पाकिस्थाने हिन्दूधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
पाकिस्ताने हिन्दूधर्मः
सामग्रिकजनसंख्या
2.5–4.5 million (2005)[१]
1.6–1.85% of the Pakistani population[२]
प्रदेशानुगुणं जनसंख्या
मुख्यरूपेण सिन्ध, बलूचिस्तान, पंजाब, खैबर पख्तूनख्वा इत्यादिषु प्रान्तेषु अल्पसंख्यकैः सह
भाषा(ः)
मुख्यरूपेण अल्पसङ्ख्यकैः सह सिन्धीभाषा पंजाबी, आङ्ग्लभाषा

पाकिस्थाने हिन्दूधर्मस्य पालनम् आहत्य जनसङ्ख्यायाः अनुमानेन २% जनाः कुर्वन्ति। पाकिस्थानसर्वकारः पूर्वतनायाः जनगणनायाः समये पाकिस्थानदेशीयान् हिन्दून् जातिः (1.6%), अनुसूचितजातिः (0.25%) इत्येतयोः विभागयोः व्यभाजयत्। [३][४]

१४ अगस्त १९४७ तमे दिनाङ्के पाकिस्थान-देशः ब्रिटेन-देशात् स्वतन्त्रः अभवत्। ततः ४.४ कोटिभिः हिन्दूभिः, सिखजनैः च अद्यतनं भारतं प्रति स्थानान्तरणं कृतम्, प्रत्युत भारतात् 4.1 कोटिभिः मुसलमान-जनैः पाकिस्थानं प्रति स्थानान्तरणं कृतम्।[५]

१९५१ तमस्य वर्षस्य जनगणनानुसारं पश्चिम-पाकिस्थाने १.६%, पूर्व-पाकिस्थाने (आधुनिके बाङ्ग्लादेशे) २२.०५% च हिन्दूजनसङ्ख्या आसीत्। सप्तचत्वारिंशद्वर्षेभ्यः अनन्तरं १९९७ तमे वर्षे पाकिस्थानस्य हिन्दूजनसङ्ख्यायां वृद्धिः नाभवत्, अतः १.६% हिन्दवः आसन्। बाङ्गलादेशे हिन्दू-जनसङ्ख्यायां नाट्यात्मकं पतनम् अभवत्, केवलं १०.२% हिन्दवः तत्र अवशिष्टाः। 

१९९८ तमस्य वर्षस्य पाकिस्थानस्य जनगणनायाम् अभिलिखितम् अस्ति यत्, २.५ लक्षं हिन्दूजनसङ्ख्या पाकिस्थाने अवशिष्टा अस्ति।[३] अधिकतराः हिन्दवः पाकिस्थानस्य सिन्ध-प्रान्त निवसन्ति।[६] पाकिस्थाने दशकेभ्यः अल्पसङ्ख्याकाः हिन्दूः, क्रिश्चन-जनः [७] इत्यादयः उत्पीडनं सहन्ते इति। तद् उत्पीडनं २०१४ पर्यन्तम् अत्यन्तं गम्भीरं स्तरं प्रापत्।  [८] [९] [१०]

इतिहासः[सम्पादयतु]

प्राचीनयुगम्[सम्पादयतु]

पेशावर, पाकिस्थान
सिन्धूसंस्कृतेः स्थलानां विस्तारः

स्वस्तिकस्य प्रतीकः, योगासने स्थितस्य योगिनः चित्रं, यत् "पशुपतेः" समानं दृश्यते इत्यादि सिन्धस्य मोहन जो दड़ो इत्यस्मात् स्थलात् प्राप्तम् अस्ति, यत् हिन्दूधर्मस्योपरि स्वप्रभावस्य सङ्केतं करोति। सिन्धूसंस्कृतेः जनानां धार्मिकविश्वासः, लोकगीतं च हिन्दूधर्मस्य प्रमुखः अङ्गः अस्ति, यस्य विकासः दक्षिणजम्बूद्वीपीयभागे अभवत्।

सिन्धराज्यं, तस्य शासकाः च भारतीयमहाकाव्यस्य महाभारतस्य कथायां महत्त्वपूर्णां भूमिकाम् अवहन्। ततोधिकं, पौराणिककथानाम् आधारेण मन्यते यत्, पाकिस्थान-देशीयस्य लाहौर-महानगरस्य, कसूर-महानगरस्य स्थापना यमलभ्रात्राभ्यां (twin) क्रमेण लवद्वारा कुशद्वारा च अभवदिति; तौ उभौ रामायणस्य नायकस्य श्रीरामस्य पुत्रौ आस्ताम्। गान्धारराज्यं, यत् उत्तरपश्चिमभागे स्थितम् अस्ति, यत् पौराणिककालात् गान्धारजनानां निवासस्थानम् अस्ति, तस्यापि हिन्दूसाहित्यस्य रामायणस्य, महाभारतस्य च महत्त्वपूर्णः अंशः अस्ति। अधिकांशः पाकिस्थान-देशीयानां नगराणां नामानि (यथा पेशावर[११], मुल्तान[१२]) संस्कृतप्रेरितानि सन्ति।

