गान्धरः (जनपदः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
गान्धारस्य चित्रम्
१६ जनपदान् दर्शयत् मानचित्रम्

गान्धरः प्राचीने भारते पश्चिमी जनपद असीत्। तस्य राजधानी तक्षिला आसीत्, तस्य केन्द्रम् आधुनिक पेशवर आसीत्। गान्धारे एव चन्द्रगुप्तः, अशोकः च राजनैतिक-जीवनम् आरंभं करोतः।

पुराणानुसारं गान्धारजनपदः ययातेः वंशस्थेन आरुद्धस्य पुत्रेण गान्धारेण संस्थापितः । अस्य गन्धारराष्ट्रस्य राजकुमाराः ऋग्वेदकालस्य "दृह्यु" इत्याख्यस्य राज्ञः वंशस्थाः इति उल्लेखः अस्ति । गान्धरदेशस्य समग्रस्य भूभागस्य जलव्यवस्थां करोति स्म सिन्धुनदीऐत्तरेयब्राह्मणे गान्धारस्य राजा नागजित् विदेहस्य जनकमहाराजस्य कालीनः इति वदति । गान्धरजनाः वेदकालादारभ्य कुभानद्याः (काबोल्-नदी) दक्षिणतीरे वसन्ति स्म सिन्धुखातनागरिकतायाः उदयपर्यन्तम् इति वदति डा ॥ झिम्मरः । अनन्तरं ते सिन्धुनदीम् अतिक्रम्य पञ्जाबराज्यस्य वायुव्यभागस्य भूप्रदेशेषु अपि व्याप्ताः अभवन् । पुराणेषु बौद्धसम्प्रदायस्य विभागेषु च गान्धारप्रदेशाः उत्तरपथे आसन् इति उल्लेखः दृश्यते । महाभारतयुद्धे गान्धराराजाः पाण्डवानां विरोधपक्षे कौरवाणां पक्षे आसन् । गान्धाराः उग्राः, युद्धकलायां परिणताः च आसन् । षष्ठशतकस्य मध्यभागे गान्धरराजा पुष्करसारिन् मगधराज्ञः बिम्बिसारस्य कालीनः आसीत् । गान्धारदेशः उत्तरपथे मुख्यमार्गे आसीत् इत्यनेन अन्ताराष्ट्रियं वाणिज्यकेन्द्रम् आसीत् । प्राचीन-इरानेन तथा मध्य-एषियया सह सम्पर्कस्य प्रमुखमाध्यमवाहिनी आसीत् । केषाञ्चन विदुषां मतानुसारं गान्धरकाम्भोजदेशयोः जनानां मूलम् एकम् एव आसीत् इति । कुरुवंशजाः, काम्भोजाः, गान्धाराः, बाह्लिकाः च समानमूलीयाः आसन् । इरान्-मूलस्य गुणस्य च सादृश्यम् आसीत् तेषाम् इति । डा ॥ शाः इत्यस्य मतानुसारं गान्धारः काम्भोजः च एकस्यैव साम्राज्यस्य द्वौ प्रान्तौ आस्ताम् । तयोः सीमा समाना आसीत् । गान्धारदेशस्य काश्मीरेण सह काम्भोजस्य अन्यभागैः सह च राजकीयसम्बन्धः आसीत् । तक्षशिला पुष्कलावती च गान्धारजनपदस्य प्रमुखनगरे आस्ताम् । अयोध्यायाः राजपुत्रस्य भरतस्य पुत्रौ तक्षः पुष्करः च । कालान्तरे तयोः एव नाम प्राप्तं स्यात् ताभ्यां नगराभ्याम् इति ऊह्यते । पाणिनेः अष्टाध्याय्यां वेदयुगस्य गान्धारस्य स्वरूपम्, अनन्तरस्य गान्धारस्य स्वरूपं च विवृतम् अस्ति । कुत्रकित् गान्धारदेशः काश्मीरेण सह अपि योजितः दृश्यते । मिलेटस् कन्यापुरं (कास्मीरम्) गान्धारनगरम् इति निर्दिष्टवान् अस्ति । कुत्रचित् गान्धारः "चन्दाहार"नाम्ना निर्दिष्टः दृश्यते । बौद्धधर्मस्य शास्त्रेषु उल्लिखितः गान्धारदेशे पूर्व-अफघानिस्तानस्य भूभागाः, पञ्जाबराज्यस्य वायुव्यभागाः (इदानीन्तनपेशावर-रावल्पिण्डिनगरम्) च अन्तर्भूताः आसन् । तक्षशिला तेषां राजधानी आसीत् । तदानीन्तनकाले तक्षशिलाविश्वविद्यालयः सुप्रसिद्धं विद्याकेन्द्रम् आसीत् । तक्षशिलाविश्वविद्यालयं प्रति जगतः सर्वस्मात् अपि भागात् विद्वांसः उन्नताध्ययनार्थम् आगच्छन्ति स्म । व्याकरणशास्त्रस्य अधिदेवः इत्येव ख्यातः भारतीयव्याकरणशास्त्रज्ञः पाणिनिः, महान् अर्थशास्त्रज्ञः कौटिल्यः च अस्य एव तक्षशिलाविश्वविद्यालयस्य एव रत्नद्वयम् । गान्धाराणाम् ऊर्णम् ऋग्वेदे अपि उल्लिखितम् अस्ति । अथर्ववेदे मुजवदद्भिः, अङ्गैः, मगधैः सह गान्धाराः अपि उल्लिखिताः सन्ति । तत्र स्पष्टरूपेण ते उपेक्षिताः इति उक्तम् अस्ति । वायुपुराणानुसारं (॥.३६.१०७) प्रमितिः गान्धारदेशस्य नाशम् अकरोत् इति ।

"https://sa.wikipedia.org/w/index.php?title=गान्धरः_(जनपदः)&oldid=389609" इत्यस्माद् पुनः प्राप्तिः