दौलतसिंह कोठारी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
डॉ. दौलतसिंह कोठारी
Daulat Singh Kothari
अस्य नाम्ना कोठारी-आयोगः प्रसिद्धः
जननम् (१९०६-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-०६)६ १९०६
उदयपुरं, राजस्थानराज्यम् (आङ्ग्लकाले मेवाडराज्ये)
मरणम् ४ १९९३(१९९३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०४) (आयुः ८६)
जयपुरं, राजस्थानराज्यम्
वासस्थानम् भारतम्
देशीयता भारतीयः
कार्यक्षेत्राणि भौतिकी, शिक्षणं च
संस्थाः इलाहाबादविश्वविद्यालयः
देहलीविश्वविद्यालयः
विषयेषु प्रसिद्धः राष्ट्रियशिक्षायोगाध्यक्षः
धर्मः हिन्दुः


दौलतसिंहः ( /ˈdɔːlətəsɪhə kthɑːr/) (हिन्दी: दौलत सिंह कोठारी, आङ्ग्ल: Daulat Singh Kothari) भारतस्य प्रसिद्धः वैज्ञानिकः । १९६१ तमात् वर्षात् दशवर्षाणि यावत् सः विश्वविद्यालयानुदानायोगस्य अध्यक्षपदं व्यभूषयत् । १९६४ तमे वर्षे सः राष्ट्रियशिक्षायोगस्यापि अध्यक्षः आसीत् । प्रशासकीयसेवायै १९६२ तमे वर्षे सः पद्मभूषणं, १९७३ तमे वर्षे च पद्मविभूषणं प्राप्नोत् ।

जन्म, परिवारश्च[सम्पादयतु]

१९०६ तमस्य वर्षस्य जुलाई-मासस्य षष्ठमे (६/७/१९०६) दिनाङ्के राजस्थानराज्यस्य उदयपुरे दौलतसिंहस्य जन्म अभवत् । तस्मिन् काले उदयपुरं मेवाडराज्यस्य अङ्गभूतम् आसीत् । दौलतसिंहस्य पिता फतेहलाल कोठारी शिक्षकः आसीत् । तस्य ज्येष्ठः पुत्रः दौलतसिंहः । दौलतसिंहस्य अन्ये त्रयः भ्रातरः, एका भगिनी च आसन् । १९१८ तमे वर्षे अष्टात्रिंशत् (३८) वर्षीयः फतेहलाल-महोदयः दिवङ्गतः । तस्मिन् काले दौलतसिंहः द्वादशवर्षदेशीयः (१२) आसीत् । ज्येष्ठपुत्रे सति पितुः निधनोत्तरं गृहदायित्वं दौलतसिहंस्योपरि आपतितम् । दौलतसिंहस्य माता जैनमतानुयायिनी आसीत् । सा सर्वदा अन्येषां साहाय्यार्थं तत्परा भवति स्म । दौलतसिंहस्य जीवने तस्य मातुः प्रभावः प्रत्यक्षः आसीत् ।

डॉ. दौलतसिंहस्य पत्न्याः नाम सुजाता आसीत् । तयोः त्रयः पुत्राः आसन् । तेषां नामानि क्रमेण लक्ष्मणसिंहः, ललितः, प्रतापसिंहश्च । लक्ष्मणसिंहः देहली-विश्वविद्यालये सेवानिवृत्तः प्राध्यापकः ।

शिक्षणम्[सम्पादयतु]

दौलतसिंहस्य प्राथमिकं शिक्षणम् उदयपुरे एव अभवत् । ततः फतेहलाल इत्यस्य शिरमल बापना इत्याख्यः मित्रं स्वपुत्रेण सह अध्ययनं कर्तुं दौलतसिंहम् आह्वयत् । शिरमल बापना इत्येषः इन्दोरराज्यस्य मुख्यमन्त्री आसीत् । प्राथमिकशिक्षणोत्तरं दौलतसिहंस्य माध्यमिकशिक्षणम् इन्दौर-नगरे आरब्धम् । १९२२ तमे वर्षे महाराजा शिवाजीराव-उच्चविद्यालयात् दौलतसिंहः मैट्रिक्यूलेशन्-परीक्षायाम् उत्तीर्णः । इन्दौर-नगरे माध्यमिकशिक्षणं समाप्य सः उदयपुरं प्रतिगम्य इन्टर्मिडियेट्-कक्षायाः अध्ययनं प्रारभत । १९२४ तमे वर्षे 'राजपूत बॉर्ड'-मध्ये सः प्रथमक्रमेण इन्टर्मिडियेट्-परीक्षायाम् उत्तीर्णः अभवत् । तस्यां परीक्षायां सः भौतिकशास्त्रं, रसायनं, गणितम् इत्येतेषु त्रिषु विषयेषु विशेषयोग्यतां प्राप्नोत् । इन्टर्मिडियेट्-परीक्षायाम् उत्तमप्रदर्शनत्वात् मेवाड-राज्यस्य महाराजात् प्रतिमासं पञ्चाशतः (५०) रूप्यकाणां लब्धछात्रवृत्तिः सः इलाहाबाद-विश्वविद्यालये अध्ययनम् अकरोत् । तस्मिन् काले इलाहाबाद-विश्वविद्यालयस्य भौतिकीविभागाध्यक्षः डॉ. मेघनादः आसीत् । तस्य मार्गदर्शने दौलतसिंहः बी एस् सी, एम एस् सी इत्येते पदव्यौ प्राप्नोत् । १९२६ तमे वर्षे 'बी एस् सी'-पदवीं, १९२८ तमे वर्षे च 'एम एस् सी'-पदवीं सः अलभत ।

