सामग्री पर जाएँ

वेदानां व्याख्यापद्धतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेदानां व्याख्यापद्धतिः त्रिविधा अस्ति। भारतीयापद्धतिः, पाश्चात्यपद्धतिः, आध्यात्मिकपद्धतिः। भारतीयपाश्चात्ययोः पद्धत्योः मध्ये महान् भेदः दृश्यते।

भारतीयपद्धतिः

[सम्पादयतु]

भाषाविज्ञानपण्डितानां मते आर्यभाषा-सेमेटिकभाषयोश्चेति द्वयोरेव भाषयोर्व्यवहर्त्तारः सभ्यतां संस्कृतिञ्च सृष्टवन्तः। आर्यभाषाऽपि पाश्चात्य-पौस्त्यभेदेन द्विविधा। अस्मिन्नार्यभाषायाः पाश्चात्यप्रभेदे युरोपीयदेशस्य प्राचीना अाघुनिक्यश्च ग्रीक-लैटिन-फ्रेञ्च-जर्मन-आङ्ग्लप्रभृतयो भाषाः समायान्ति। आर्यभाषायाः पौरस्त्यप्रभेदे ईरानी-भाषा संस्कृतभाषा च समागच्छतः। ईरानीभाषा 'जेन्द-अवेस्ता'-नाम्ना व्यवहियते, यत्र पारसीकानां धर्मग्रन्थाः निबद्धाः सन्ति। संस्कृतभाषायां भारतीयानां धर्मग्रन्थाः निबद्धाः।

कालक्रमेणात्यन्तातीतकाले निर्मितस्य कस्याऽपि ग्रन्थस्य आशयस्य अवबोधः तदुत्तरकालिकसन्ततिक्रमेभ्यः अतीवदुरूहो व्यापारो भवति। यदा प्राक्तमत्वेन सह भावानां गाम्भीर्यं भाषायाश्च काठिन्यमपि समायाति तदा तु समस्येयमतीव विषमा भवति। वेदार्थानुशीलनस्य विषये कथनमिदमक्षरशः समुपयुक्तमस्ति। वेदास्तु प्रथमं तावत् स्वयं कस्यापि दूरालोकगतस्याऽतीतकालस्य कृतयस्सन्ति। तदुपरि भाषायाः वैषम्यं विचारधारायाः गाम्भीर्यश्च तेषामुपरि स्वप्रभुत्वं स्थापितम्। फलतः वेदार्थाऽवबोधनं, गवेषणं, मर्मान्वेषणञ्चैका दुबोधप्रहेलिकाऽभवत्। तथाऽप्यस्याः प्रहेलिकायाः अर्थावबोधनस्य उचितोद्योगः प्राचीनकालादेव समायाति। यास्कमहोदयस्य निरुक्ते अस्योद्योगस्य किञ्चिदाभासोऽपि प्राप्यते -

‘षड्भावविकारा भवन्तीति वार्ष्यायणिः। जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति॥' (१।२०॥१)

यास्कस्य कथनानुसारेण प्राचीनऋषयः स्वकीयेन विशिष्टतपोबलेन धर्मस्य साक्षात्कारं कृतवन्तः। किञ्चार्वाचीनाः ऋषयस्तद्वद्धर्मस्य साक्षाद्दर्शनं कर्तुं नाशक्नुवन्। अपरकालिकानामृषीणामीदृशी शक्तिहीनता दृष्ट्वा दयावशेन तैः मन्त्राणामुपदेशः तेभ्यः ग्रन्थतो वाऽर्थत उभयप्रकारेण दत्तः। प्राचीनऋषयस्तु श्रवणं विनैव धर्माणां साक्षाद्दर्शनं कृतवन्तः। अतः धर्मस्य साक्षाद्दर्शनकर्त्तृत्वेन तेषामृषित्वं स्वतः सिद्धमेव आसीत्। किञ्चार्वाचीनाः ऋषयस्तु ग्रन्थरूपेणार्थरूपेण च श्रवणं कृतवन्तस्तत्पश्चात्ते धर्मदर्शने कृतकार्याः अभवन्। अतः श्रवणान्तरदर्शनयोग्यतासम्पादनेन एतेषामृषीणाम् उपयुक्ताभिधा ‘श्रुतर्षि' एवाऽभवत्।

'अवरेभ्योऽवरकालिकेभ्यः शक्तिहीनेभ्यः श्रुतर्षिभ्यः॥ तेषां हि श्रुत्वा तत्पश्चादृषित्वमुपजायते न यथा पूर्वेषां साक्षात्कृद्धर्माणां श्रवणमन्तरेणैव' (दुर्गाचार्यः)।

