/w/index.php?title=खुदीराम_बोस&oldid=422389" इत्यस्माद् पुनः प्राप्तिः