पराशरऋषिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
पराशरः
Rig veda.jpg
ऋगवेदः; यस्मिन् अनेकानि सूक्तानि पराशरऋषिणः नाम्ना सन्ति
जानकारी
परिवार शक्तिमुनिः (पिता), अद्यश्यन्ती (माता), विसिष्ठः (पितामह)
पति या पत्नी काली (मत्स्यगन्धा)
बच्चे व्यासः
धर्म वैदिकः
राष्ट्रीयता भारतीयः

पराशरः कश्चन मन्त्रद्रष्टा ऋषिः, शास्त्रवेत्ता, ब्रह्मज्ञानी, स्मृतिकारश्च। एषः महर्षिणः वसिष्ठस्य पौत्रः, गोत्रप्रवर्तकः, वैदिकसूक्तानां द्रष्टा, ग्रन्थकारोऽपि। पराशरः शर-शय्यायां स्थितेन भीष्मेण सह अपि मिलवान्। परीक्षितस्य प्रायोपवेशस्य समये उपस्थितेषु ऋषि-मुनिषु सोऽपि आसीत्। एषः षड्विंशतमस्य द्वापरस्य व्यासः आसीत्।जनमेजयस्य सर्पयज्ञे उपस्थितश्च आसीत्। 

'पराशर'-शब्दस्य अर्थः[सम्पादयतु]

'पराशर'-शब्दस्य अर्थोऽस्ति यत् - 'पराशृणाति पापानीति पराशरः' अर्थात् यस्य दर्शन-स्मरणकृते सति एव समस्तानि पापानि नाशयेत्, सः पराशरः इति।

“परासुः स यतस्तेन वशिष्ठः स्थापितो मुनिः ।

गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥” महाभारतम् १। १७९। ३
“परासोराशासनमवस्थानं येन स पराशरः । आङ्पूर्ब्बाच्छासतेर्डरन् ।” इति नीलकण्ठः ॥

बाल्यं, शिक्षा च[सम्पादयतु]

पराशरस्य पितुः नाम शक्तिमुनिः, मातुश्च नाम अद्यश्यन्ती आसीत्। शक्तिमुनिः वसिष्ठऋषेः पुत्रः आसीत्। वेदव्यासस्य पितामहः आसीत्। एवं पराशरः वसिष्ठस्य पौत्रः अभवत्।

“सुतं त्वजनयच्छक्त्रेरदृश्यन्ती पराशरम् ।
काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥” इत्यग्निपुराणम् ॥

शक्तिमुनेः विवाहः तपस्विनः वैश्यस्य चित्रमुखस्य कन्यया अदृश्यन्त्या सह अभवत्। मातुः गर्भे निवसन् पराशरेण स्वपितुः मुखात् ब्रह्माण्डपुराणं श्रुतमासीत्, कालान्तरे तेन प्रसिद्धजितेन्द्रियाय मुनये युधिष्ठिरस्य सभासदाय जातुकर्ण्याय तस्य पुराणस्य उपदेशः कृतः आसीत्। पराशरः बाष्कलस्य शिष्यः आसीत्। ऋषिः बाष्कलः ऋग्वेदस्य आचार्यः आसीत्। याज्ञवक्यः, पराशरः, बोध्यः, अग्निमाढकः च तस्य शिष्याः आसन्। बाष्कलः ऋग्वेदस्य एकस्याः शाखायाः चतुर्षु विभाजनं कृत्वा स्वशिष्यान् अपाठयत्। पराशरः याज्ञवल्क्यस्यापि शिष्यः आसीत्।

राक्षस-सत्रम्[सम्पादयतु]