जनसाङ्ख्यिकी[सम्पादयतु]

पाकिस्थानं ब्रिटेन-देशात् स्वतन्त्रतां १४ अगस्त, १९४७ दिनाङ्के प्राप्नोत्। ततः ४.४ कोटिहिन्दूभिः, सिखोंजनैः च अद्यतनं भारतं प्रति स्थानान्तरणं कृतं, प्रत्युत भारतात् ४.१ कोटिमुसलमानजनैः पाकिस्थानं प्रति स्थानातरणं कृतम्। १९९८ तमस्य वर्षस्य पाकिस्तानस्य जनगणनायां २.५ लक्षात् न्यूनाः हिन्दवः अभिलिखिताः (recorded)। [३] हिन्दूजनता सामान्यतः पाकिस्थानस्य सिन्धप्रान्ते केन्द्रिता अस्ति।

१९५१ तमस्य वर्षस्य जनगणनानुसारं पश्चिम-पाकिस्थाने १.६%, पूर्व-पाकिस्थाने (आधुनिके बाङ्ग्लादेशे) २२.०५% च हिन्दूजनसङ्ख्या आसीत्। सप्तचत्वारिंशद्वर्षेभ्यः अनन्तरं १९९७ तमे वर्षे पाकिस्थानस्य हिन्दूजनसङ्ख्यायां वृद्धिः नाभवत्, अतः १.६% हिन्दवः आसन्। बाङ्गलादेशे हिन्दू-जनसङ्ख्यायां नाट्यात्मकं पतनम् अभवत्, केवलं १०.२% हिन्दवः तत्र अवशिष्टाः।  [१३]

१९९८ तमस्य वर्षस्य जनगणनानुसारं पाकिस्थानस्य हिन्दूनां १.६% जनसङ्ख्यासु ६.६% हिन्दवः पाकिस्थानस्य सिन्धप्रान्ते निवसन्ति। पाकिस्थानस्य जनगणनायां हिन्दूवः अनुसूचितजात्यां विभक्ताः, ये अन्यमुख्येभ्यः हिन्दूभ्यः अतिरिक्ताः ०.२५% सन्ति । [१४]

विस्थापनम्, उत्पीडनञ्च[सम्पादयतु]

विस्थापनम् [१५][सम्पादयतु]

शीर्षवामकोणे वरुणदेवमन्दिरेण सह दृश्यमानः मनोडाद्वीपस्य समुद्रतटः, कराची, पाकिस्थानम्

हिन्दूधर्मः, बौद्धधर्मः, सिखधर्मः इत्येतेषां जनसङ्ख्यायाः पाकिस्थाने ऐतिहासिकम् अधःपतनं दृश्यते। तस्य पतनस्य पृष्ठभूमौ अनेकप्रकारकानि कारणानि सन्ति, तथापि पाकिस्थानस्य पूर्वीयसीमाक्षेत्रेषु तेषां विकासः अविरतः जायते। देहल्याः शासनं ततः  मुगलसाम्राज्यम् इत्येतयोः कालखण्डे मिशनरी-सूफी-मुसलमानजनानां कारणेन तेषां सर्वेषां धर्माणाम् अनुयायिनः मुस्लिमधर्मम् अङ्गीकृतवन्तः, येषां दरगाह-स्थानानि पाकिस्थानस्य अन्यदक्षिणजम्बुद्वीपे च सन्ति। मुख्यरूपेण मुस्लिम-जनता मुस्लिमलीग, भारतविभाजनस्य च समर्थनं कृतम् आसीत्।भारतविभाजनोत्तरं पाकिस्थानस्य हिन्दूभिः अनुभूतं यत्, तैः सह द्वितीयश्रेण्याः नागरिकत्वेन व्यवहारः भवति इति, अतः तैः भारतं प्रति स्थानान्तरणं कृतम्। [१६]

