प्रकरणग्रन्थाः (द्वैतदर्शनम्)
प्रकरणग्रन्थः नाम वेदान्तशास्त्रस्य कांश्चन निर्दिष्टविषयान् प्रति विशेषविवेचनाय सहायकः परन्तु ग्रन्थरूपेण अतिलघुः । सर्वेषां शास्त्राणाम् अध्ययनात् प्राक् प्रकरणग्रन्थानाम् अध्ययनम् आवश्यकमेव ।
मध्वाचार्यैः रचिताः ग्रन्थाः एव ‘सर्वमूलग्रन्थाः’ इति प्रसिद्धाः । एतेषु अन्यतमाः एव ‘प्रकरणग्रन्थः’ ते च –
- प्रमाणलक्षणम्
- कथालक्षणम्
- उपाधिखण्डनम्
- प्रपञ्चमिथ्यात्वानुमानखण्डनम्
- मायावादखण्डनम्
- तत्त्वसङ्ख्यानम्
- तत्त्वविवेकः
- तत्त्वोद्योतः
- विष्णुतत्त्वविनिर्णयः
- कर्मनिर्णयः
एतेषां रचने सुसंबन्धः निर्दिष्टक्रमः विद्यते । एतेषां ग्रन्थानां स्थूलपरिचयः अत्र विद्यते -
प्रमाणलक्षणम्, कथालक्षणम्
[सम्पादयतु]उभयत्रापि शास्त्रे चर्चिताणां विषयाणां यथार्थं निर्णयं कर्तुं आवश्यकानां केवलप्रमाण- अनुप्रमाणयोः यथार्थवत्रया अर्थप्रतिपादनं तथाच तत्त्वनिर्णयं प्रति पूर्वपक्षिसिद्धान्तिनोः वादः यथा क्रियते तत्सर्वमपि अत्र दर्शितम् ।
उपाधिखण्डनम्, मायावादखण्डनम्, प्रपञ्चमिथ्यात्वानुमानखण्डनम्
[सम्पादयतु]एते त्रयः ग्रन्थाः अपि अद्वैतखण्डनार्थं एव आचार्यैः आरब्धाः ।
उपाधिखण्डने तु मायावादिनः एवं वदन्ति सकलवेदान्तं तथा मीमांसाशास्त्रम् अपि जीवब्रह्मणोः ऐक्यत्वं एव प्रतिपादयति । एतत् ऐक्यत्वं आत्मस्वरूपमेव तथापि एताद् ज्ञानवरकम् । अभेदरूप एतदात्मस्वरूपं तथापि अज्ञानरूप उपाधिना ज्ञातुं न शक्यते । एतद्ज्ञानावरणं निवार्य जीवेश्वरयोः अभेदप्रतिपादनं एव सकलशास्त्राणां उद्देशः इति तेषां वादः एतादृशरूपवादं आचार्याः निराकुर्वन्ति ऐक्यवादं दोषपूरितम् येन केनापि प्रकारेण परमात्मनः अज्ञानं न सम्भवति । जीवपरब्रह्मणोः मध्ये भेदः स्वाभाविक न तु उपाधिकृतः इत्यादिरूपेण तत्खण्डयति । मायावादखण्डेन पूर्वपक्षं एवं मोक्षस्तू आत्मस्वरूप एव शास्त्राध्ययनात् प्रागेव आत्मस्वरूपं सिद्धं इति कारणात् शास्त्राध्ययनेन प्राप्तं मोक्षरूपफलमपि प्रागेव सिद्धम् । अद्वैतरीत्या अज्ञानं तु सदसद्विलक्षणम् । अज्ञानसम्भवेन चतुर्थप्रकाराभावात् पञ्चमप्रकारमपि निरस्ता । एतेन वाक्येन मायावादं निरस्य विषयप्रयोजनानां अभावात् अधिकारी अपि नास्ति । तथा च इदं ग्रन्थं एव अनारंभणीयम् इति कृत्वा विष्णुसर्वोत्तमत्व प्रतिपादक भगवद्गीतायाः उपनिषदः वाक्यानि च उदाहृत्य तं ग्रन्थं समापयत् ।