वृत्तिः[सम्पादयतु]

'एम एस् सी'-पदवीप्राप्तः दौलतसिंहः इलाहाबाद-विश्वविद्यालयस्य भौतीकविभागे एव व्याख्यातृत्वेन वृत्तिं प्रारभत । तत्र वर्षद्वयं यावत् अध्याप्य सः उच्चशिक्षणं प्राप्तुम् इङ्गलैण्ड-देशम् अगच्छत् । तस्य कृते युनाइटेड् प्रोविन्स्-इत्याख्यां राज्यसर्वकारस्य छात्रवृत्तिं, मेवाडराज्यात् ३५०० रूप्यकाणां वृद्धिविहीनम् ऋणं च सः अलभत । १९३० तमे वर्षे सः इङ्गलैण्ड-देशम् अगच्छत् । तत्र केम्ब्रिज्-विश्वविद्यालस्य केवेन्डिश्-प्रयोगशालायां सः अर्नेस्ट रदरफोर्ड इत्याख्यस्य मार्गदर्शनं प्राप्य विद्यावाचस्पतिः (Phd) अभवत् । डॉ मेघनादस्य कथनेन दौलतसिंहः अर्नेस्ट रदरफोर्ड-महोदयस्य समीपं गतवान् आसीत् । केम्ब्रिज्-विश्वविद्यालयात् विद्यावाचस्पतिः भूत्वा दौलतसिंहः भारतं प्रत्यागच्छत् । यतः विदेशगमनात् प्राक् सः इलाहाबाद-विश्वविद्याले पाठयन्नासीत्, अतः १९३३ तमे वर्षे इलाहाबाद-विश्वविद्यालयस्य भौतिकी-विभागे तेन व्याख्यातृत्वेन कार्यम् अनुसृतम् (resumed) (पुनरारब्धम् इत्यर्थः) [१]

१९३४ तमे वर्षे देहली-विश्विद्यालये भौतिकविभागाध्यक्षत्वेन सः भौतिकविषयाध्यापनम् आरभत । तस्मिन् काले देहली-विश्वविद्यालयस्य विज्ञानविभागः ‘कश्मीरि गेट’ इत्याख्ये विस्तारे आसीत् । विज्ञानविभागस्य प्रयोगशालायां पर्याप्तसाधनानानि नासन् । विश्वविद्यालयाय बी एस् सी-कक्षां यावदेव पाठयितुं मान्यता आसीत् । परन्तु ततः दौलतसिंहेन कार्यभारे स्वीकृते सति अनेकानि सकारात्मकानि परिवर्तनानि विश्वविद्यालये, विज्ञानविभागे च अभूवन् ।

१९४२ तमे वर्षे दौलतसिंहः भौतिकविभागस्य व्याख्यातृत्वेन नियुक्तः । उपकुलपितेः सहयोगेन दौलतसिंहः नवीनस्य भौतिकविभागस्य सुचारुस्थापनाम् अकरोत् । प्रथमे वर्षे भौतिकविभागे केवलं पञ्च छात्राः आसन्, ये १९४४ तमे वर्षे उत्तीर्णाः । दौलतसिंहस्य सततपरिश्रमेण भौतिकविभागे प्रयोगशाला सम्पन्नतां गता । विद्यार्थिनां विविधविषयाणां विकासार्थं दौलतसिंहः सर्वदा तत्परः भवति स्म । सः निश्चितकालावधौ उत्तमान् भौतिकविज्ञानिनः प्रयोगशालां प्रति आहूय विशेषवर्गाणाम् आयोजनं करोति स्म । तेन प्रयोगशालया उचितविकासः साधितः । ये विज्ञानिनः तां प्रयोगशालां प्रति मार्गदर्शनाय गतवन्तः, तेषु पी एम् एस् बकेट् (PMS Blackett), निल्स् बोह्र् (Niels Bohr), पि एम् एम् धिरक् (PAM Dirac), पी कापित्झा (P Kapitza), आई प्रिगोगिन् (I Prigogine), सि वि रामन् (CV Raman), एच् जे भामा (H.J. Bhabha), एम् एन् साहा (M.N. Saha), के एस् कृष्णन् (K.S Krishnan) च अन्तर्भवन्ति ।

