पोम्पेई लक्ष्मी
पोम्पेई लक्ष्मी हस्तिदन्तस्य प्रतिमा या पोम्पेई इति रोमकनगरस्य भग्नावशेषेषु प्राप्ता आसीत् । एतत् नगरः क्रिस्त ७९ संवत्सरे वेसुवियस् पर्वतस्य विस्फोटेन नष्टं अभवत् । इटालियन् विद्वान् अमेदीओ माइउरी इत्यनेन १९३८ संवत्सरे एषा मूर्तिः उत्खनिता । [१] एषा मूर्तिः प्रथम क्रिस्त शताब्द्यां कृता इति अभिप्रायः । [२] एषा प्रतिमा स्त्रीसौन्दर्यस्य, उर्वरतायाः च भारतीय परम्परायाः देवी इति चिन्तितम् अस्ति । सम्भवतः एतत् शिल्पं कॊपि दर्पणस्य भागः आसीत् । [२] एतत् यक्षिन्याः मूर्तिः प्रथमशताब्द्याः भारतस्य रोकामस्य च वाणिज्यव्यापारस्य प्रमाणं अस्ति ।
पुरा एतत् देवी लक्ष्म्याः प्रतिमा इति चिन्तितम् आसीत् या उर्वरता, सौन्दर्यस्य, धनस्य च देवी या सनातनीभिः बौद्धैः जैनैः च पूज्यते । [३] [४] तथापि, मूर्तिस्य दृश्यमानस्य जननाङ्गस्य कारणात् एषा प्राकृतिक प्रजननशक्तिं धारयती यक्षिणी अस्ति इति मन्तव्यम् । सम्भवतः एषा शास्त्रीय यवन-रोमकानां विनस् देव्याः तथा भारतीय श्री लक्ष्मी देव्याः युग्मा च. [५]
अधुना एषा मूर्तिः नेपल्स् नगरस्य राष्ट्रिय पुरातत्वसङ्ग्रहालये अस्ति | [६]
विषयवस्तु
[सम्पादयतु]१९३८ संवत्सरस्य अक्टोबर्-मासे पोम्पेई-नगरस्य "चतुश्शैल्याः गृहं" (कासा-डे-क्वाट्रो-स्टिलि) इत्यस्य पार्श्वे एषा प्रतिमा प्राप्ता । [७] वास्तुशिल्पस्य अवशेषाणां तलयोजनायाः च आधारेण बहुल्यः नगरगस्य (विअ देल्ल्-अब्बोन्डन्ज़ा) पार्श्वे स्थितः अयं "चतुश्शैल्याः गृहं" अधुना एकस्य संपन्नस्य व्यापारिणः आसीत् इति मन्यते [८] एतत् गृहे बहूनि भारतीय मूलस्य अतिसुखावहनि वस्तुनि लभ्यते । एतेन रोमकजनेषु न केवलं यवन संस्कृतिम् अपितु दूरस्थसंस्कृतयः वस्तूनि च प्रति विमोहनं आसीत इति ज्ञायते [८]
0.25 मीटर (9.8 इंच), उच्चं मूर्तिः तस्याः संकीर्णमेखटं भव्याभुषाणि च विस्तृतं केशविन्यासं च विहाय प्रायः नग्ना अस्ति । तस्याः द्वौ महिला अनुययिन्यौ स्तः। एका पार्श्वे बहिःमुखं अस्ति । ते कान्तिदाहनम् पात्राः धारयतः । [९] प्रतिमायाः उपरितः अधः यावत् छिद्रं खनितम् अस्ति । एतत् दर्पणस्य हस्तकं आसीत् इति वितर्कितं। [७]
क्रिस्त ७९ संवत्सरस्य यावत् पोम्पेई-नगरे अस्याः प्रतिमायाः अस्तित्वं प्रथमशताब्द्यां भारतस्य रोमकस्य च मध्ये विस्तृतव्यापारस्य प्रमाणम् [९] [१०] अस्याः प्रतिमायाः तिथिः नेपल्स-राष्ट्रिय पुरातत्वसङ्ग्रहालयेन भरतवर्षे प्रथमशताब्द्याः प्रथमे अर्धे निर्मितं इति निर्धारितम् अस्ति । [११]
-
पुनर्निर्माणपूर्वं प्रतिमा, यदा लब्धं
-
अग्रं पृष्ठं च।
-
पर्श्वौ
