गौळिगजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


गौळिगजनाङ्गीयानां स्थानानि[सम्पादयतु]

गौळिगजनाङ्गीयाः कौपीनवेष्टीं धरन्ति इति कारणेन एतान् कौपीनगौळिगाः, मराठिभाषया वदन्ति इति कारणेन मराठाः, कौपीनमराठाः, कौपिनधङ्गाः इत्यपि आह्वयन्ति । एतेषां मूलोद्योगः पशुपालनम् । गौळिगजनाङ्गीयाः कर्णाटके मराठिमिश्रितकन्नडं वदन्ति । एतेषां सङ्ख्या सामान्यतः एकलक्ष्यं स्यात् इति ऊहा । । मुण्डगोडु, यल्लापुर, हळियाळ, जोयिडा इत्यादिषु उपमण्डलेषु सामान्यतः एतेषां सङ्ख्या पञ्चत्रिंशत् सहस्रमिता अस्ति । शिवमोग्गामण्डलस्य, चिक्कमगळूरुमण्डलस्य , बेळगावीमण्डलस्य , धारवाडमण्डलस्य च विविधेषु भागेषु अपि एते दृश्यन्ते । सर्वान् योजयामः चेत् एतेषां सङ्ख्या एकलक्षमिता स्यात् इति ऊहितुं शक्यते । एते कतिचन शतकेभ्यः पूर्वं महाराष्ट्रात्, गोवातः च कर्णाटकं प्रति आगतवन्तः सन्ति । एतेषां वसतिभ्यः ‘वाडे’ इति वदन्ति । एतेषु पितृप्रधानकुटुम्बव्यवस्था अस्ति । सामान्यतः त्रिंशत् ‘कुळि’ सन्ति । कुलगोत्रम् एते ‘कुळि’ इति निर्दिशन्ति ।

गौळिगजनाङ्गस्य वेषभूषणानि[सम्पादयतु]

पुरुषाणां सामान्यवेषः कौपीनम् । बहिः गमनसमये केवलं कट्यां वस्त्रं धरन्ति । शिरसि उष्णीषं, शिवाजिवंशस्थाः इति वदन्तः एते अङ्गुल्यां ताम्रस्य ‘सला’, रजतकङ्कणं, द्वयोः कर्णयोः मुरनामकं कर्णाभरणं, कण्ठे मालां, मणिमालाः च धरन्ति । महिलाः अष्टादशयष्टिमितां शाटिकां विशिष्टशैल्यां धरन्ति । चोलं धरन्ति । एषः चोलः पञ्चषड्वर्णीयैः वस्त्रैः निर्मितः भवति । एते अधिकानि आभरणानि इच्छन्ति । कर्णे बुगुडिनामकं, कापुनामकं च आभरणं, कर्णशृङ्खला, कीलकङ्कणं, नासिकाभरणं, भुजमणिः, हस्ते रजतकङ्कणं, कण्ठे मालाः, पादे रजतपादाङ्गुलीयकं च धरन्ति । महिलाः विहाय आबालवृद्दाः शिरसि अर्धचन्द्राकारेण केशान् निष्कास्य शिखां स्थापयन्ति । परस्परसाहाय्येन क्षौरं कुर्वन्ति ।

गौळिगजनाङ्गस्य गृहाणि[सम्पादयतु]

वंशेन कुटीरनिर्माणं कृत्वा तृणस्य छदिं निर्मान्ति । मशकाः, क्रिमिकीटादयः अन्तः नागच्छेयुः इति आमलकस्य पर्णेन आच्छादयन्ति । द्वारं पूर्वदिशि अथवा उत्तरदिशि कुर्वन्ति ।

गौळिगजनाङ्गस्य आहाराः[सम्पादयतु]

एते अधिकतया रागिधान्यं, तण्डुलं च उपयुज्यते । दिने त्रिवारं भोजनं कुर्वन्ति । प्रातःकाले रागियवागूं, दधि च, मध्याह्ने अन्नं रोटिकां, वनमरीचिकायाः उपसेचनं, नवनीतं च, रात्रिकालीनभोजने अन्नं, रोटिकां, नवनीतं, रागियवागूं च खादन्ति । पालितशुनकेन मृगयया आनीतस्य हरिणस्य, सारङ्गस्य, अजस्य, कुक्कुटस्य, बर्कस्य, शशस्य, गोधायाः, चिक्रोडस्य च मांसम् आहारत्वेन स्वीकुर्वन्ति । ये प्राणिनः यानि सस्यानि च एतेषां कुलचिह्नानि सन्ति तानि न खादन्ति । अजायाः मांसस्य निषेधः अस्ति, न खादन्ति । सुरापानं सामान्यम् । महिलाः, पुरुषाः भेदभावेन विना सुरां पिबन्ति । तमाखुं खादन्ति ।

सामाजिक-आचरणानि[सम्पादयतु]

एतेषु बहुपत्नित्वं प्रचलितमस्ति । पुरुषस्य तिस्रः पत्न्यः भवितुं शक्नुवन्ति । गर्भवती मृता चेत्, प्रसवसमये मृता चेत्, ऋतुमती स्त्री अकाले मृता चेत् च तासां निखननं कुर्वन्ति । रोगिणः मृताः चेत् दहन्ति । अविवाहिताः मृताः चेत् तेषाम् उत्तरक्रिया न क्रियते । दीपावली, कार्तिकं, वर्कूत (गृहदेवस्य पर्व) युगादिः, गौरीपर्व, शिवरात्रिपर्व च आचरन्ति । दसरा अपि एतेषां विशेषपर्व । पर्वसमयेषु ‘पुगडि’ नृत्यं कुर्वन्ति । तन्त्रमन्त्रेषु एतेषाम् अधिकः विश्वासः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=गौळिगजनाङ्गः&oldid=388679" इत्यस्माद् पुनः प्राप्तिः