सक्रियं विज्ञानविभागं चालयन् सः विभिन्नेषु विषयेषु अनेकान् शोधप्रबन्धान् प्राकाशयत् । तेषु विषयेषु भौतिकशास्त्रं (physics), खगोलीयभौतिकशास्त्रं (astrophysics), प्लास्मा-भौतिकशास्त्रं (plasma physics), चुम्बकीय-विज्ञानं (magneto hydrodynamics), क्वोन्टम् इलेक्ट्रोडायनामिक्स् (quantum electrodynamics), रिलेटिविक् क्वोन्टम्स् स्टेटेस्टिक्स् (relativistic quantum statistics) च मुख्याः विषयाः आसन् ।

देहलीविश्वविद्यालये दौलतसिंहस्य कार्यस्य प्रशंसा सर्वैः विज्ञानिभिः, विद्यार्थिभिः, विश्वविद्यालयैः, भारतसर्वकारेण च कृता । दौलतसिंहस्य कार्यं दृष्ट्वा १९४८ तमे वर्षे भारतसर्वकारः देहलीविश्वविद्यालयं न्यवदेयत् यत्, डॉ. दौलतसिंहः भारतस्य विज्ञानपरामर्शकः भवेत् इति । एवं त्रिभ्यः वर्षेभ्यः डॉ. दौलतसिंहः भारतसर्वकारस्य रक्षामन्त्रालयस्य कार्ये सँल्लग्नः अभवत् । ततः १९५२ तमे वर्षे सः विश्वविद्यालयस्य कार्येषु पुनः सक्रियः अभवत् । परन्तु रक्षामन्त्रालये मानदपरामर्शकत्वेन दशकं यावत् सेवाम् अकरोत् ।

यदा डॉ. दौलतसिंहः रक्षामन्त्रालये कार्यरतः आसीत्, तदा मन्त्रालयेन निम्नप्रयोगशालाः प्रस्थापिताः ।

१. आयुधप्रौद्योगिकीसंस्थानम्, पुणे (Institute of Armament Technology, Pune.)

२. नौसेनायै रसायनस्य, धातुकर्मणः च प्रयोगशाला (Naval Chemical and Metallurgical Laboratory, Mumbai.)

३. भारतीयनौसेनाभौतिकप्रयोगशाला, कोच्चि (Indian Naval Physical Laboratory, Kochi)

४. अग्न्यनुसन्धानकेन्द्रम् (Centre for Fire Research, Delhi)

५. वज्रावस्थाभौतिकीप्रयोगशाला, दिल्ली (Solid State Physics Laboratory, Delhi )

६. रक्षाखाद्यशोधप्रयोगशाला, मैसूर (Defence Food Research Laboratory, Mysore)

७. फिजियोलॉजी, संबद्धविज्ञानं च केन्द्रम्, चेन्नई (Defence Institute of Physiology and Allied Sciences, Chennai )

८. साइकोलॉजिकलरिसर्च-निदेशालयः, नवदेहली (Directorate of Psychological Research, New Delhi)

९. रक्षाविद्युदानुसन्धानप्रयोगशाला, हैदराबाद (Defence Electronics and Research Laboratory, Hyderabad)

१०. वैज्ञानिकमूल्याङ्कनसमूहः, देहली (Scientific Evaluation Group, Delhi)

११. तकनीकी-बैलिस्टिक-अनुसन्धानप्रयोगशाला, चण्डीगढ (Technical Ballistic Research Laboratory, Chandigarh)

१९६१ तमे वर्षे डॉ. दौलतसिंहः विश्वविद्यालयानुदानायोगस्य अध्यक्षत्वेन नियुक्तः । तस्मिन् आयोगे सः त्रयोदश वर्षाणि अध्यक्षत्वेन दायित्वम् अवहत् ।

राष्ट्रियशिक्षायोगः[सम्पादयतु]