पुरातत्त्वीय ऐतिहासिक च अध्ययनस्य अनन्तरम् अपि अस्य प्रतिमायाः उत्पत्तिः अद्यापि अस्पष्टा अस्ति । अस्मिन् काले सम्राट् नीरो इत्यस्य शासनसमये रोमकाणां सांराज्यस्य भारतवर्षस्य च मध्ये सक्रियव्यापारमार्गस्य प्रमाणानि सन्ति । [१२] पोलार्ड् इत्यस्य मते रोमकाणां दीर्घ व्यापारमार्गेभ्यः एषा प्रतिमा अगस्टस् इत्यस्य शासनकाले पोम्पेई नगरे आगता । [१२] पुरातत्त्वसाक्ष्या अनुसारं प्रथमः द्वितीयः च शताब्द्यां भारतस्य रोमकस्य च मध्ये व्यापारः सर्वाधिकं विस्तृतं आसीत् इति वितर्कितं । एतिहासिकैः स्त्रोतैः स्थलमार्गेण समुद्रमार्गेण च बहवः व्यापारमार्गाः आसन् इति ज्ञायते ।[१२]
सम्भवतः भोकरदनक्षेत्रे स्थित महाक्षत्रपस्य नहपनस्य शासनकाले एषा प्रतिमा पश्चिमदिशि मार्गं भृगुकच्छक्षेत्रस्य नौकाशयात् गता । [१३]
प्राचीनकाले रोमकैः पूर्वदिशि व्यापारे महत्त्वपूर्णं स्थानं निर्वाहितः। ते भारतात् अनेकानि द्रव्याणि आनयितवन्तः व्यापारकेन्द्राणि स्थापितवन्तः च। [१४] कोब् इत्यस्य मते रोमकैःआरवद्वीपकल्पात् पारसिकक्षेत्रात् च भूमार्गे, रक्तवर्नसमुद्रात् हिन्दमहासागरात् च समुद्रमार्गेण व्यापारः कृतम् ।[१४]
अस्य व्यापारस्य मूल्यं अतीव प्रचुरं आसीत् इति मन्यते।भारतवर्षं चीनक्षेत्रं आरवक्षेत्रं च प्रतिवर्षं १० कोटिः मुद्राः प्रेष्यन्ते इति प्लिनि इत्येन अधिकृतः। [१४] माम्स्याः हस्तिदन्तस्य वस्त्रस्य च प्रेषणेन पुरातत्त्वसाक्ष्यात् प्रथमः द्वितीयः च शताब्द्यां अयं व्यापारः सर्वोच्चः आसीत् इति स्पष्टं ।[१४] अस्मिन् समये अस्थि त्यक्ताः रोमकशिल्पिनः हस्तिदन्तस्य उपयोगेन वस्तूनि निर्मातुम् आरब्धः ।[१५] हस्तिदन्तशिल्पिनः अस्मिन् समये राजनैतिकदृष्ट्या शक्तिशालिनः श्रेण्यः अपि निर्मिताः । [१५]
मूलं
[सम्पादयतु]प्रारम्भे एषा प्रतिमा मथुरानगरे निर्मिता इति कल्पितम् आसीत् । धवलीकर् इत्यस्य मते तस्याः उत्पादनस्थानं भोकरदनक्षेत्रम् इति चिन्तितम् यतः तत्र समाने मूर्तिद्वयं प्राप्ते । [१६]
भोकरदनक्षेत्रम् शातवाहनराज्यस्य सांस्कृतिकक्षेत्रस्य भागः आसीत्। सम्भवतः एतत् प्रदेशं महाक्षत्रपाणां अधीनं आसीत् इति अपि मताः सन्ति ।[१७]
एषायाः प्रतिमायाः अधोभागे खरोष्ठीलिप्यां 'शि' इति लेखचिह्नम् अस्ति । [१८] संभवतः एषा प्रतिमा सिन्धु गान्धारः कश्मीर वा एतेषु क्षेत्रेषु निर्मिता अथवा एतैः क्षेत्रैः अध्वगमनं कृता।[१९]
प्रतिमाशास्त्रम्
[सम्पादयतु]आवर्तने प्रतिमा, अन्ययोः स्त्री-आकृतयोः केन्द्रतः च निरूपिता भवति। पादानि तस्य पार्श्वं प्रति पर्यवर्तन्ते, एकः भुजः कर्णमुद्राः धारयितुं प्रवृत्ता । सा केवलं अग्रतः एव दृष्टा इति कल्प्यते यतः पृष्ठतः विवरणानि अतीव समतलं भवन्तिसन्ति। यथा डी 'अङ्कोना इत्यनेन उक्तम् , एषा प्रतिमा-शास्त्रं भारते स्त्रीदेवतानां विस्तृतवर्गे अन्तर्भवति।[२०]