इक्ष्वाकुवंशि-अयोध्यायाः राजा ऋतुपर्णस्य पौत्रः सुदासः आसीत्। तस्य पुत्रः वीरसहः (मित्रसहः) अभवत्, यः सुदास-पुत्रात्वात् सौदासः इत्यपि ख्यातः। महर्षिणः वसिष्ठस्य शापवशात् सः नरभोजिराक्षसः कल्माषपादः अभवत्। राक्षसरूपेण कल्माषपादः शक्तिमुनिना सह वसिष्ठस्य शतं पुत्रान् अखादत्। तेन दुःखार्तः वसिष्ठः अपि आत्महत्यां कर्तुम् अनेकान् प्रयासान् अकरोत्, परन्तु सफलः नाभवत्।अतः शक्तिमुने पत्नीं अदृश्यन्तीं नीत्वा सः हिमालयं प्राप्तवान्। एकवारं वसिष्ठः वेदाध्ययनस्य ध्वनिं श्रुत्वा चकितः, किञ्च वेद-पाठस्य कर्ता अदृश्यः आसीत्। तदा अदृश्यन्ती अवदत् यत्, शक्तिमुनेः पुत्रः मे गर्भे अस्ति, तस्यैव एषः वेदाध्ययनध्वनिः इति। एतच्छ्रुत्वा वसिष्ठः अत्यधिकः प्रसन्नः अभवत्। तस्य मनसः मृत्युः विचारः अपि विलुप्तः। जन्मोपरान्तं पराशरः अजानत् यत्, राक्षसकल्माषपादः तस्य पितरं शक्तिमुनिं अखादत् इति। एतत् ज्ञात्वैव तस्य मनसि राक्षसानां प्रति घोरविरोधः समुत्पन्नः। ततश्च तेन संसारात् राक्षसाणां उन्मूलनस्य निश्चयः कृतः। अतः तेन राक्षस-सत्रस्य आरम्भः कृतः, येन राक्षसानाम् अकालमृत्युः आरब्धः। अनेके राक्षसाः मृत्युङ्गताः। अतः निऋतेः आज्ञया महर्षिः पुलत्स्यः पराशरस्य समीपम् गत्वा राक्षसवंशस्य रक्षायै राक्षस-सत्रं पूर्णं कर्तुं न्यवेदयत्। सः अहिंसायाः उपदेशं दत्तवान्। व्यासः अपि पराशरम् अबोधयत् यत्, कस्यचित् एकस्य दोषत्वात् समस्तराक्षसानां संहारः अनुचितः, अतः स्वयज्ञं पूर्णं करोतु। किञ्च साधूनां भूषणं क्षमा एव -

अलं निशाचरर्दर्ग्धर्दी नैश्यकारिभिः।

सत्रं ये विरमत्ये तत्क्षमाजरा हि साधनः।। [१]

पुलस्त्य-व्यासयोः सदुपदेशेन प्रभावितः पराशरः स्वस्य राक्षस-सत्रस्य पूर्णाहूतिम् अघोषयत्। सः अग्निं हिमालयस्य समतले प्रदेशे अस्थापयत्। पुलस्त्यः राक्षस-सत्रस्य पूर्णतायाः उपलक्ष्ये पराशराय अनेकप्रकारकान् आशीर्वादान् अयच्छत्। सः अवदत् यत्, क्रोधस्योपरि विजयं प्राप्य त्वया मम वंशस्य मूलोच्छेदः न कृतः। अतः त्वं विशेषवरस्य अधिकारी असि। त्वं पुराणसंहितायाः रचयिता भविष्यति।[२] [३] देवताः, परमार्थतत्त्वं च यथावत् ज्ञातुं सक्ष्यति। मम आशीर्वादेन निवृत्त-प्रवृत्तिमूलके धर्मे तव बुद्धिः निर्मला, असन्दिग्धा च भविष्यति-

सन्ततेर्न ममोच्छेदः क्रुद्धेनापि यतः कृतः।

त्वयः तस्मान्महाभाग ददम्यन्यं महावरम्।।

पुराणसंहिताकर्ता भवान्वत्स भविष्यति।

देवता पारमार्थ्य च यथाद्वेत्यते भवान्।।

प्रवृत्ते च निवृत्ते च कर्मण्यस्तमला मितः।

मत्प्रसादादसन्दिग्धा यव वत्स भविष्यति।। [४]

विवाहः, सन्ततिश्च[सम्पादयतु]

नर्मदायाः उत्तरीयतटे पराशरः पुत्र-प्राप्त्यै कठोरं तपः अकरोत्। तेन प्रसन्ना पार्वती  प्रत्यक्षं दर्शनं दत्त्वा इच्छापूर्तेः आशीर्वादम् अयच्छत्।