राष्ट्रियशिक्षायोगः भारतीयशिक्षायोगः इत्यपि प्रसिद्धम् । १९६४ तमे वर्षे यदा भारतसर्वकारः भारतीयशिक्षायोगस्य रचनाम् अकरोत्, तदा डॉ. दौलतसिंहं तस्य आयोगस्य अध्यक्षं न्ययुङ्क्त [२] । डॉ. दौलतसिंहः तस्मिन् पदे वर्षद्वयम् आसीनः । तस्य आयोगस्य अन्येषु सदस्येषु भगवान सहाय, एस् चक्रवर्ती, एम् एल् धर, एम् वि माथुर, जि पार्थसारथि इत्यादयः प्रमुखाः । तेन आयोगने "शिक्षायाः, राष्ट्रस्य च विकासः" (Education and National Development) इत्याख्यं वृत्तम् (report) उपस्थापितम् । स्वतन्त्रे भारते सम्भवतः सर्वाधिकमहत्त्वपूर्णेषु प्रलेखेषु अन्यतमस्य तस्य वृत्तस्य चर्चा सर्वत्र भवति । तस्य प्रलेखस्य चर्चनीयविषयेषु मुख्यौ विषयौ समानविद्यालयव्यवस्था, स्नातकोत्तरं यावत् मातृभाषया शिक्षणम् इत्येतौ आस्ताम् ।

१. भाषानीतिः – शिक्षायाः सर्वेषु चरणेषु प्रादेशिकभाषाः एव शिक्षामाध्यमं स्यात् । (प्रारम्भिकस्तरे मातृभाषायै एव सर्वाधिकं महत्त्वं दीयते ।) तस्य उद्देश्यस्य पूर्त्यै निश्चितस्य, सुनियोजितस्य, समयबद्धस्य च कार्यक्रमस्य रचना करणीया । आङ्ग्लभाषा संसारेण सह अस्माकं सञ्चारस्य मुख्यमाध्यमम् अस्ति । सा आधुनिकवैज्ञानिकयुगस्य वर्धमानं ज्ञानं प्राप्तुम् अपि मुख्यसाधनम् अस्ति । अतः अस्माभिः आङ्ग्लभाषायाः पठनपाठने प्रात्साहनं दातव्यम् । अन्यान्ताराष्ट्रियभाषाणाम् अपि बहुधा पठनं, पाठनं च भूयात् । तासु भाषासु मुख्यतया रूसी, स्पेनिश्, फ्रेन्च्, जर्मनी इत्यादयः भाषाः अन्तर्भवन्ति । राष्ट्रियस्तरे सम्पर्कभाषात्वेन हिन्दीभाषा प्रोत्साहनीया । तथा च येषु क्षेत्रेषु हिन्दीभाषा सम्भाषणभाषा नास्ति, तेषु क्षेत्रेषु हिन्दीभाषायाः अध्ययनाध्यापनं प्रोत्साहनीयम् । भारतस्य सर्वाः राष्ट्रियभाषाः सम्पर्कजालिकायाः निर्माणे सहायभूताः भवितुम् अर्हन्ति । अतः सर्वेषु क्षेत्रेषु हिन्दीभाषायाः अध्यापनक्षेत्राणि भवेयुः । शालासु, माध्यमिकविद्यालयेषु च त्रिभाषीयव्यवस्था स्यात् । द्वितीयायाः भाषायाः पाठनं षड्वर्षाणि यावत्, तृतीयायाः भाषायाः अध्यापनं (न्यूनाति न्यूनं) वर्षत्रयं स्यात् । उच्चतरमाध्यमिकचरणे भाषाणाम् अध्यापनं स्यात् । तथा च यावत् पर्यन्तं कयाचित् भाषया सह विद्यार्थिनाम् अन्तरङ्गसम्बन्धः स्थापितः न स्यात्, तावत् पर्यन्तं विश्वविद्यालयचरणे न कस्यापि भाषायाः अध्यापनम् अनिवार्यं स्यात् ।

२. सामान्यशालाप्रणाली – साम्प्रते काले सम्पन्नवर्गे, निर्धनवर्गे च सामाजिकी, आर्थिकी च विषमता दरीदृश्यते । देशे एकत्र उच्चकोट्याः शिक्षणसंस्थाः सन्ति, यत्र आर्थिक-सामाजिकदृष्ट्या सम्पन्नवर्गः गच्छति । अपरत्र सर्वकारेण चाल्यामानाः संस्थाः सन्ति, यत्र सामान्यतः निर्धनवर्गः गच्छति । समाजे व्याप्तः एतादृशः पृथक्करणभावः अतितराम् आपत्तिजनकः वर्तते । अतः राष्ट्रियशालाप्रणाल्याः आवश्यकता अस्ति । तया प्रणाल्या समाजे व्याप्तस्य पृथक्करणस्य भावः नंक्ष्यति । तेन नाशेन विद्यार्थिनः एकस्यां शालायाम् एव शिक्षां प्राप्तुं प्रभविष्यन्ति । प्राथमिकशालायै विशेषतया "प्रतिवेशिशालायाम् अध्ययनम्" इति प्रतिमानं (Model) स्यात् । तेन प्रतिमानेन सर्वेषां वर्गाणां, जातीनां, धर्माणां च बालकाः एकस्यां शालायाम् एव पठिष्यन्ति ।

