मातृकाग्रन्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

मातृकाग्रन्थः कश्चन हस्तलिखितः ग्रन्थविशेषः। एतस्य हस्तप्रतिः, लिपिग्रन्थः इत्यादीनि नामानि अपि सन्ति। आङ्ग्लभाषायां Manuscript इति शब्देन प्रसिद्धः एषः ग्रन्थः MS उत MSS इत्यनेन लघुना नाम्ना अपि आख्यायते। हिन्दीभाषायां 'पाण्डुलिपि', 'हस्तलेख', 'हस्तलिपि' इत्यादीनि नामानि प्रसिद्धानि। षोडशशताब्द्याः (१६) आरम्भे संस्कृतस्य वैदेशिकैः अध्ययनम् आरब्धम् इति मन्यते। आरम्भोत्तरं तत्प्रसिद्धिः सप्तदशशताब्द्याः अन्ते, अष्टादशशताब्द्याः आरम्भे च मन्यते। तस्मिन् कालखण्डे भारते स्थितमातृकाग्रन्थानां पठनं, संरक्षणं च विविधैः सङ्घटनैः कृतम्।

इतिहासः[सम्पादयतु]

मातृकाग्रन्थानां मुख्योद्देशः भारतीयज्ञानस्य अतिप्राचीनपरम्परायाः संरक्षणं वर्तते। वेदानां गभीरज्ञानाद् आरभ्य पञ्चतन्त्रस्य बालकथापर्यन्तं संस्कृते विषयवैविध्यं विद्यते। सहस्रेभ्यः वर्षेभ्यः सङ्कलितं, संरक्षितं च तत् ज्ञानं युगानुयुगम् अनुवर्तते। अतः मातृकाग्रन्थानाम् इतिहासः एव भारतीयपरम्परायाः इतिहासः मन्यते। बल-विक्रम-आयुभिः सह कालान्तरे मनुष्यस्य स्मृतिशक्तेः ह्रासः अभवत्। तस्मात् ह्रासात् ज्ञानस्य, शोधप्रबन्धानां च रक्षणं कर्तुं मातृकाग्रन्थस्य वैज्ञानिक्याः पद्धत्याः उपयोगः आरब्धः।

मातृकाग्रन्थानाम् नैके प्रकाराः सन्ति, परन्तु तेषु ताडपत्रं, भुर्जपत्रं, ताम्रपत्रं, सुवर्णपत्रं च प्रसिद्धप्रकाराः। सम्प्रति सर्वाधिकाः मातृकाग्रन्थाः भोजपत्रेषु, ताडपत्रेषु च सम्प्राप्यन्ते। ताडपत्रं लौहलेखिन्या सज्जीभवति स्म। मातृकाग्रन्थानां लेखने विशिष्टसाधनानि, कौशलं च अपेक्षन्ते। मातृकाग्रन्थस्य लेखकः विद्वान्, कलानिपूर्णश्च भवेत्। जर्मनदेशीयः वेदविद् मैक्समूलर (१८२३-१९००) स्वस्य पुस्तके अलिखत्, "अखिलेऽस्मिन् संसारे ज्ञानिनां, पण्डितानां च देशः भारतमेव एकमात्रं स्थानमस्ति, यत्र विपुलज्ञानसम्पदः हस्तलिखितग्रन्थरूपेण सुरक्षितम् अस्ति" इति।[१]

सूचिप्रकाशनम्[सम्पादयतु]