ते पाकिस्थानीयाः हिन्दवः, ये पाकिस्थानात् भारतं प्रति स्थानान्तरणं कृतवन्तः, तैः स्वानुभवः उक्तः यत्, पाकिस्थानस्य शालासु हिन्दूच्छात्राणां यौनोत्पीडनं भवति। हिन्दूच्छात्रेभ्यः कुरान-ग्रन्थस्य पठनम् अनिवार्यं कृतम् अस्ति, तथा च तेषां धार्मिकप्रथायाः उपहासः भवति तत्र इति।[१७] भारतसर्वकारस्य योजना अस्ति यत्, पाकिस्थान-देशीयेभ्यः हिन्दूशरणार्थिभ्यः आधारपत्रस्य, पैन-पत्रस्य निर्माणं भविष्यति। ततोधिकं भारतीयनागरिकतां प्राप्तुं प्रक्रिया सरला क्रियते। [१८]

उत्पीडनम्[सम्पादयतु]

पाकिस्थाने तालिबान-उग्रवादस्य उद्भवः, धार्मिकाल्पसङ्ख्यकजनानां विरुद्धं पाकिस्थानस्य भेदभावः च हिन्दू-ईसाइ-सिख-अन्याल्पसङ्ख्यकजनानां विरुद्धम् उत्पीडनस्य मुख्यघटके वृद्धिम् अकरोत्। [१९] एवमुच्यते यत्, पाकिस्थाने धार्मिकाल्पसङ्ख्यकजनानाम् उत्पीडनं भवति इति। [२०][२१]

कृष्णमन्दिरं, कल्लार, पाकिस्थानम्
मन्दिरस्य स्तूपात् दृश्यम्, कटास, पाकिस्थानम्

जुलाई 2010 मध्ये, कराची-महानगरे उपषष्ठिषु अल्पसङ्ख्याकहिन्दुषु आक्रमणम् अभवत्, तान् च तेषां गृहेभ्यः निर्वासिताः। कश्चन दलितहिन्दूयुवकः इस्लामी-मस्जिद-स्थानस्य समीपे स्थितायाः नलिकाया जलं पिबन् आसीत्, अतः एषा घटना अभवत्। [२२][२३] जनवरी 2014 तमे वर्षे, कश्चित् हिन्दूमंदिरस्य द्वारे द्वारपालत्वेन नियुक्तस्य आरक्षकस्य पेशावर-नगरे हत्या अभवत्।[२४] पाकिस्थानस्य सर्वोच्चन्यायलयः सर्वकारात् अल्पसङ्ख्यकहिन्दूसमुदायस्य मंदिराणां कृते कृतानां प्रयत्नानां विवरणम् अयाचत् - कराची-क्षेत्रस्य सर्वोच्चन्यायलयः अल्पसङ्ख्यकसमुदायस्य जनाः धर्मस्थानस्य  उपयोगात् वञ्चिताः किमर्थम् इत्यस्य अभियोगस्य संश्लेषणं कुर्वन् आसीत्। [२५][२६] [२७]

पाकिस्थानस्य पाठ्यक्रमस्य अंशाः[सम्पादयतु]

प्राचीनहिन्दूमन्दिरस्य अर्मकाणि (Ruins, खंडहर) (जोगिरन सोल्ट रेंज, पाकिस्थानम्)

सतत-विकास-नीति-संस्थानस्य (Sustainable Development Policy Institute) विवरणानुसारं, "पाकिस्थानस्य विचारधारायाः हठाग्रहः एव भारतस्य, हिन्दूजनानां च विरुद्धं द्वेषभावस्य मुख्यकारणम् अस्ति। पाकिस्थानस्य अस्तित्वस्य परिभाषा काले सर्वदा हिन्दूभिः सह तस्य सम्बन्धः योज्यते, अतः हिन्दूनां यावच्छक्यः, तावान् नकारात्मकः प्रचारः करणीयः इति पाकिस्थानस्य विचाराधारा अस्ति। तस्याः विचारधारायाः समर्थकानां तदेव कार्यम् अस्ति।".[२८] मदरेसा-स्थलेषु शिक्षकैः प्रेरिताः मुस्लिम-विद्यार्थिनः हिन्दूमन्दिरेषु आक्रमणं कुर्वन्ति। तस्यां घटनायां शीघ्रतया वृद्धिः जायते च। [२९] [३०]