चेदिराज-नामकः उपरिचरवसुः एकदा मृगयायै निर्गतः आसीत्। तस्मिन् समये सुगन्धितपवनं, सुन्दरवातावरणम् इत्यादिना प्रभावितः राजा स्वपत्नीम् अस्मरत्। कामवेगस्य आधिक्यत्वात् तस्य वीर्य-स्खलनम् अभवत्। तं वीर्यं स्वस्य पत्नीं प्रति प्रेषयितुं राजा श्येनपक्षणे प्रार्थनाम् अकरोत्। श्येनः यदा तं वीर्यं नयन् आसीत्, तदा तं मांसपिण्डं मत्वा मार्गे कश्चन अपरः श्येनपक्षी अपाकर्षयत्। तयोः कहलेन सः वीर्यः कालिन्द्याः जले अपतत्। तस्यां नद्यां ब्रह्मणः शापवशेन मत्स्यरूपेण अद्रिकानामिकाः अप्सरसः निवसन्ति स्म। सा तस्य वीर्यस्य निगिलनम् अकरोत्। फलतः तस्याः मत्स्यरूपिणां अप्सरसां गर्भात् पुत्री, पुत्रश्च समुद्भूतौ। पुत्रस्य नाम मत्स्यः, यः विराटराजा अभवत्। पुत्र्याः नाम काली, सा च केनचित् धीवरेण पालिता। काली उत मत्स्यगन्धा यदा किञ्चित् ज्येष्ठा अभवत्, तदा सा स्वस्य पितुः नौचालने साहाय्यं करोति स्म। एकदा प्रातःकाले पराशरः यमुनां उल्लङ्घयितुं सम्प्राप्तः। धीवरकन्या काली नौ अचालयत्।तां दृष्ट्वा पराशरः मुग्धः अभवत्, सः कामपूर्त्यै प्रार्थनाम् अकरोत्। अन्यः कोऽपि द्रष्टुं न शक्नुयात् इत्युद्देशत्वात् मुनिः धूम्रस्य सर्जनं कृत्वा सम्भोगम् अकरोत्, तस्य फलस्वरूपं पराशर-पुत्रस्य व्यासस्य जन्म अभवत्।[५]

पराशरस्य अनुग्रहेण आशीर्वादेन च काल्याः कौमारः स्थिरः अभवत्। पराशरस्य आश्लेषेण काली सुवासयुक्ता सत्यवती अभवत्। सत्यवती योजनगन्धा-रूपिणं वरदानं प्राप्तवती। एषा सत्यवती एव कालान्तरे शन्तनोः पत्नी अभवत्, यस्य गर्भात् चित्राङ्गदः, विचित्रवीर्यः च समुद्भूतौ। विचित्रवीर्यस्य विवाहः काशीराजस्य पुत्र्या अंबिकया, अम्बालिकया सह अभवत् परन्तु सः निःसन्तानः मृतः। तदा सत्यवत्याः आग्रेहण अम्बिकया, अम्बालिकया च सह व्यासस्य नियोगः अभवत्। नियोगफलस्वरूपं पाण्डु-धृतराष्ट्रयोः जन्म अभवत्। पराशर-पुत्रः व्यासः वेदानां विभाजनं कृतवान् अतः वेदव्यासत्वेन प्रसिद्धः। महाभारतस्य, पुराणानां च रचयिता सः व्यासः मन्यते।

पराशरस्य उलूकादयः अपि पुत्राः आसन्। उलूकस्य भगिन्याः उलूक्याः पुत्रः वैशेषिकशाखायाः प्रवक्ता कणादः अभवत् इति भविष्यपुराणे उल्लेखः सम्प्राप्यते।

कथाः[सम्पादयतु]

मनोजवस्य कथा[सम्पादयतु]