कोठारीशिक्षायोगस्य (१९६४-६६) अनुशंसानां महत्त्वम् अत्यधिकम् आसीत् । अत एव यूनेस्को-संस्था यदा अन्ताराष्ट्रियशिक्षायोगस्य रचनाम् अकरोत्, तदा सः आयोगः कोठारीशिक्षायोगस्य अनुशंसायाः आधारं स्व्यकरोत् । सः अन्ताराष्ट्रियायोगः शिक्षणविकासाय दशकं यावत् संशोधनम् अकरोत् ।

राष्ट्रियशिक्षायोगस्य वृत्ते डॉ. दौलतसिंहस्य अन्येऽपि विचाराः प्रत्यक्षाः भवन्ति । तत्र किञ्चन प्रसिद्धम् उद्धरणम् अस्ति यत्,

भारतस्य भाग्यं तस्याः (शिक्षिकायाः) वर्गे आकारं गृह्णाति । एषः न केवलम् आलङ्कारिकशब्दोपयोगः, अपि तु अस्माकं विश्वासः अस्ति । विज्ञान-प्रौद्योगिक-आपन्ने विश्वस्मिन् जनानां समृद्धिः, कल्याणं, सुरक्षा इत्येतेषाम् आधारेण शिक्षणस्तरः निर्धार्यते । राष्ट्रियपुनर्निर्माणस्य कृते उत्तमोद्यमः मुख्यः । तस्य प्रधानलक्ष्यं जनानां जीवनस्तरे औन्नत्यस्य अस्ति । विद्यालयात्, महाविद्यालयात् च गुणवत्तायुक्ताः, अधिकाधिकाः च जनाः निर्गच्छेयुः इति तस्य जीवनस्तरस्य आधारः अस्ति" इति [३]

यतो हि डॉ. दौलतसिंहः शिक्षणक्षेत्रे कृतपरिश्रमः आसीत्, अतः तेन अनेके नूतनाः मार्गाः अन्विष्टाः । तेषु राष्ट्रियशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदः (National Council of Educational Research and Training (NCERT)) नाम मुख्यं मन्यते । यदा राष्ट्रियशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदः आरम्भः अभवत्, तदा डॉ. दौलतसिंहः न केवलं तस्याः परिषदः मूलसिद्धान्तानां निर्माणे योगदानम् अयच्छत्, अपि तु तस्याः परिषदः भविष्यत्कालस्य योजनानां मानचित्रस्यापि परिकल्पानाम् अकरोत् । राष्ट्रियशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदः भविष्यत्कालीनयोजनायाः परिकल्पना तेन शिक्षणायोगस्य १९६४-६६ वृत्ते उल्लिखिता अस्ति ।

केन्द्रियसेवापरीक्षाविभागः[सम्पादयतु]

१९७४ तमे वर्षे भारतसर्वकारः केन्द्रीयसेवापरीक्षाविभागस्य परीक्षापद्धतेः पुनर्निरीक्षणाय दलम् अरचयत् । तस्य दलस्य अध्यक्षत्वेन भारतसर्वकारः डॉ. दौलतसिंहस्य चयनम् अकरोत् । भारतसर्वकारस्य केन्द्रीयसेवापरीक्षा-विभागस्य कृते परीक्षाप्रक्रियायाः, चयनप्रक्रियायाः च नीत्युपस्थापने डॉ. दौलतसिंहस्य भूमिका महत्त्वपूर्णा असिध्यत् । १९७६ तमे वर्षे तेन दलेन स्वस्य प्रेलखः सर्वकाराय प्रदत्तः । तस्य प्रलेखस्य परिणामतः १९७९ तमे वर्षे भारतसर्वकारः आई.ए.एस्., आई.पी.एस्., अन्यविंशत्यै पदेभ्यश्च सामान्यपरीक्षायाः प्रारम्भम् अकरोत् ।

तस्मिन् प्रलेखे द्वयोः विषययोः अनुशंसा अतिमहत्त्वपूर्णा, क्रान्तिकारिणी च असिद्धयत् । प्रथमं तु स्वभाषासु (भारतीयसंविधानस्य अष्टमे अनुच्छेदे उक्ताः सर्वाः भारतीयभाषाः), आङ्ग्लभाषायां च उत्तरं दातुं स्वतन्त्रता । द्वितीयं वयस्सीमया सह समग्रे देशे परीक्षाकेन्द्राणि अपि वर्धेरन् । केन्द्राणां वर्धनेन सुदूरेषु ग्रामेषु स्थिताः विद्यार्थिनः अपि एतादृशीं परीक्षां दातुं शक्नुयुः इति ।

