महेन्द्रः
अयं महेन्द्रपर्वतः सप्तकुलपर्वतेषु अन्यतमः पवित्रः पर्वतः । अयं पर्वतः कुत्र अस्ति इति विषये एतावत्पर्यन्तम् अपि कोपि निश्चितः अभिप्रायः नास्ति । सीतायाः शोधार्थं गच्छन् हनुमान् अस्य महेन्द्रपर्वतस्य उपरिष्टात् एव उड्डयनम् अकरोत् इति विवरणम् अस्ति रामायणे । तथा हनुमतः उड्डयनावसरे तस्य पादाघातेन अयं महेन्द्रपर्वतः भूगतः जातः इति ज्ञायते । अगस्त्यमुनिः एतं पर्वतं समुद्रस्य मध्ये अस्थापयत् इति उक्तम् अस्ति रामायणे । अयं पर्वतः सुन्दरः, स्वर्णमयः, देवानाम्, ऋषीणां, यक्षानां, गन्धर्वाणां च वासस्थानम् इत्यपि तत्र वर्णितम् अस्ति । महेन्द्रपर्वतः महानद्योः वेनगङ्गा-गोदावर्योः मध्ये स्थिते भूभागे अस्ति इति विश्वासः । कालिदासः कलिङ्गराजं "महेन्द्राधिपति:” इति अवर्णयत् इति कारणात् सः पर्वतः उत्कले (इदानीन्तने ओरिस्साराज्ये) अस्ति इति वादः पुष्टिं प्राप्नोति । इदानीम् ओरिस्साराज्यस्य गञ्जाममण्डलस्य पूर्वघट्टेषु अत्युन्नतं शिखरं "महेन्द्रः” इति वदन्ति । अस्य शिखरस्य औन्नत्यं ४९१६ पादमितम् (अडि, फीट्) । मेघहासिनी, निमैगिरिः, कोलार्वटं, च अत्रत्यानि अन्यानि शिखराणि ।
अस्माकं जीवनस्य आधारभूतानां नदीनां जलधाराणां च जन्मभूमिः अस्ति अयं पर्वतः । महेन्द्रगिरौ द्वौ प्रवाहौ प्रवहतः । त्रिभागा, ऋषिकुल्या, इक्षुदा, त्रिदिवा, अचला, ताम्रपर्णी, मूली, शरवा, विमला इत्याख्याः नद्यः उद्भवन्ति अस्मिन् महेन्द्रपर्वते इति उल्लिखितम् अस्ति मत्स्यपुराणे । इतिहासकालस्य वैभवस्य साक्षीभूतानि देवमन्दिराणि अत्र निर्मितानि सन्ति । दक्षिणभारतस्य पराक्रमी राजा राजराजेन्द्रचोलः ११ शतके अत्र एकं विजयस्तम्भं स्थापितवान् आसीत् । सप्तचिरञ्जीविषु अन्यतमः भार्गवरामः महेन्द्रगिरौ सञ्चरति । तदेव तस्य वासस्थानम् । शिवधनुः भञ्जितवन्तं रामं परीक्ष्य पराजितः सः महेन्द्रगिरिं प्रत्यगच्छत् इति घटना अस्ति रामायणे । प्रतिपर्वणि देवेन्द्रः अत्र आगच्छति स्म इति । अस्य महेन्द्रपर्वतस्य उपरि कुन्त्याः धर्मराजस्य भीमस्य च मन्दिराणि सन्ति । कुन्तिमन्दिरं गोकर्णेश्वरमन्दिरम् इत्यपि वदन्ति । एवं बहवः ऐतिहासिकाः पौराणिकाः च विषयाः अस्माकं नेत्रयोः पुरतः आयान्ति महेन्द्रपर्वतस्य स्मरणमात्रेण । किम् अयं पर्वतः अस्माकम् अभिमानस्य विषयः न ?