नाराचः
नाराचः(मलयालम: നാരായം/नारायं) ; हिन्दी: नारायम) कस्यचित् प्राचीनस्य लेखनोपकरणस्य नाम। तदुपकरणं भारत-श्रीलंका- दक्षिणजम्बुद्वीपीय-देशेषु तथा च समीपवर्तिषु अन्यदेशेषु प्रयुज्यते स्म। अद्यत्वे यथा लेखन्याः उपयोगेन अक्षरविन्यासः क्रियते, तथैव तस्य उपयोगो भवति स्म। किन्तु रङ्गयुक्तायाः मस्याः उपयोगस्य स्थाने कस्मिंश्चित् तले (प्रायः हस्तप्रतेषु) उत्कीर्णनं कृत्वा अक्षरविन्यासः भवति स्म। सङ्क्षेपेण ज्ञातुम् इच्छामः चेत्, नाराचः लोह-निर्मतः कश्चन लम्बमानः लोहखण्डः भवति स्म, तस्य अग्रभागः तीक्ष्णः भवति स्म। यदा लेखकः अनेन लोहदण्डेन लेखनाय प्रवृत्तः स्यात्, तदा सः लेखने काठिन्यं नानुभवेत्, तथा च सः एतस्य खण्डस्य धारणं सम्यक् कर्तुं शक्नुयात् इति विचिन्त्य एतस्य निर्माणं जातम् आसीत्।
व्युत्पत्तिः
[सम्पादयतु]नारं नरसमूहम् आचामतीति। चमु अदने + "अन्येष्वपि दृश्यते।" ३। २। १०१। अवलम्बः डः।
- समुदायलौहमयबाणः।
- तत्पर्यायः।
- प्रक्ष्वेडनः।
- लोहनालः। ॥
(यथा,
बृहत्शार्ङ्गधरे ।
“सर्व्वलौहास्तु ये बाणा नाराचास्ते प्रकीर्त्तिताः ।
पञ्चभिः पृथुलैः पक्षैर्युक्ताः सिध्यन्ति कस्यचित् ॥”)
दुर्दिनम् । इति शब्दमाला ॥
(अष्टादशाक्षर-वृत्तिविशेषः । इति छन्दोमञ्जरी ॥
अस्य लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥
वैद्यकोक्तघृत-विशेषः । यथा,
भावप्रकाशे उदररोगाधिकारे ।
“स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-
सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः ।
घृतं विपक्वं कुडवप्रमाणं
तोयेन तस्याक्षसमेन कर्षम् ॥
पीतोष्णमम्भोऽनुपिबेद्विरेफे
पेयं रसं वा प्रपिबेद्बिधिज्ञः ।
नाराचमेनं जठरामयाना-
मुक्तं प्रयुक्तं प्रवदन्ति सन्तः ॥”
इति नाराचघृतम् ॥ * ॥)
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये Narayam सम्बन्धिताः सञ्चिकाः सन्ति। |