डॉ. दौलतसिंहस्य दृढविश्वासः आसीत् यत्, "राष्ट्रस्य विकासेन, समृद्ध्या च सह शिक्षणस्य साक्षात् सम्बन्धः अस्ति । तत्रापि वैज्ञानिकं, प्रौद्योगिकं च शिक्षणं मुख्यतया अनुबन्धितम् अस्ति" इति । अतः सः देशे युवसु स्थितायाः प्रतिभायाः अन्वेषणाय राष्ट्रियशैक्षणिकानुसन्धान-प्रशिक्षण-परिषदा 'द नेशनल् सायन्स् टेलेन्ट्', 'नेशनल् टेलेन्ट् सर्च्' इत्येतयोः कार्यक्रमयोः आरम्भं कृतवान् । तयोः कार्यक्रमयोः मूलभूतविचारः डॉ. दौलतसिंहस्य आसीत् [४]

प्राथमिकस्तरात् विश्वविद्यालयस्तरं यावत् शिक्षायाम् एकरूपता, सामञ्जस्यं च कथं शक्येत ? इत्यस्मिन् विषये शिक्षायोगे सक्रियः डॉ. दौलतसिंहः अनेकान् विधीन् उपास्थापयत् । तेभ्यः विधिभ्यः अध्यापकाः, छात्राः च लाभान्विताः अभूवन् । विद्यार्थिषु अनुभवं वर्धयितुं डॉ. दौलतसिंहः कार्यानुवभवयोजनायाः (Work-Experience) आरम्भम् अकरोत् । शिक्षायोगस्य अनेके सिद्धान्ताः भारतीयराष्ट्रियशिक्षानीतेः आधाराः आसन् । काठारी-आयोगस्य अनेके प्रस्तावाः शनैः शनैः राष्ट्रियशिक्षायोगे कार्यान्विताः अभूवन् ।

संशोधनक्षेत्रे[सम्पादयतु]

डॉ. दौलतसिंहस्य रुचिकरः विषयः खगोलशास्त्रम् आसीत् । डॉ. दौलतसिंहः 'आयनीकरण-भारः' इत्यस्य सिद्धान्तम् अन्विष्टवान् । तस्य सिद्धान्तस्य प्रयोगः तेन 'ह्वाइट् ड्वार्फ्' इत्याख्यस्य तारकस्य रचनापद्धतिं ज्ञातुं कृतः । अखिलस्य विश्वस्य वैज्ञानिकैः डॉ. दौलतसिंहस्य सिद्धान्तः महत्त्वूपूर्णः परिलक्षितः । तस्मिन् सिद्धान्ते डॉ. दौलतसिंहः उपास्थापयत् यत्, "औष्ण्यं विना केवलं भारः अपि परमाणूनां खण्डने क्षमः अस्ति । शीतद्रव्येऽपि परमाणोः भञ्जकभारः शतलक्ष-पाउण्ड-प्रतिवर्गात्मकः भवति । सा शक्तिः पृथिव्याः भूगर्भे स्थितस्य धातुः, पर्वतः इत्यादीनां चतुस्सहस्र-माईल-परिमितस्य भारात् अपि अधिकः भवति" इति ।

युद्धक्षेत्रे विज्ञानप्रयोगः[सम्पादयतु]

अद्यत्वे समग्रे विश्वस्मिन् सः देश एव युद्धकौशले शक्तिशाली, पारङ्गतश्च मन्यते, यस्य पार्श्वे आधुनिकतमवैज्ञानिकास्त्राणि भवेयुः । १९४८ तमे वर्षे भारतसर्वकारः डॉ. दौलतसिंहाय प्रतिरक्षा-विज्ञान-सङ्घटनस्य निदेशकपदम् अयच्छत् । तस्मिन् पदे सः १९६१ पर्यन्तं कार्यम् अकरोत् । तस्मिन् कार्यकाले डॉ. दौलतसिंहः भारते यत्रापि वैज्ञानिकप्रतिष्ठानानां, प्रयोगशालानां च आवश्यकता आसीत्, तत्र प्रतिष्ठानानां, प्रयोगशालानां च स्थापनाम् अकारयत् । सः विस्फोटकभारस्य तीव्रभारे धातूनां प्रयोगम् अकरोत् । प्रयोगस्य परिणामतः तस्य रुचिः धातुविद्याक्षेत्रे समुद्भूता । अतः सः 'प्रोजेक्टाइल्स्' इत्याख्यस्य विषयस्य संशोधनं प्रारब्धवान् । तस्य संशोधनस्य क्रियान्वयाय जोधपुरे प्रयोगशालायाः स्थापनाञ्चकार । तस्याः प्रयोगशालायाः लक्ष्यम् आसीत् यत्, जोधपुरस्य समीपे यः मुरुभूभागः अस्ति, सः मरुभूभागः हरितभूभागः स्यात् इति ।

