जि वि अय्यर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


संस्कृतवाङ्मयम् आप्राचीनात् विश्वो अस्मिन् मार्गदीप इव दीप्यमानमस्ति। गौर्वाण्यां नैके साधकाः अभ्यासेन वाक्प्रवचनेन परां कोटिमधिगच्छन्तः सन्ति इति विहितमेवायं विचारः। आधुनिका अपि सुवि़ज्ञाः प्राचीनपरम्परां दृश्य-श्रव्यमाध्यमेन परिचयं कारयन्नेवास्माकं संस्कृतिं सर्वत्र प्रसरन्तः सन्तीति अहो अस्माकं भाग्यम् । तादृशीष्वन्यतमः 'कन्नड भीष्म' इत्येव प्रथित: स्मरणीयाः श्री ' गणपति वेङक्टराम अय्यर' महाभागा: । महोदयोयं १९१७ तमे वर्षॆ सप्तम्बरमासे तृतीये मैसूरु राज्यस्य नञ्जनगूडु इत्यस्मिन् परमपवितत्रे प्रदेशे ज्न्म लेभे । सुसंस्कृतवंशे अजायत इत्यनेनैवास्य जीवनपद्धतिरपि समीचीना आसीदिति निश्चप्रचमेव ।

महोदयो अयं सुप्रसिद्ध अभिनेता गुब्बि वीरण्ण महोदयस्य नाटकनिवहे स्वीये अष्टमे वयसि एव भागं स्वीकृत्य नाटकेषु चलनचित्रादिषु अभिनीय महतीं ख्यातिमवाप । अयञ्च कन्नड संस्कृतभाषयोः विशेषतः पाण्डित्यमवाप्य चित्रनिर्माणम् अपि कृतवान् । तत्रापि संस्कृतभाषायामेव सर्वादौ ' श्री शङकराचार्य: ' इति चित्रं निर्मीय नवामितिहासं चित्रप्रपञचे सृष्टवान् इति तु मोदावहो विषयः । ' आदिशङ्कराचार्य-चित्रस्य राष्ट्र्प्रशस्तिः अलभत । अनेन प्रोत्साहितः अय्यर्-महोदयः ' श्रीध्वाचार्य ' इत्यपि कर्नाटकीय आचार्यवराणां चित्रं गौर्वाण्यां तथा ' श्री रामानुजाचार्याः ' इति तमिळभाषायामपि निर्मीय मतत्रयाचार्याणां परिचयं सामान्यजनानां कृते कारितवान् ।[१]

भगवद्गीतामपि दृश्यमाध्यमेन चित्रीकृत्य राष्ट्रप्रशस्तिम् अभजन्त । भुवनस्य मार्गदर्शका इव शोभमानं श्री स्वामिविवेकानन्दमहोदयम् अधिकृत्यापि साक्ष्यचित्रं निर्मीय आप्रपञ्चं ख्यातिमलभन्त । महोदयोsयं स्वीये सप्ताशीतितमे वर्षॆ २००३ तमे वर्षे डिसेम्बर् एकविंशतितमे दिनाङ्के दिवङ्गताः ।[२] अस्य पार्थिवशरीरस्य बेङ्गलूरुनगरस्य केङ्गेरी समीपस्य "दोड्ड आलदमर" समीपे भारद्वाजाश्रमे अन्त्यसंस्कारः कृतः ।

उपसंहृति:[सम्पादयतु]

एवं महोदयोsयं स्वीय कर्मण्येव जनमानसे सदा संस्मरणीयाः सन्तीति सश्रद्धया संस्मृत्य तेषां पथे एव चराम इति सङ्कल्पयामः ।

उलेखः[सम्पादयतु]

  1. http://dff.nic.in/2011/31st_nff_1984.pdf
  2. http://www.mysoresamachar.com/gv_iyer_dead.htm

‍‍‌

"https://sa.wikipedia.org/w/index.php?title=जि_वि_अय्यर्&oldid=368981" इत्यस्माद् पुनः प्राप्तिः