आरम्भे संस्कृतमातृकाग्रन्थानां संरक्षणं 'रॉयल एशियाटिक सोसायटी' संस्थया, 'इण्डिया ऑफिस्' संस्थया च अभवत्। १७८४ क्रिस्टाब्दे 'रॉयल एशियाटिक सोसाइटी' संस्थायाः स्थापना अभवत्। तया संस्थया भारते विद्यमानानां मातृकाग्रन्थानां सङ्कनकार्यम् आरब्धम्। अस्याः संस्थायाः ग्रन्थसङ्ग्रहस्य सूचिः १८०७ क्रिस्टाब्दे लन्दन-मगानगरात् प्रकाशिता। तस्याः सूच्याः मुख्यसम्पादकौ सर विलियम जोन्स, लेडी जोन्स इत्येतौ आस्ताम्। हेनरी टामस कोलब्रुक (१७६५-१८३७ क्रि.) इत्येषः १८०७ क्रिस्टाब्दे 'एशियाटिक सोसायटी ऑफ बंगाल'-संस्थायाः सभापतित्वेन नियुक्तः। सः स्वस्य कार्यकाले अनेकान् मातृकाग्रन्थान् अरक्षत। तेन लिखिताः शोधपूर्णाः विवरणिकाः अद्यत्वे लन्दन-महानगरे सुरक्षिताः। ततः अनुसरणं कुर्वन् अन्ये विद्वांसः १८१७-१९३४ मध्ये विभिन्नान् ग्रन्थसङ्ग्रहान् प्राकाशयन्। तस्मिन् कार्ये मुख्यजनः पं. हरप्रसादः शास्त्री मन्यते। अष्टमभागस्य सम्पादनं १९३४-४० मध्ये श्रीचिन्ताहरण-चक्रवर्ती कृतवान्। दशमभागस्य सम्पादनञ्च १९४५ मध्ये श्रीचन्द्रसेनगुप्तः कृतवान्।

डॉ बूलर (१८३७-१८९८ क्रि.) पेरिस-ओक्सफोर्ड-लन्दन-आदिस्थितानां मातृकाग्रन्थानाम् अनुशीलनं कृत्वा मैक्समूलर-महोदयस्य प्रेरणया भारतं सम्प्राप्तः। सः गुजरात-काठ्यावाड-सिन्धादिषु विभिन्नेषु प्रदेशेषु मातृकाग्रन्थानाम् अन्वेषणम् अकरोत्। तस्य नियुक्तः बोम्बे (सम्प्रति मुम्बई) महानगरस्य शिक्षाविभागे तस्य नियुक्तिः अभवत्। तत्र सः 'बंबई संस्कृत सीरीझ' इत्याख्यायाः ग्रन्थमालिकायाः प्रकाशनम् अकरोत्। ततः १८६६ तमे वर्षे सर्वकारेण कोलाकाता-बंबई-मद्रास-महानगरेषु शोधसंस्थानस्य स्थापाना कृता। बूलर-महोदस्य नियुक्तिः बंबई-महानगरस्थस्य शोधनसंस्थानस्य अध्यक्षत्वेन अभवत्। बूलर-महोदयेन स्वस्य कार्यकालस्य कालखण्डे उपत्रयोविंशतिः (२३००) मातृकाग्रन्थानाम् अन्वेषणं कृतम्। तेषु मातृकाग्रन्थेषु अनेके मातृकाग्रन्थाः एलिफिंसटन-महाविद्यालस्य ग्रन्थालये, बर्लिन-विश्वविद्याले, इण्डिया-ऑफिस इत्यत्र च सुरक्षताः।

बर्लिन-विश्वविद्यालयस्य राजकीयपुस्तकालये सङ्गृहीतानां संस्कृतमातृकाग्रन्थानां सूचिं डॉ. वेबर (१८२५-१९०१) निरमात्। डॉ बूलर-द्वारा प्रेषितानां पञ्चशतस्य (५००) ग्रन्थानाम् अनुशीलनं कृतवान्। १८८६ तमे वर्षे आङ्ग्लसर्वकारेण संस्कृतमातृकाग्रन्थान्वेषणाय नवीनः विभागः रचितः। एतस्य विभागस्य आरम्भात् पूर्वमेव कोलब्रूक, बूलर, वेबर इत्यादयः विद्वांसः मातृकाग्रन्थान्वेषणस्य कार्ये प्राप्तानुभवाः आसन्। तत्कालीनः 'भारतीय-काउन्सिल'-मन्त्री ह्विटली स्टोक्स १८८६ तमे वर्षे चतुर्विंशतिसहस्रं (२४,०००) रूप्यकाणि संस्कृतमातृकाग्रन्थस्य व्ययत्वेन अङ्गीकृतानि आसन्। त्रिनीति-कोलेज-कैम्ब्रिज इत्यस्य सङ्ग्रहसूचिं ओफ्रेक्ट-संस्था १८६९ तमे वर्षे प्राकाशयत्। ततः १८७० तमे वर्षे 'जेम्स डी' अलीज इत्येषः कोलम्बो-तः संस्कृतमातृकाग्रन्थानां सूचिं प्राकाशयत्। १८७० तमे वर्षे ए. सी . बर्नेल इत्येषः 'इण्डिया ऑफिस लन्दन'-संस्थया सुरक्षितानां मातृकाग्रन्थानां सूचिं सम्पाद्य प्रकाशितवान्। जूलियस एगलिंग इत्यस्य सूचयः १८८७-१८९६ मध्ये भागद्वये प्रकाशिताः।