साञ्ची-स्तूपस्य द्वयस्य शिल्पासु, यत्र बाल-परिचारकद्वयेन सह लक्ष्मी इत्यस्याः दृश्यम् अपि विस्तृतरूपेण सदृशं वर्तते, सा पोम्पेयी-लक्ष्मी इत्यस्याः कृते प्रारम्भिक-प्रेरणारूपेण कार्यं कृतवती स्यात्, विशेषतः सा. श. पू. 50 तः सातवाहन साञ्ची इत्यस्य नियन्त्रणे आसन् इति ज्ञात्वा।[२१] साञ्ची-स्तूप-नं. 2 इत्यत्र एतानि प्रारम्भिकानि उत्कीर्णानि वायव्यतः, विशेषतः गान्धारस्य इण्डो-ग्रीक्-प्रदेशस्य शिल्पिभिः निर्मितानि इति मन्यते, यतः उत्कीर्णानि स्थानीय-ब्राह्मी-लिप्याः विरुद्धं खरोष्ठी-भाषायां राजमिस्त्री-चिह्नानि धारयन्ति।[२२] स्तूपस्य पट्टिकासु दृश्यमानानां विदेशीय-आकृतयः, आकृतयः च प्रायः शिल्पिनः एव आसन्।[२२]
ग्रन्थसूची
[सम्पादयतु]- ↑ An Indian Statuette from Pompeii. pp. 166–180.
- ↑ २.० २.१ Abstracts of Articles. 1939. pp. 214–215.
- ↑ Pompeii: The Life of a Roman Town. 2010. p. 24.
- ↑ Images of Indian Goddesses: Myths, Meanings, and Models. 2003. p. 57.
- ↑ An Indian Statuette from Pompeii. pp. 166–180.
- ↑ "Lakshmi". Museo Archeologico Napoli. आह्रियत 4 February 2017.
- ↑ ७.० ७.१ Abstracts of Articles. 1939. pp. 214–215.
- ↑ ८.० ८.१ Parker, Grant (2002). "Ex Oriente Luxuria: Indian Commodities and Roman Experience". Journal of the Economic and Social History of the Orient. 45 (1): 40–95. ISSN 0022-4995.
- ↑ ९.० ९.१ Pompeii: The Life of a Roman Town. 2010. p. 24.
- ↑ Secrets of Pompeii: Everyday Life in Ancient Rome. 2009. p. 43.
- ↑ "Lakshmi". Museo Archeologico Napoli. आह्रियत 4 February 2017.
- ↑ १२.० १२.१ १२.२ Indian Spices and Roman "Magic" in Imperial and Late Antique Indomediterranea. 2013-08-07. pp. 1–23.
- ↑ The Buddhist Caves at Aurangabad: Transformations in Art and Religion. 2010. p. 64 Note 94.
- ↑ १४.० १४.१ १४.२ १४.३ The Reception and Consumption of Eastern Goods in Roman Society. April 2013. pp. 136–152. उद्धरणे दोषः :
<ref>
अमान्य टैग है; ":2" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है - ↑ १५.० १५.१ BARNETT, RICHARD D. (1982). "ANCIENT IVORIES IN THE MIDDLE EAST". Qedem. 14: III–99. ISSN 0333-5844.
- ↑ Region, Nationality and Religion. 1999. p. 46.
- ↑ The Buddhist Caves at Aurangabad: Transformations in Art and Religion. 2010. p. 64 Note 94.
- ↑ Statuetta eburnea di arte indiana a Pompei, Maiuri p. 112
- ↑ Afghanistan: Forging Civilizations Along the Silk Road, Joan Aruz, Elisabetta Valtz Fino, Metropolitan Museum of Art, 2012 p. 75
- ↑ Secrets of Pompeii: Everyday Life in Ancient Rome. 2009.
- ↑ An Indian Statuette from Pompeii. pp. 166–180.
- ↑ २२.० २२.१ An Encyclopaedia of Indian Archaeology, by Amalananda Ghosh, Brill p. 295