नारिकेलतैलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूप्यां सङ्गृहीतं नारिकेलतैलम्
शुष्कनारिकेलानि
यन्त्रद्वारा नारिकेलतैलस्य सज्जीकरणम्
तैलनिर्माणार्थं नारिकेलानां शुष्कीकरणम्
साम्प्रदायिकपद्धत्या नारिकेलतैलस्य निर्माणम्

नारिकेलेन निर्मितं तैलम् एव नारिकेलतैलम् । वस्तुतः शुष्कनारिकेलेभ्यः तैलं निर्मीयते । अन्यथा नारिकेलानि शुष्कीकृत्य एव तैलस्य निर्माणं क्रियते । एतत् नारिकेलम् आङ्ग्लभाषायां Coconut इति उच्यते । तस्य तैलं Coconut oil इति उच्यते । एतत् नारिकेलतैलम् अधिकतया आहारत्वेन उपयुज्यते । तवता एव प्रमाणेन औषधत्वेन सौन्दर्यवर्धकत्वेन चापि उपयुज्यते । जगतः सर्वेषु अपि प्रदेशेषु अपि अस्य नारिकेलतैलस्य उपयोगः अस्ति एव । भारते तु अस्य नारिकेलतैलस्य उपयोगः महता प्रमाणेन क्रियते ।

अस्य नारिकेलतैलस्य प्रयोजनानि[सम्पादयतु]

१. अस्मिन् नारिकेलतैले अत्यधिकप्रमाणेन रोगनिरोधकशक्तिः अस्ति ।
२. एतत् नारिकेलतैलं सर्वरोगापहारी ।
३. एतत् नारिकेलतैलं सूक्ष्मजीविनां (ब्याक्टीरिया, वैरस् सदृशाणाम्) शरीरप्रवेशम् अवरुणद्धि ।
४. सामान्यान् पीनस-ज्वरादीन् रोगान् अपि एतत् नारिकेलतैलम् अपगमयति ।
५. नारिकेलतैले एड्स् सदृशाणां रोगाणां नियन्त्रणसामार्थ्यम् अपि अस्ति ।
६. एतत् नारिकेलतैलं मातृक्षीरवत् पोषकांशयुक्तम् ।
७. एतत् नारिकेलतैलं शरीरस्य केशाणां च वर्धनार्थं सहकारी ।
८. अस्य नारिकेलतैलस्य लेपनेन चर्म जलांशं प्राप्य सजीवं भवति ।
९. नरिकेलतैलस्य लेपनेन चर्म कान्तियुक्तं भवति ।
१०. एतत् नारिकेलतैलं केशाणां निमित्तं सर्वविधं पोषकांशान् प्रयच्छति ।
११. नारिकेलतैले किञ्चित् प्रमाणेन मेथिकां योजयित्वा उष्णीकरणीयम् । यदा तत् तैलं शीतलं भवति तदा शोधयित्वा कूप्यां सङ्ग्रहणीयम् । तस्य तैलस्य लेपनेन केशविगलनं निवारितं भवति ।
१२. नारिकेलतैलस्य तेपनेन केशाः बहुशीघ्रं वर्धन्ते । केशाः कान्तियुक्ताः भवन्ति चापि ।
१३. नारिकेलतैलस्य लेपनेन तुषाः अपि निवारिताः भवन्ति । केशाः कृष्णवर्णीयाः अपि भवन्ति ।
१४. अर्धचषकपरिमिते नारिकेलतैले आमलकस्य शुष्कान् खण्डान् योजयित्वा क्वथनीयम् । यदा तत् तैलं शीतलं भवति तदा शिरसि केशाणाम् अधः तेन तैलेन मर्दनं करणीयम् ।
१५. नारिकेलतैले निम्बूकरसं योजयित्वा शिरसि लेपयित्वा अर्धघण्टानन्तरं स्नानकरणेन अपि उत्तमः फलितांशः प्राप्यते ।
१६. नारिकेलतैलस्य लेपनेन शिरोवेदना अपगच्छति । समीचीना निद्रा अपि प्राप्यते ।
१७. आरोग्यार्थम् अपि नारिकेलतैलम् अन्यस्य सर्वस्य अपि तैलस्य अपेक्षया अत्युत्तमम् ।‎
"https://sa.wikipedia.org/w/index.php?title=नारिकेलतैलम्&oldid=300075" इत्यस्माद् प्रतिप्राप्तम्