मध्यभारतस्य संस्कृतमातृकाग्रन्थानां सूचिः १८७४ तमे वर्षे नागपुरात् एफ. कीलहार्न इत्येनेन प्रकाशिता। डॉ बूलर-महोदयः पि काश्मीर-राजपूताना-मध्यभारतादिनां क्षेत्रेभ्यः प्राप्तग्रन्थानां विवरणं निर्मीय १८७७ तमवर्षे बंबई-तः प्राकाशयत्। १८८० तमवर्षे 'ए क्लासीफाइड इण्डैक्स टु दि संस्कृत मैन्युस्क्रिप्ट्स् इन दि पैलेस एट तंजोर' इत्याख्यं सूचिपत्रं ए. सी. बर्नेल-महोदेयन लन्दन-तः प्रकाशितम्। ततः तंजोर--राजकीय-सरस्वती-महल-पुस्तकालयस्य ग्रन्थानां ग्रन्थसूचिः पी. पी. एस. शास्त्रि-महोदयेन एकोनविंशखण्डेषु (१९) प्रकाशिता। तस्मिन् पुस्तकलाये २५००० मातृकाग्रन्थाः सुरक्षिताः सन्ति। १८७७-७८ मध्ये सर्वकारेण क्रीतानां मातृकाग्रन्थानां सूचिः १८८१ मध्ये कीलहार्न-महोदयेन प्रकाशिता। १८८०-८१ तमवर्षस्य बंबई-प्रदेशस्य ग्रन्थविवरणं कीलहर्न-महोदयेन बंबई-तः १८८१ तमवर्षे प्रकाशितम्। संस्कृतमातृकाग्रन्थानाम् अन्यमेकं विवरणं १८८०-८१ मध्ये पं. काशीनाथ कुन्ते-महोदयः प्रकाशितवान्।

दक्षिणभारतेऽपि मातृकाग्रन्थानाम् अन्वेषणं कृत्वा गुस्तव-ओर्पेट इत्येषः मातृकाग्रन्थसूची क्रमशः १८८०, १८८५ च तमवर्षे प्राकाशयत्। अवधस्य संस्कृतमातृकाग्रन्थानां सूचयः पण्डित-देवीप्रसादेन निर्मीय १८८१ तः १८९३ पर्यन्तं प्रकाशिताः। ब्रिटिश-म्यूझियम-संस्थया अपि १८८३ मध्ये मातृकाग्रन्थसूचिः प्रकाशिता। १८८३ तमवर्षे कैम्ब्रिज-विश्वविद्यालयात् संस्कृत-पालि-भाषाणां मातृकाग्रन्थानां सूचिः जोसिल बेंडाल, राइस डेविड्स् इत्येताभ्यां प्रकाशिता। बूलर, कीलहार्न इत्येतयोः कालखण्डोत्तरं पीटर्सन इत्यस्य कालखण्डे मातृकाग्रन्थानां संरक्षणकार्यम् अभवत्, तेषां ग्रन्थानां सूचयश्च १८८३ तः १८९८ पर्यन्तं प्रकाशिताः। मैसूरु-प्रदेशस्य कुर्ग-ग्रन्थानां सूचिः लेबीज राइस इत्यषः सज्जीकृत्य १८८४ तमे वर्षे बेंगळुरु-तः प्राकाशयत्। मद्रास-प्रदेशस्य 'गवर्मेन्ट ओरियण्टल लाइब्रेरी'-द्वारा प्रथमा सूचिः १८९३ तमे वर्षे प्रकाशिता। एतावता तया संस्थया २९ सूचयः मुद्रिताः। कीथ, थोम्स इत्यतयोः सूचिः अपि १९३५ तमे वर्षे, ओल्डेनबर्ग इत्यस्य सूचिः १९८२ तमे वर्षे च प्रकाशिकता। १९७१–१९९० मध्ये एकादशसु (११) खण्डेषु 'नोटिसिस् ऑफ संस्कृत मैन्यस्क्रिप्ट्स्' [२] नामकस्य ग्रन्थस्य मुद्रणम् अभवत्। राष्ट्रियसंस्कृतसंस्थानद्वारा पुस्तकमिदं प्रकाशितम्। प्रथमानां नवखण्डानां सम्पादनं 'राजेन्द्रलाला मित्रा'-महोदयेन कृतम्। दशमैकादशयोः खण्डयोः सम्पादनं हरप्रसादशास्त्री अकरोत्।