एकवारं चन्द्रवंशी राजा मनोजवः शत्रूभिः आक्रान्तः। शत्रवः तस्य देशस्योपरि आक्रमणं कृत्वा सपरिवारं तं पलायितवन्तः। तदा सः सेतुबन्धस्य समीपे स्थिते कस्मिँश्चित् वने शरणागतः। बुभुक्षया, पिपासया च पुत्रं, पत्नीं पीडितौ दृष्ट्वा राजा मूच्छितः अभवत्। तस्मिन्नेव समये तेन मार्गेण गच्छन् पराशरः तत्र प्राप्तवान्। पत्युः मूच्छायां विलपन्तीं राज्ञीं सुमित्रां दृष्ट्वा सः तां आश्वस्ताम् अकरोत्। ततः सः राजानं अस्पृशत्। मुनिस्पर्शेण राजा मूर्छामुक्तः अभवत्। सः मुनये प्रणामम् अकरोत्। पराशरः शत्रुषु विजयं प्राप्तुं तस्य साहाय्यम् अकरोत्। सः उक्तवान् यत्, हे राजन्! भवान् सेतुबन्धस्य मङ्गलतीर्थे स्नानं कृत्वा आगच्छतु। मुनिः तस्मै श्रीरामस्य एकाक्षरमन्त्रस्य उपदेशम् अकरोत्। तस्य विधिवज्जपं कृत्वा राजा उपरामः। ततः तस्य सम्मुखं युद्धाय आवश्यकानि संसाधनानि यथा धनुष्काण्डः, रथः, सारथी इत्यादि सर्वं स्वयं प्रकटितम् अभवत्। मुनिपराशरः पवित्रजलेन राज्ञः अभिषेकम् अकरोत् । तथा च दिव्यास्त्राणां प्रयोग-विधिम् अपि अपाठयत्। राजा पुनः शत्रुषु विजयं प्राप्य स्वराज्यं प्राप्तवान् ।

जनकेन सह संवादः[सम्पादयतु]

पराशर ने महाराज जनक से मिलकर अध्यात्म के संबंध में चर्चा की। एक बार राजा जनक ने कल्याणप्राप्ति का उपाय जानना चाहा, तो पराशर ने सदाचार एवं धर्मनिष्ठा का उपदेश दिया।

धर्म एव कृतः श्रेयानिहलोके परत्र च।

तस्माद्धि परमं नास्ति यथा प्राहुर्मनीषिणः।। [६]

अर्थात् मनीषिणां कथनम् अस्ति यत्, धर्मस्य विधिपूर्वकानुष्ठानेन इहलोकः, परलोकश्च मङ्गलकारी भवति। तस्माद् अधिकं किमपि श्रेयस्करं साधनं नास्ति। सत्संगाय अपि पराशरः महत्त्वम् अयच्छत्।

गोत्रप्रवर्तकः[सम्पादयतु]

परशरात् प्रवृत्ते पराशरगोत्रे गौरः, नीलः, कृष्णः, श्वेतः, श्यामः, धूम्रः इति षड् भेदा सन्ति। गौरपराशरादीनाम् अपि अनेक उपभेदाः सन्ति। तेषां पराशरः, वसिष्ठः, शक्तिः इति प्रवरत्रयम् अस्ति (मत्स्य., 201)।

रचनाः[सम्पादयतु]

ऋग्वेदे पराशरस्य अनेके ऋचाः (1, 65-73-9, 97) सन्ति। विष्णुपुराणम्, पराशरस्मृतिः, विदेहराजजनकाय उपदिष्टा गीता (पराशरगीता) या महाभारतस्य शान्तिपर्वणः भागः अस्ति, बृहत्पराशरसंहिता इत्यादयः पराशरस्य रचनाः सन्ति। भीष्माचार्यः धर्मराजं प्रति पराशरोक्तगीतायाः उपदेशं कृतवान् (महाभारत, शान्तिपर्व, 291-297)। एतस्य नाम्ना सम्बद्धाः केचन ग्रन्थाः प्राप्यन्ते :

1. बृहत्पराशरहोराशास्त्रम्,

2. लघुपाराशरी (ज्यौतिषम्),

3. बृहत्पाराशरीयधर्मसंहिता,

4. पराशरीयधर्मसंहिता (स्मृतिः),

5. पराशरसंहिता (वैद्यकम्),

6. पराशरीयपुराणम्‌ (माधवाचार्यः उल्लेखं कृतवान्),

7. पराशरौदितं नीतिशास्त्रम्‌ (चाणक्यः  उल्लेखं कृतवान्),

8. पराशरोदितं, वास्तुशास्त्रम्‌ (विश्वकर्मा उल्लेखं कृतवान्)।

पराशरस्मृतिः[सम्पादयतु]