डॉ. दौलतसिंहस्य मार्गदर्शने रक्षाविज्ञानसङ्घटनेनापि प्रगतिः साधिता । तेन सङ्घटनेन शस्त्रविज्ञानम्, इलेक्ट्रॉनिक-विद्या, वातावरणशरीरक्रियाविज्ञानं, धातुकर्म, मानव-यन्त्राणां दुर्घटनाग्रस्तनिवारणं, भूस्थायित्वं, खाद्यसंरक्षणं, मरुभूमौ वृक्षोत्पादनं, विमानशास्त्रं, गैस-वायूनां टरबाईन् इत्यादीनां विषयाणां संशोधनं कृतम् ।

शान्तिप्रयासः[सम्पादयतु]

डॉ. दौलतसिंहः न केवलं खगोलशास्त्री, भौतिकशास्त्री च आसीत्, अपि तु सः आधुनिकप्रौद्योगिक्याः विकासाय भारतीयसङ्घटनेषु सक्रियः वैज्ञानिकः आसीत् । प्रतिरक्षायाः क्षेत्रेषु सक्रियः सः सर्वदा शान्तिपूर्णरीत्या देशविकासस्य प्रबलः पक्षधरः आसीत् । यतो हि सः जानाति स्म यत्, परमाणुशस्त्रस्य उपयोगेन विश्वस्मिन् कीदृशाः प्रभावाः भवितुम् अर्हन्ति, अतः सः सर्वदा परमाणुशस्त्राणां निर्माणस्य, विस्फोटस्य च विरोधी आसीत् । परमाणुशस्त्राणां विरोधाय डॉ. होमी भाभा-महोदयेन सह मिलित्वा तेन एकं पुस्तकम् अपि लिखितम् । तस्य पुस्तकस्य नाम 'परमाणु विस्फोट और उनके प्रभाव' इति अस्ति । तत्पुस्तकं जर्मन-भाषायां, जापानी-भाषायां चापि उपलभ्यते ।

हिन्दीप्रेम[सम्पादयतु]

डॉ. दौलतसिंहः देशस्य युवभ्यः यानि कार्याणि अकरोत्, तेषु विज्ञानसम्बद्धानाम् आङ्ग्लशब्दानां हिन्दीपारिभाषिकशब्देषु अनुवादः अपि अन्तर्भवति । शिक्षामन्त्रालयस्य हिन्द्यायोगान्तर्गतस्य वैज्ञानिक-तकनीकि-शब्दानुसन्धानायोगस्यापि सः अध्यक्षपदं व्यभूषयत् । १९८१ तमे वर्षे अध्यक्षत्वेन आरूढः डॉ. दौलतसिंहः तस्मिन् पदे १९९१ तमं वर्षं यावत् आसीत् । विज्ञानसम्बद्धं साहित्यं हिन्द्याम् अपि उपलभ्येत इति डॉ. दौलतसिंहस्य महती इच्छा आसीत् । यतो हि तस्य मतम् आसीत् यत्, हिन्द्या लिखितं साहित्यमेव जनसामान्यं विज्ञानं प्रति प्रोत्साहिष्यति इति । सः हिन्द्या एव नवीनस्य वैज्ञानिकसाहित्यस्य निर्माणं भवेत् इति चिन्तयति स्म ।

केषाञ्चन विदुषां मतम् अस्ति यत्, गान्धी, लोहिया इत्येतयोः अनन्तरं भारतीयभाषाणाम् उन्नत्यै कार्यकर्तृषु डॉ. दौलतसिंहः प्रथमः आसीत् । यदि केन्द्रीयसेवानां परीक्षायां भारतीयभाषायाम् उत्तरं दातुम् अवकाशः नाभविष्यत्, तर्हि ग्रामेषु स्थिताः विद्यार्थिनः कदापि एतादृशीं परीक्षां दातुं न प्राभविष्यन् ।

मृत्युः[सम्पादयतु]

१९९३ तमस्य वर्षस्य फरवरी-मासस्य चतुर्थे (४/२/१९९३) दिनाङ्के राजस्थानराज्यस्य जयपुरे हृदयाघातेन डॉ. दौलतसिहस्य मृत्युः अभवत् । पूर्वरात्रौ यदा सः सुप्तवान्, तदा सः श्रीमद्भगवद्गीतायाः, भक्तामरस्तोत्रस्य च पठनं कृत्वा अस्वपत् । रात्रौ निद्रायामेव हृदयाघाते सति सः देहम् अत्यजत् ।