१८९२ तमवर्षे पीटर्सन अलवर-महाराजस्य मातृकाग्रन्थानां प्रकाशनम् अकारयत्। १८९४ तमे वर्षे डॉ. स्टीन-महोदयः जम्बू-काश्मीर-प्रदेशस्य रघुनाथमन्दिरस्य ग्रन्थालयस्य मातृकाग्रन्थानां सूचिं बंबई-तः प्रकाशितवान्। डॉ. स्टीन-महोदयः 'राजतरङ्गिणी'-पुस्तकस्य मातृकाग्रन्थानाम् अन्वेषणं कृत्वा स्वरक्षयत्। सम्प्रति ते ग्रन्थाः 'इण्डियन् इन्स्टीट्युट ओक्सफोर्ड'-संस्थायां विद्यन्ते। १८८९-९१ मध्ये आर. जी भण्डारकर-द्वारा बंबई-प्रदेशस्य ग्रन्थानां सूचिः १८९७ मध्ये प्रकाशिता। ई. हल्टज इत्येषः दक्षणभारतीयमातृकाग्रन्थानां सूचीः क्रमशः १८९५-९६, १९०५ तमवर्षे प्राकाशयत्। कोलकाता-महानगरात् अपि बहव्यः सूचयः प्रकाशिताः। १८९५-१९०६ मध्ये कोलकाता-संस्कृत-ग्रन्थालयस्य मातृकाग्रन्थानां सूचिः हृषीकेशशास्त्रिणा, शिवचन्द्रेण च प्रकाशिता। लोडलियन-ग्रन्थालयस्य मातृकाग्रन्थानां सूचिनिर्माणस्य कार्यं विन्टरनित्स्-महोदयः आरभत, तस्य कार्यस्य समापनं कीथ-महोदयेन कृतम्। तदतिरक्तं ततः पालिग्रन्थानाम् अपि सूचिः फेंकफर्टर-महोदयेन सज्जीकृता। डॉ स्टीन-द्वारा सङ्ग्रहीतसूचिः, 'इण्डियन इन्स्टीट्यूट, ओक्सफर्ड'-संस्थायां सुरक्षितसूचिः च कीथ-महोदयेन १९०३ तमवर्षे क्लेरेंडन-प्रेस (ओक्सफर्ड)-तः प्रकाशिता।

राजस्थान-मध्यप्रदेशयोः मातृकाग्रन्थानां सूचिः श्रीधरभण्डाकरः सज्जीकृत्य १९०७ तमवर्षे बंबई-महानगरात् प्राकाशयत्। रायबरादुर-हीरालाल-शास्त्रिणा मध्यभारतस्य, बरार-प्रदेशस्य सूचिः १९२६ तमवर्षे नागपुरात् प्रकाशिता। महाराज-जम्मू-काश्मीर-पुस्तकालयस्य सूचिः रामचन्द्र-काक-महोदयस्य, हरभट्टशास्त्रिणः च प्रयासैः प्रकाशङ्गता। १८१६-१९३९ मध्ये 'भण्डारकर-ओरियण्टल'-ग्रन्थालयात् संस्कृतमातृकाग्रन्थानां सप्तसूचयः प्रकाशिताः। १९१९ तमवर्षे सन्धियाभवनस्य (आरा) सूचिः अपि मुद्रिता। 'गवर्नमेण्ट ओरियण्टल'-ग्रन्थालयात् (मैसुर) द्वे सूची क्रमशः १९२२, १९२८ च तमवर्षे प्रकाशिते। जी. के श्रीगोण्डेकर, के. एस रामास्वामी शास्त्री इत्येतौ 'बडौदा सेन्ट्रल लाइब्रेरी'-तः सूचीः निर्मितवन्तौ। तासां सूचीनां प्रकाशनं 'गायकवाड ओरयनण्टल सीरीज'-क्रमण्यां १९२५ तमवर्षे अभवत्।