पराशरस्मृतिः काचित् धर्मसंहिता, यस्यां युगानुरूपधर्मनिष्ठासु बलपूर्वकम् उपदेशः अस्ति।। कथा अस्ति यत्, एकदा ऋषयः कलियुगयोग्यं धर्मं ज्ञातुं व्यासस्य समीपं गत्वा प्रार्थनां अकुर्वन्। व्यासः स्वपितुः पराशरस्य समीपं बदरिकाश्रमं प्रति सर्वान् अनयत्। पराशरः बोधयत् यत्, कलियुगे जनानां शारीरिकशक्तिः न्यूना भविष्यति, अतः तपस्या, ज्ञान-संपादनं, यज्ञः इत्यादि सहजं साध्यं न भविष्यति। एवं कलिकाले दानरूपस्य धर्मस्य महत्ता भविष्यति।

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते।

द्वापरे यज्ञमित्यूचुर्दानमेकं कलौयुगे।। [७]

कलियुगे पराशरप्रोक्तस्य धर्मस्य विशेषमान्यता अस्ति। उक्तञ्च -

कृतेतु मानवो धर्मस्त्रेतायां गौतमः स्मृतः।

द्वापरे शङ्खलिखितः कलौ पराशरः स्मृतः।। (पराशर स्मृति 1.14)

अर्थात् सत्ययुगे मनुद्वारा प्रोक्तः धर्मः मुख्यः आसीत्, त्रेतायुगे गौतमस्य महत्ता आसीत्। द्वापरे शङ्ख-लिखितमुनिद्वारा उक्तः धर्मः प्रतिष्ठः आसीत्। परन्तु कलिकाले पराशरेण निर्दिष्टधर्मस्य प्रतिष्ठा अस्ति। पराशरमुनिः अहिंसायै परमाधिकं महत्त्वं यच्छति। पराशरस्मृतौ गोमाता न केवलं अवध्या, अपि तु पूजनीया अपि उल्लिखिता। तथैव वानप्रस्थस्य, संन्यासश्रमस्य च विशदवर्णनं पराशरस्मृतिग्रन्थे प्राप्यते। ग्रन्थस्य अन्ते योगविद्यायां बलं प्रदत्तम्। पराशरः आयुर्वेदे, ज्योतिषशास्त्रे अपि रचनाः प्रस्तुतवान्।

शास्त्रेषु उल्लेखः[सम्पादयतु]

  1. "सुतं त्यजनयच्छक्लेरदृश्यन्ती पराशरम्। काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम्॥" (अग्निपुराणम्)
  2. अयं हि द्वादशाध्यायात्मिकां धर्मसंहितां कृतवान्।
  3. सा च कलिकर्तव्यधर्मविषया। यदुक्तं तत्रैव।
  4. "कृते तु मानवो धर्मस्त्त्रेतायां गौतमः स्मृतः।
  5. द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः॥"
  6. अयं खलु मातुस्यगन्धायां सत्यवत्यां वेदव्यासमुत्पादितवान्। एवं द्वयोः स्थानयोः उक्तम् अस्ति। प्रथमवारं देवीभागवते  द्वीतयवारं स्कन्धपुराणस्य २ अध्याये।
  7. परान् आशृणाति हिनस्तीति। शृ गि हिंसे+अच्।" नागभेदः। यथा। महाभारते १। ५७। १८।
  8. "वराहको वीरणकः सुचित्रश्चित्रवेगिकः। पराशरस्तरुणको मणिस्कन्धस्तथारुणिः॥"

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. विष्णुपुराणम्, 1.1.20
  2. Rgveda 1.73.2 Translation by H.H.Wilson
  3. Wilson, H. H. The Vishnu Purana: A System of Hindu Mythology and Tradition.
  4. विष्णुपुराणम्, 1.1.25-27
  5. तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि।।
    तस्या योजनगन्धेति ततो नामापरं स्मृतम्।
    इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम्।।
    पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा।
    जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान्।।
    स मातरमनुज्ञाप्य तपस्येव मनो दधे।
    स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत्।।
    एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात्।
    न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः।।
    पादापसारिणं धर्मं स तु विद्वान्युगे युगे।
    आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच।। महाभारत 1,64,124-129
  6. (महाभारत, शांतिपर्व 290.6) 
  7. (पराशर स्मृति 1.23)
"https://sa.wikipedia.org/w/index.php?title=पराशरऋषिः&oldid=427361" इत्यस्माद् पुनः प्राप्तिः