पिथौरागढमण्डलम्
पिथौरागढमण्डलम् District पिथौरागढ जिला | |
---|---|
Lake district of India | |
पिथौरागढमण्डलस्य मनोरञ्जकं दृश्यम् | |
देशः | India |
राज्यम् | उत्तराखण्डः |
विस्तारः | ७,११० च.कि.मी. |
जनसङ्ख्या(२०११) | ४,८३,४३९ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
साक्षरता | ८२.२५% |
भाषाः | कुमाँउनी, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | http://pithoragarh.nic.in/ |
पिथौरागढमण्डलम् ( ( शृणु) /ˈpɪthɔːrɑːɡədhəməndələm/) (हिन्दी: पिथौरागढ जिला, आङ्ग्ल: Pithoragad District) उत्तराखण्डराज्यस्य कुमाऊंविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पिथौरागढ इति नगरम् । पिथौरागढमण्डलं जलपात-नदी-तडाग-उपत्यकादि(valley)-प्राकृतिकदृश्येभ्यः प्रख्यातमस्ति । अस्मिन् मण्डले ऐतिहासिकानि मन्दिराणि तथा चान्दवंशीयराजानां दुर्गाः सन्ति ।
भौगोलिकम्
[सम्पादयतु]पिथौरागढमण्डलस्य विस्तारः ७,११० च.कि.मी.-मितः । उत्तराखण्डराज्यस्य दक्षिणभागे इदं मण्डलमस्ति । अस्योत्तरदिशि चीनदेशः, दक्षिणदिशि अल्मोडामण्डलं, चम्पावतमण्डलं च, पूर्वदिशि बागेश्वरमण्डलं, चमोलीमण्डलं च, पश्चिमदिशि नेपालदेशः अस्ति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा - नन्दादेवी, मात्रोल, रामगङ्गा, शीपु, गर्ब्यङ्ग, गोरीगङ्गा, कालीनदी ।
जनसङ्ख्या
[सम्पादयतु]पिथौरागढमण्डलस्य जनसङ्ख्या(२०११) ४,८३,४३९ अस्ति । अत्र ४,६२,२८९ पुरुषाः, २,२७,६१५ स्त्रियः, ६३,२९३ बालकाः (३४,८५३ बालकाः, २८,४४० बालिकाः च) सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०४.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३४ अस्ति । अत्र साक्षरता ८२.२५% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ मुनसैरी २ धर्चुला ३ बेरीनङ्ग ४ गङ्गोलीहट ५ पिथौरागढ ६ दीदीहट ।
वीक्षणीयस्थलानि
[सम्पादयतु]- महाकालीमन्दिरम्
- भुवनेश्वरमन्दिरम्
- नागमन्दिरम्
- सीरकोटमन्दिरम्
- गुंसेरादेवीमन्दिरम्
- थालकेदारमन्दिरम्
- नकुलेश्वरमन्दिरम्
- उल्कादेवीमन्दिरम्
- जयन्तीमन्दिरम्
- अर्जुनेश्वरमन्दिरम्
- कोटगरीदेवीमन्दिरम्
चीनदेशः | ||||
बागेश्वरमण्डलं, चमोलीमण्डलं | नेपालदेशः | |||
पिथौरागढमण्डलम् | ||||
अल्मोडामण्डलं, चम्पावतमण्डलं |
बाह्यानुबन्धः
[सम्पादयतु]http://www.mapsofindia.com/maps/uttaranchal/districts/pithoragarh.htm
http://www.euttaranchal.com/uttaranchal/pithoragarh.php
http://dcpit.uk.gov.in/ Archived २०१४-०२-०८ at the Wayback Machine