चीनदेशे हिन्दूधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
हिन्दूत्कीर्णनम्, च्वानजो-सङ्ग्रहालयस्थम्। एतत् चित्रं होली-पर्वणः समारोहाय नरसिंहकथायाः वर्णनं करोति।

चीनदेशे हिन्दूधर्मस्य अनुसरणम् अल्पसंख्यकैः चीनदेशस्य नागरिकैः भवति। आधुनिकचीनदेशीयायां मुख्यधारायां हिन्दूधर्मस्य उपस्थितिः अतीव सीमिता अस्ति, परन्तु पुरातात्विकसाक्ष्यैः ज्ञायते यत्, मध्ययुगीनचीनदेशस्य विभिन्न-प्रान्तेषु हिन्दूधर्मस्य उपस्थितिः आसीदिति। [१] चीन-देशस्य इतिहासात् अधिकं बौद्धधर्मस्य विस्तारेण सम्पूर्णदेशे हिन्दूप्रभावः अवशोषितः अभवत्।[२] भारतस्य वैदिककालात् प्रचलिताः वास्तविकपरम्पराः चीन-देशे लोकप्रियाः सन्ति, यथा योगःध्यानं च। 

हिन्दूसमुदायः विशेषरूपेण अय्यवोले, मनिग्रामम् इत्येतयोः तमिल-व्यापारि-मण्डल्याः माध्यमेन, एकवारं मध्यकालीने दक्षिणचीनदेशे प्रतिष्ठितः।[३][४] एतस्य प्रमाणं दक्षिणपूर्वचीन-देशे च्वानजो, फ़ुज़ियान इत्यतयोः प्रान्तयोः काई-यु-आन-मन्दिरेण, तत्सदृशैः अनेकैः स्मारकैः सिद्ध्यति। [५] हाँग काँग-नगरे हिन्दू आप्रवासिनां (immigrant) लघुः समूदायः निवसति।

इतिहासः[सम्पादयतु]

प्राचीनहिन्दूप्रभावः[सम्पादयतु]

अप्सरसां चित्रं, यत् चीन-देशस्य लुओयांग-प्रान्तस्य लोंगमेन-ग्रोट्टोइस् इत्यत्र अस्ति।

प्राचीनचीनीधर्मस्योपरि हिन्दुधर्मस्य प्रभावस्य कानिचन उदाहरणानि सन्ति, येषु "षड्दर्शनम्" अथवा "षड्सिद्धान्तः" इत्येताभ्यां सह योगः, स्तूपः (जम्बुद्वीपे स्तूपानां शिवालयत्वेन निर्माणम् अभवत्) इत्येतयोः अपि समावेशः भवति । चीन-देशे हिन्दूधर्मः अधिकः लोकप्रियः नासीत्, तस्माद्विपरीताः मान्यताः बौद्धधर्मः, कन्फ्यूशीवादः च अधिकां लोकप्रियताम् अलभेताम्। एतादृश्यां स्थित्यां तिब्बत-प्रान्ते केचन अपवादाः अपि सन्ति।[६]

चीन-देशे लघुः हिन्दूसमुदायः आसीत्, यः सामान्यतः चीन-देशस्य दक्षिणपूर्वदिशायां स्थितः आसीत्। त्रयोदश्याः शताब्द्याः अन्ते लिखिताः तमिल-चीनीभाषायाः द्विभाषिशिलालेखाः च्वानजो-प्रान्तस्थात् शिव-मन्दिरस्य अवशेषैः सह प्राप्ताः। संभवतः द्वयोः दक्षिण-भारतीय-शैल्याः हिन्दूमन्दिरयोः एकं (115) स्यात्तत्। तस्य निर्माणं पुरातनस्य पोताश्रयस्य (port) दक्षिणपूर्वक्षेत्रे, यत्र प्राचीने काले विदेशिव्यापारिणां विदेशी अन्तर्देशः (enclave) स्थितः आसीत्, तत्र जातं स्यात्। [७]

चतुर्णां स्वर्गीयराज्ञां विचारधारा मूलतः दिग्पालेभ्यः समुत्पन्ना। सन-वुकोंग इत्यस्य हनुमति निष्ठा आसीत् इति केचन विद्वांसः स्रोतः यच्छन्ति। सन-वुकोंग इत्येषः चीन-देशीयपौराणिकस्य चरित्रस्य पात्रम् अस्ति।