न्यायाय, शान्त्यै च राष्ट्रीयायोगः ( National Commission for Justice and Peace), यत् पाकिस्थानस्थितं किञ्चन सेवाभाविसङ्घटनम् अस्ति, तस्य २००५ तमवर्षस्य विवरणानुसारं पाकिस्थानी-नीति-निर्मातारः पाकिस्थानस्य पाठ्यपुस्तकानाम् उपयोगः हिन्दूविरुद्धं घृणां वर्धयितुम् अकरोत् इति। "निन्दापूर्णशत्रुतायाः निरङ्कुशं शासनं कुण्ठितमानसिकतां पोषयति। पाकिस्थानस्य पाठ्यपुस्तकेषु भारतं शत्रुतापूर्णप्रतिवेशित्वेन प्रदर्शयितुं सक्रियः प्रयासः जातः।" विवरणं (report) कथयति यत्, 'पाकिस्थानस्य उद्भवः भारताद् अभवदित्यस्याः ऐतिहासिककथायाः विपरीतं, भिन्नञ्च पाकिस्थानस्य उद्भवचर्चा भवति।सर्वकारेण प्रकाशितेषु पाठ्यपुस्तकेषु छात्रेभ्यः पाठः भवति यत्, हिन्दवः तुच्छाः, अन्धविश्वासिनः च भवन्ति इति।' तस्मिन् विवरणपत्रे अग्रे लिखितम् अस्ति यत्, "पाठ्यपुस्तकेषु सप्रयासम् उत्तेजनायाः (इस्लाम-स्य विनाशसम्बद्धं भयं प्रदर्शितम्) निरूपणं कृतम् अस्ति। पाकिस्थानस्य अद्यतनाः छात्राः, नागरिकाः, तस्य नेतागणः च सर्वेऽपि आंशिकसत्यस्य आखेटाः सन्तीति।" [३१] [३२] [३३] [३४] [३५] [३६] [३७] [३८][३९][४०][४१] [४२] [४३]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. Population by religion
  2. Area, Population, Density and Urban/Rural Proportion by Administrative Units
  3. ३.० ३.१ ३.२ Population by religion
  4. Census of Pakistan
  5. Boyle, Paul; Halfacre, Keith H.; Robinson, Vaughan (2014).
  6. "Mashal not alone: the plight of Pakistani Hindus". 
  7. http://www.dawn.com/news/1166049
  8. https://www.sdpi.org/publications/files/MRG_Rep_Pak_ENGv2_PRESS.pdf, page - 5
  9. http://www.dawn.com/news/1189939
  10. http://www.dawn.com/news/1143524
  11. Kumkum Roy.
  12. Jarred Scarboro.
  13. "Census of Bangladesh".
  14. http://www.statpak.gov.pk/depts/pco/statistics/other_tables/pop_by_religion.pdf
  15. https://sdpi.org/nmpc/Final%20Minutes%20of%20NMPC.pdf 
  16. Sohail, Riaz (2 March 2007).
  17. "Why Pakistani Hindus leave their homes for India - BBC News".
  18. "Modi government to let Pakistani Hindus register as citizens for as low as Rs 100 | Latest News & Updates at Daily News & Analysis".
  19. Extremists Make Inroads in Pakistan’
  20. "Persecution of religious minorities in Pakistan".
  21. US Department of State International Religious Freedom Report 2006
  22. Press Trust of India (12 July 2010).
  23. "Hindus attacked in Pakistan".
  24. "Hindu temple guard gunned down in Peshawar".
  25. "Are Hindus in Pakistan being denied access to temples?
  26. Sahoutara, Naeem (26 February 2014).
  27. "Pak SC seeks report on denial of access to Hindu temple".
  28. Nayyar, A.H. and Salim, A. (eds.)(2003).
  29. https://sdpi.org/nmpc/Final%20Minutes%20of%20NMPC.pdf, page. 6 
  30. http://www.dawn.com/news/672000
  31. https://www.youtube.com/watch?
  32. https://www.youtube.com/watch?
  33. https://www.youtube.com/watch?
  34. https://www.youtube.com/watch?
  35. https://www.youtube.com/watch?
  36. https://www.youtube.com/watch?
  37. https://www.youtube.com/watch?
  38. Hate mongering worries minorities, Daily Times (Pakistan), 2006-04-25
  39. In Pakistan's Public Schools, Jihad Still Part of Lesson Plan - The Muslim nation's public school texts still promote hatred and jihad, reformers say.
  40. Primers Of Hate - History or biology, Pakistani students get anti-India lessons in all their textbooks; 'Hindu, Enemy Of Islam' - These are extracts from government-sponsored textbooks approved by the National Curriculum Wing of the Federal Ministry of Education.
  41. Noor's cure: A contrast in views; by Arindam Banerji; 16 July 2003; Rediff India Abroad Retrieved on 2 January 2010
  42. http://www.dawn.com/news/1225815
  43. http://www.dawn.com/news/1038961

अधिकवाचनाय[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]