दूताङ्गदम्
दूताङ्गदम् | |
---|---|
अङ्गददौत्यस्य "राजा" रविवर्मणा निर्मितं चित्रम् | |
लेखकः | अज्ञातः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
दूताङ्गदस्य छायानाटकस्य चतुरङ्कस्य कर्ता सुभटस्त्रयोदश्याः शताब्याः पूर्वार्धे गुर्जरेषु भीमद्वितीयस्य शासनकाले (११७०-१२३९ ख्रीष्टाब्दमध्ये) प्रातिभमालोकं प्रसारयामास । तदनन्तरं त्रिभुवनपाले शासति १२४३ ई० वर्षे कुमारपाल-यात्रामहोत्सवेऽस्य प्रथमप्रयोगोऽभवत्। गुर्जरराजसभाजितः सुभटश्चिरं सोमेश्वरेण सुरथोत्सवे नाम स्वमहाकाव्ये कविप्रवर इति प्रशंसितः । अस्य नाटकस्य प्रस्तावनायां सुभटः पद-वाक्य-प्रमाण-पारावरीण इति वर्णितः । दामोदरो हनुमन्नाटकेन हनुमन्तं नायकमुपनिबध्य यथा यशो लेभे तथानेन रूपकेणाङ्गदं प्रमुखतामापाद्य सुभटः।
कथावस्तु
[सम्पादयतु]युद्धकाण्डस्योत्तरवृत्तमनुसृत्य दृश्यचतुष्टयेन संक्षिप्य निबद्धा। रामोऽङ्गदेन रावणं सन्दिशति-सीतां प्रत्यर्पय अन्यथा रक्षोवेश उत्साद्यते । अन्येद्युरङ्गदो रावणं संबोधयति - रे रे रावण रावणाः कति, बहूनेतान् वयं शुश्रुम प्रागेकं किल कार्तवीर्य-नृपतेर्दोर्दण्ड-पिण्डीकृतम्।
एकं नर्तन-दापितान्न-कवलं दैत्येन्द्र दासोजनै-
रेकं वक्तुमपत्नपामह इति त्वं तेषु कोऽन्योऽथवा॥
इत्युक्तवन्तमभिरावणेन कृतोपस्थापना मायामैथिली प्रत्युवाच -
एषामुपरि कस्मात् विद्यसे राघव तद् व्रज निजं नगरम्।
दत्ताहं निजहृदये साक्षीकृत्य मदनमेतस्मै॥
मदर्थं चिन्तां विहाय राक्षसैराक्रान्तं भरतं रक्षेति च रामं प्रति सन्देशं जगौ। नैवं सीताऽभिजातबालोचितां लज्जां जातु विसृजेदिति वितर्कयत्येव बालिसुते कापि राक्षसी रावणमुवाच - रक्षोराज, रक्ष-रक्ष सीताम् । तत्र लतापाशेनात्मानं सा घातयति । तदा रावणो दूरं गतः। युद्धे रावणो हतः रामः पुष्पकेणायोध्यां प्रत्यावर्तत।
समीक्षा
[सम्पादयतु]किमिदं छायानाटकं नाम ? सुभटः स्वयमिदं छायानाटकं प्रख्यापयति । मेघप्रभाचार्योऽपि स्वकृतं धर्माभ्युदयं नाम रूपकं छायानाट्यप्रबन्धं घोषयतीति कोऽत्र हेतुश्छायाशब्दसन्निवेशस्य। नैतादृशेषु रूपकेषु इतररूपकेभ्यो भेदकं किमपि तत्त्वं पश्यामः रङ्गेऽभिनयं छायया कृतं वक्तुमपि न युज्यते। अन्येषामपि हि तादृशोऽभिनयः सम्भाव्यते । इति वितर्क छायाशब्दस्य कोऽर्थ इति विचारः प्राथम्यं भजते । किन्तु ततोऽपि पूर्वमितराणामाचार्याणां संमतान्यत्र स्मरणमर्हन्ति । यथा -
डॉ० डे महोदयः स्व-संस्कृतसाहित्येतिहासग्रन्थे[१] छायानाटकमिति सर्वात्मना-संशयितं मन्वानोच्छायाभिनेयत्व-वैशिष्टयमपश्यन् नास्तिच्छायानाटकं किञ्चिदिति घोषयति । तस्याशयोऽयमास्ते यत्, तान्येवच्छायानाट्यत्वं भजेरन् यानि पटप्रतिविम्बिताकारमात्रैः तिरोहितशरीरैरेव पात्रैरभिनीयते।