यक्षः (चीनी: 夜叉) मूलतः हिन्दूधर्मस्य इतिहासस्य कश्चन प्राकृतिकः भूतः उत राक्षस-विशेषः। चीनदेशस्य यक्षं प्रति विश्वासः सद्धर्मपुण्डरीकसूत्रस्य (Lotus Sutra) (पुण्डरीक अर्थात् कमलं, अतः तत्स्तोत्रं कमलसूत्रम् इत्यपि प्रसिद्धम्) माध्यमेन अभवत्, यत् मूलतः धर्मरक्षाद्वारा 290 CE समीपे चीनीभाषायां अनूदितम्। कालान्तरे 406 CE समीपे कुमारजीवद्वारा तस्य सूत्रस्य सप्तपूलिकायाः (fascicle) रूपेण अनुवादः लोकप्रियः अभवत्। 

चीनदेशीयलोकधर्मे (folk religion) अनेकाः किंवदंत्यः, कथाः च (यथा - विद्रोही (Nezha)), हिन्दूपौराणिककथाभ्यः स्वीकृताः। [८] दशम्यां शताब्द्यां टिएन्झै (Tianxizai) इत्यस्य अनुवादोत्तरं विद्रोही इत्यादि प्रसिद्धम् अभवत्। [९] एतस्य प्रभावस्य, विचारसंश्लेषणस्य च कालखण्डे पूर्वोपस्थितानाम् अवधारणानाम् अपि तादात्म्यम् अभवत् - राक्षसान् लू-ओ-चा (luocha) इत्यस्य रूपेण, पिशाचान्  पिशेझुओ (pishezuo) इत्यस्य रूपेण ते स्वीकृतवन्तः।

प्रभावकारी धर्मः[सम्पादयतु]

प्राचीनचीनप्रदेशस्य अभिलेखस्य, आधुनिकपुरातत्त्वसंशोधनस्य च अनुसारं हिन्दुधर्मस्य काश्चन परम्पराः चीन-देशस्य अनेकेषु प्रेदशेषु प्रचलिताः आसन्। 

मोगाओ गुहा (Tun-huang - Mogao) चीन-देशस्य उत्तरभागे स्थिते गांसू-प्रान्ते अस्ति। बौद्धकलायाः प्रभाविताः हिन्दु-देवानां मूर्तयः अपि इतः प्राप्ताः। उदाहरणरूपेण, २८५ क्रमाङ्कस्य गुहायां गजमुखिनः गणेशस्य स्थापना षष्ठम्यां शताब्द्याम् अभवत्। [१०]

च्वानजो-प्रान्ते हिन्दूपरम्परा[सम्पादयतु]

च्वानजो-प्रान्तस्य गुहायां शिवस्य शिल्पमूर्तिः
मध्यकालीने चीनदेशे हिन्दुधर्मस्य उपस्थितेः प्रमाणानि पुरातत्त्वविभागः अपि ददाति। तस्य स्थलस्य स्थितिः।[५]

च्वानजो-प्रान्तस्य फुजियन्-प्रदेशे चीन-देशे स्थितस्य हिन्दूधर्मस्य प्रमाणानि विशेषतया प्राप्तानि। [११]

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. Huang Xinchuan (1986), Hinduism and China, in Freedom, Progress, and Society (Editors: Balasubramanian et al.
  2. John Kieschnick and Meir Shahar (2013), India in the Chinese Imagination - Myth, Religion and Thought, ISBN 978-0812245608, University of Pennsylvania Press
  3. W.W. Rockhill (1914), Notes on the relations and trade of China with the Eastern Archipelago and the coasts of Indian Ocean during the 14th century", T'oung-Pao, 16:2
  4. T.N. Subramaniam (1978), A Tamil Colony in Medieval China, South Indian Studies, Society for Archaeological, Historical and Epigraphical Research, pp 5-9
  5. ५.० ५.१ John Guy (2001), The Emporium of the World: Maritime Quanzhou 1000-1400 (Editor: Angela Schottenhammer), ISBN 978-9004117730, Brill Academic, pp. 294-308
  6. Sherring and Longstaff (1936), Western Tibet and the British borderland - The Sacred Country of Hindus and Buddhists Edward Arnold, London
  7. [१]
  8. Chinese Nezha has been traced to Hinduism's Nalakubara
  9. Meir Shahar (2013), in India in the Chinese Imagination - Myth, Religion and Thought, ISBN 978-0812245608, University of Pennsylvania Press, pp. 21-44
  10. Alice Getty (1936), Gaṇeśa: a monograph on the elephant-faced god, Reprinted in 1971, Oxford: Clarendon Press, Chapter 7, pp. 67-78
  11. Richard Pearson, Li Min and Li Guo (2002), Quanzhou Archaeology: A Brief Review, International Journal of Historical Archaeology, Vol. 6, No. 1, pp. 23-34
"https://sa.wikipedia.org/w/index.php?title=चीनदेशे_हिन्दूधर्मः&oldid=422402" इत्यस्माद् पुनः प्राप्तिः