मिथ्यात्वानुमानस्य तु सारांशं एवं विद्यते । अत्र तु मायावादिनः- अनुमानेन विश्वमिथ्यात्वं साधयन्ति अनुमानं तु एवम् विमतं मिथ्या दृश्यत्वात् यथा सम्प्रतिपन्नमिति । अत्र तू आचार्याः प्रतिज्ञायाः आश्रयासिद्धि अप्रसिद्धविशेषणरूपदोषौ भवतः तथा च सिद्धसाधनतां अपि दत्त्वा प्रपञ्चमिथ्यात्वसाधकानुमानं खण्डयति । विश्वमिथ्यात्वं साधयन्तः प्रतिवादिनण् शूचिरूप्यं दृष्टान्ती कुर्वन्ति । तथा च तत्र साध्यवैकल्यरूपदोषो अस्ति इति कृत्वा साधनवैकल्यरूपदोषं अपि दत्त्वा प्रकरणं समापयन्ति ।
तत्वोद्योतः
[सम्पादयतु]तस्य ग्रन्थस्य अन्यत् नाम ‘वाद’ इति । अस्मिन् ग्रन्थे तु आचार्याः मूकेश्वरभेदं समर्थयित्वा तथा अनिर्वचनीयत्वविषये किमपि प्रमाणं नास्ति तथा च वेदद्रष्टुः लक्षणं उक्त्वा प्रामाण्यं स्वतः सिद्धं वर्णाः नित्याः अतीन्द्रियविषयस्य आगम एव प्रमाणं, वेदाः नित्याः तथा च कार्यतावादस्य खण्डनं कृत्वा आगमानां महातात्पर्यं ईश्वरे एव इति कृत्वा इत्यादीन् विषयान् अत्र सविस्तरं वर्णितवन्तः । विष्णुतत्वविनिर्णये एव नारायणस्य अनन्तगुण परिपूर्णत्वं विशेषतः साधितम् । विष्णुः सकलदोषदूरः सः एव स्वातन्त्र्येण जगत्कर्तानत्वन्यः इत्यादयः विषयाः अत्र तु सविस्तरं चर्चिताः ।
कर्मनिर्णयः
[सम्पादयतु]एतत् प्रकरणं तू ऐतरेयब्राह्मणस्य चतुर्थपञ्चके प्रथमाध्यायस्य व्याख्यानरूपम् । अत्र तू ब्रह्मणः निर्गुणत्वनिराकरणम् तथा च निर्विशेषत्वस्य खण्डनम्, सदसद्वैलक्षण्यनिरासः विष्णोः गुणपूर्णत्वसमर्थनम् तथा महानाम्नीऋचां अर्थनिरूपणम् महानाम्न्यः उपसर्गकथनम् ते च, प्रचेतन, प्रचेतय, आयाहि पिब, मत्स्व इत्यादि तथा च तेषां विभागः, शस्त्रमन्त्रार्थः, मन्त्रसंयोजनफलं इत्यादिविषयाः अस्मिन् ग्रन्थे उक्ताः ।
तत्त्वसङ्ख्यानम्
[सम्पादयतु]अत्र तू तत्त्वम् इत्यस्य कोऽर्थः,तस्य विभागः तद्विषये एव चर्चा प्रथमतः अनन्तरं तद्विधम् इति कृत्वा अस्वतन्त्रतत्वे प्रभेदान् उक्त्वा ग्रन्थः समाप्यते । (स्वतन्त्र) यथार्थतत्वस्य लक्षणम् एवम् स्वरूपप्रवृत्ति प्रमिति लक्षणसत्तात्रैविध्ये परानपेक्षं । तत् विष्णुः एकः एव अन्यत् अस्वतन्त्रतत्त्वं तत्र विभागान् उक्त्वा ग्रन्थो हि समाप्यते ।