'ए काटलॉग ऑफ दि संस्कृत मैन्युस्क्रिप्ट'-नाम्ना सूचिः 'आडियार लाइब्रेरी'-तः प्रकाशिता। क्रमशः प्रथमभागस्य १९२६, द्वितीयभागस्य च प्रकाशनं १९२८ तमवर्षे अभवत्। डॉ. काशीप्रसाद जायसवाल, ए. बनर्जी शास्त्री इत्येतयोः प्रयासैः मिथिला-प्रदेशस्य मातृकाग्रन्थानां सूचिः निर्मिता। तस्याः प्रकाशनं १९२७-१९४० मध्ये 'बिहार तथा उडीसा रिसर्च सोसायटी'-संस्थाद्वारा अभवत्। कोलकाता-विश्वविद्यालयात् १९३० तमवर्षे प्रकाशितस्य 'आसामीज मैन्युस्क्रिप्ट' (२ भागः) इत्यस्य अन्तर्गततया संस्कृतमातृकाग्रन्थानां सूचिः अपि आसीत्। 'ओरियण्टल मैन्युस्क्रिप्ट'-ग्रन्थालयद्वारा १९३६ तः १९४९ मध्ये द्वे सूची प्रकाशिते। पाटन-नगरात् प्राप्तानां मातृकाग्रन्थानां सूचिनिर्माणकार्यं सी. डी. दलाल-महोदयेन आरब्धम्। तत्र जैन-भण्डाराणां ग्रन्थाः आसन्। तस्याः सूचेः निर्माणकार्यं बी. गाँधी-महोदयेन समापितम्। तस्याः सूचेः प्रकाशनं 'गायकवाड ओरियण्टल सीरीज, बडौदा'-तः १९३७ तमवर्षे अभवत्। एच. डी. बेलकर-द्वारा 'रायल एशियाटिक सोसायटी, बंबई'-शाखायाः सङ्ग्रहस्य सूचिः क्रमशः १९२६-१२८, १९३० च तमवर्षे प्रकाशिता। एच. आइ. पोलमैन-द्वारा 'अमेरिक ओरियण्टल सीरीज'-सूचिः द्वादशभागेषु प्रकाशिता। डॉ सी. कुन्हन राजा इत्यस्य निरीक्षणे के. माधव कृष्ण शर्मा इत्येषः वैदिकभागस्य प्रकाशनं १९४२ तमवर्षे, पं. वी. कृष्णामाचार्य इत्येषः व्याकरणभागस्य प्रकाशनं च १९४७ तमवर्षे अकुरुताम्। बिकानेर-ग्रन्थालयस्य मातृकाग्रन्थानानं सूचिः १९४७ तमवर्षे प्रकाशङ्गाता।

एकनविंशस्य शताब्दस्य उत्तरार्द्धं यावत् संस्कृतविषयाणां ये मातृकाग्रन्थाः सम्प्राप्ताः, तेषां सूचयः भारतस्य विभिन्नेषु प्रान्तेषु विद्यामानाः आसन्। तासां सूचीनां सङ्कलनं कृत्वा डॉ. आफ्रेक्ट-महोदयः भागत्रयेषु बृहत्सूचिं प्राकाशयत्। तस्याः सूचेः नाम 'कैटलोगस् कैटलोगरम्' इति। सा बृहत्सूचिः क्रमशः १८९१, १८९६, १९०३ च तमवर्षे लिपजिंग-तः प्रकाशिता।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मातृकाग्रन्थः&oldid=429476" इत्यस्माद् पुनः प्राप्तिः