विलसनमहोदयः छायाभासेनाभिनेयानि वा रूपरेखामात्राणि वा रूपकाणिछायारूपत्वेन मनुते।
कीथ-महाभागो नैव दूताङ्गदे विशेषं पश्यति येनेदं छायानाटकनाम्न: सार्थक्यं वहेत् ।
नैतेऽधुनातना मनीषिणः परम्परामनुरुन्धन्ति न वा वितर्कयन्ति कथंकारमीदृशानि रूपकाणिच्छायानाटकान्यमन्यन्त तैस्तैः कृतिभिर्नाट्यकर्तृभिरिति । प्रतिकृतिरत्रच्छाया मता नैव प्रतिबिम्बम् । यथा च श्रुतिः -
यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे। [२]
अत्र प्रतिकृतिः छायामाहुः । यथा वा -
यस्यच्छायामृतं यस्य मृत्युः।[३] इत्यमृतमृत्यू हिरण्यगर्भस्य प्रतिकृतित्वमेव भजतः । अपि च -
छायेव विश्वंभुवनम्।[४] इति आङ्गल-शैडो-पर्यायत्वं नैव सर्वथापूरयतिच्छायाशब्दः । यदि तथा मन्येतापि, नैव हानिः । कालिदासः उपमाद्वारेण समर्थयति -
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत् पुरस्ताद्।
वल्मीकाग्रत प्रभवति धनुष्खण्डमाखण्डलस्य।।
इति रत्नानां छायाकिरणाभा निगदिता। सा च प्रतिमारूपैव । अत एव मूर्तिरपिच्छाया कथ्यते । प्रतिमापर्यायत्वेऽधिगते भासकृतस्य प्रतिमानाटकस्यापि छायानाटकत्वं स्थितम् । अथो वितन्यते - दिङ्नागस्य कुन्दमालास्याभिनवसंविधानस्योदाहरणम्। उत्तररामचरितस्य तृतीयोऽङ्कश्च्छायाङ्कत्वेनोपनिबद्धो भवभूतिना। तत्र हि सीताछायारूपमनुहरति । दर्शकास्तां पश्यन्ति, किन्तु रामेण सा प्रत्यक्ष नावलोक्यत इति । राजशेखरः शालभजिकमायोज्य स्वकृत्यं नाटिकां विद्धशालभञ्जिकां संज्ञापयति।
सिंहभूपालः कुवलयावलों नाटिकां रत्नपञ्चालिकेति नामान्तरेण व्यवहरति - तत्र हि प्रतिमानाटक इव रत्नपञ्चालिकायाः अभिनवः प्रयोगः। मायामयीं सीतामुपलक्ष्य हनुमन्नाटकमपि छायानाटकमिति निगद्यत इव। उल्लाघराघवे मायासीतायाश्छिन्नशिरो रावणेन रामस्य पुरस्तात् कृत इति तन्नाटकमपिच्छायानाटकमाह सोमेश्वरः। यशोवर्मणो रामाभ्युदये रावणो मायासीतायाः शिरश्छिनत्ति ।
सर्वथा प्रतिमा वा प्रतिकृतिर्वा मायाकृतिर्वा पुत्तलिका वा छायापदेनाभिमता नाट्यकृताम् । अत्र पौराणिकी परम्पराऽपि सर्वथा पोषयति नः सिद्धान्तम् - सूर्यस्य तेजः सोढुमपारयन्ती सूर्यभार्या सञ्ज्ञा गृहादपससार । तया स्वप्रतिकृतिः 'छाया' गृहे नियोजिता। सूर्यश्च तां छायां संज्ञाममन्यत इति मत्स्यपुराणे[५] वर्णितम् । अत एव दूताङ्गदस्यच्छायानाटकत्वं प्रति सर्वथाश्वासिमो साधुनामकरणमिति । अत्र हि प्रहस्तो रङ्गमञ्चमधिष्ठापयति मायामैथिलीम् -
"(ततः प्रविशति प्रहस्तेन सह माया मैथिली) मैथली - जेदु जैदु अज्जउलो (इत्यभिदधाना रावणोत्सङ्गमारोहति)”
प्रकाशजनितं प्रकाशाभावकृतमाकाराभासमेव छायां मन्वाना बभ्रमुरेव यच्छायानाटकत्वं न कुत्रापीति।