डॉ. दौलतसिंहः स्वजीवनस्य अन्तिमदिनेषु ललिताख्येन स्वपुत्रेण सह निवसति स्म । सः ललितः कुत्रचित् स्वलेखे अलिखत्, "एकदा शरीरपरीक्षणाय अहं पितरं न्यवेदयम् । तस्मिन् समये पिता रुग्णः न आसीत् । अपि तु अहं केवलं पूर्वजागर्यायै तथा कर्तुम् इच्छामि स्म । परन्तु मम निवदेनस्य प्रत्युत्तरं यच्छन् पिता अवदत् यत्, इतः परं मम कृते किमपि कार्यं शेषं नास्ति इति त्वया अवगन्तव्यम्" इति ।

व्यक्तित्वम्[सम्पादयतु]

उच्चपदेषु कार्यरतः डॉ. दौलतसिंहः सर्वदा सरलम्, आदर्शपूर्णं च जीवनम् अयापयत् । अभिमानशून्यः सः यदा देहली-विश्वविद्यालयात् निवृत्तः अभवत्, तदा लघौ स्यूते स्ववस्त्राणि संस्थाप्य राजस्थानम् अगच्छत् । डॉ. दौलतसिंहस्य पौत्री दीपिका अलखित् यत्, यदा मम पितामहः देहली-विश्वविद्यालयात् निवृत्तः अभवत्, तदा पितामहः, पितामही च सर्वाणि वस्तूनि कस्मिँश्चित् लघौ स्यूते पर्यावर्तयेताम् (wind up) । ततः परम् अहं तौ सर्वदा तावतेन सामग्रीसमम्भारेण सहैव अपश्यम् इति । डॉ. दौलतसिंहस्य व्यक्तित्वे बहु सामर्थ्यम् आसीत् । वर्तमानशिक्षाव्यवस्थायां विज्ञाननीति-भारतीयभाषा-आङ्ग्लभाषासु च विद्यमानायाः जटिलसमस्यायाः समाधानं सर्वकारः तस्य कृतिषु पश्यन् भवति ।

प्रशस्तयः [५][सम्पादयतु]

कार्यम्[सम्पादयतु]

  • व्याख्याता, इलाहाबाद-विश्वविद्यालयः, १९३३
  • विज्ञानविभागाध्यक्षः, देहली-विश्वविद्यालयः, १९३४-१९४८
  • विज्ञानपरामर्शकः, रक्षामन्त्रालयः, १९४८-१९५१
  • अध्यक्षः, विश्वविद्यालयानुदानायोगः, १९६१-१९७३
  • महाध्यक्षः, इण्डियन् साईन्स् कॉङ्ग्रेस्, १९६२, नवदेहली
  • अध्यक्षः, भारतीयराष्ट्रियवैज्ञानिक-अकादमी, १९७३-१९७४
  • कुलपतिः, जवहारलालनेहरू-विश्वविद्यालयः, १९८२-१९९२

पुस्तकानि[सम्पादयतु]

  • Atom and Self: Collection of Lectures Delivered - डॉ. दौलतसिंह कोठारी, सम्पादनं – फिरोझ् एहमद्. प्रकाशकः – न्यू एज् इन्टर्नेशनल् पब्लिकेशन्, नवदेहली, २००२
  • Knowledge and Wisdom: Collection of Lectures Delivered - डॉ. दौलतसिंह कोठारी, सम्पादनं – फिरोझ् एहमद्. प्रकाशकः – न्यू एज् इन्टर्नेशनल् पब्लिकेशन्, नवदेहली, २००२
  • Education and Character Building: Convocation Addresses Delivered - डॉ. दौलतसिंह कोठारी National Institute of Science Communication (now renamed as National Institute of Science Communication and Information Resources). New Delhi, 2000.
  • न्यूमरस पेपर्स् ऑन् स्टैटिस्टिकल् थर्मोडायनेमिक्स्
  • थ्योरी ऑफ् ह्वाइट् ड्वार्थ् स्टार्स्
  • न्यूक्लियर् एक्स्प्लोसिव्स् एण्ड् देयर् इफेक्ट्स् (जर्मनी-भाषायां, जापानी-भाषायाम् अपि उपलब्धम्)

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. http://archive.is/aKXW
  2. http://mohitpuri.pbworks.com/w/page/11465802/Indian%20Education%20Commission%201964-66
  3. The destiny of India is now being shaped in her classrooms. This, we believe, is no mere rhetoric. In a world based on science and technology, it is education that determines the level of prosperity, welfare and security of the people. On the quality and number of persons coming out of our schools and colleges will depend our success in the great enterprise of national reconstruction, the principal objective of which is to raise the standard of living of our people. – Dr. Kothari, http://www.teindia.nic.in/files/reports/ccr/KC/KC_V3.pdf
  4. http://www.vigyanprasar.gov.in/scientists/DKothari.htm
  5. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दौलतसिंह_कोठारी&oldid=446946" इत्यस्माद् पुनः प्राप्तिः