एते श्रुतर्षय एव लोकहिताय वेदार्थावबोधनस्योपयोगिनः शिक्षा-निरुक्तादि-वेदाङ्गानां रचनां कृतृवन्तः। आधुनिकास्तु दुरूहुतायाः दोषारोपणं कृत्वा वेदार्थानां विस्मरणं न कुर्युः, वेदमूलकाचाराद्धर्माद्वा विमुखाः न भवेयुरिति समुन्नतया भावनया प्रेरिताः भूत्वा प्राचीनाः ऋषिगणाः वेदार्थोपदेशाय सन्ततं जागरूकाः अासन्। यास्कमहोदयस्यैते मानवाः शब्दाः दर्शनीयाः सन्ति -

'साक्षात्कृद्धर्माण ऋषयो बभूवुः॥ तेऽवरेभ्योऽसाक्षात्कृतधर्मेभ्य उपदेशेन मन्त्रान् सम्प्रादुः॥ उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणाय इमं ग्रन्थं समाम्नाषिषुः वेदञ्च वेदाङ्गानि च॥'

वेदानां गम्भीरार्थबोधने प्रथमोद्योगः कः ? इति कठिनः विषयः। आधुनोपलब्धाद् यास्कविरचितनिरुक्तादपि प्राचीनतरः निघण्टुग्रन्थोऽस्ति, तत्र वैदिकशब्दानां विस्तृतव्याख्याऽस्ति। निघण्टुशब्दस्याप्यर्थो भवति ‘शब्दानां सूची' निघण्टुग्रन्थे संहितायाः कठिनाः सन्दिग्धार्थशब्दाश्चैकत्र समाहरणं कृत्वा तेषामर्थस्य तत्र सूचना उल्लिखिता। प्रातिशाख्यानामपि रचना तत्कालिका किं वा तत्पूर्ववर्तिनी नैवासीत्। ग्रन्थेष्वेतेषु वैदिकभाषायाः विचित्रपदानां, स्वराणां, सन्धिपदानाञ्चैव विवेचनमस्ति। साक्षादूपेण पदार्थपर्यालोचनस्यास्मिन् ग्रन्थे नितान्तः अभावः एवाऽस्ति। पुराऽनेकानां निरुक्तग्रन्थानां सत्ताऽऽसीत्। येषां सूचनाऽवान्तरग्रन्थेषु यत्र तत्रोद्धरणरूपेण समुपलब्धा भवन्ति, तदपि वेदार्थविवेचनस्य विस्तृतयोजनायाः योग्यग्रन्थः यास्कविरचितनिरुक्तम् एवाऽस्ति। ग्रन्थरत्नस्यास्य परीक्षणेनानेकविधानां ज्ञातव्यविषयाणां पर्याप्तबोधो भवत्यनायासेनेति। ग्रन्थेऽस्मिन् यत्र तत्र यास्कमहोदयेन आग्रायण-औपमन्यवकात्थक्य-शाकटायन-शाकपूणि-शाकल्यप्रभृतीनां बहूनां निरुक्ताचार्याणां तथैतिहासिकयाज्ञिक-नैदानप्रभृति-व्याख्याकतृृणां क्रमशः व्यक्तिगतानां सामूहिकानाञ्च सम्मत्या उल्लेखः समादरेण सह कृतः। अनेन ज्ञातो भवति यद्वेदार्थानुशीलनस्य परम्पराऽतीविप्राचीनकालादेव समायाति इति।

यास्कमहोदयेन स्वनिरुक्ते (१।१५) कस्यचित् कौत्सनामकस्य आचार्यमतस्योल्लेखः कृतः। कौत्सनामकः कोऽप्याचार्य अासीत् वा इति बोधो भवति। वस्तुतः कौत्सोऽयं कोऽप्यैतिहासिकः पुरुषः अासीदथवा केवलं पूर्वपक्षनिमित्तेन स्थापितः कोऽपि यास्ककल्पनाप्रसूतो जनः।

कौत्समहोदयस्य सम्मतिरियमस्ति यन्मन्त्राः निरर्थकाः भवन्ति -

‘अनर्थका हि मन्त्राः। तदेतेन उपेक्षितव्यम्॥ यदि मन्त्रार्थप्रत्याय अनर्थं भवति कौत्सः' (नि० १॥५)।।

कथनस्यास्य सम्पुट्यर्थं तत्रानेकविधाः युक्तयः प्रदशितास्तेन। कौत्समतमेव परवर्तिनः चार्वाक्-बौद्ध-जैन-प्रभृतिवेदनिन्दकाः स्वीकृतवन्तः।

कौत्समहोदयस्य पूर्वपक्षः

[सम्पादयतु]

१. मन्त्राणां पदं नियतमस्ति, तथैव शब्दक्रमोऽपि नियतः एवाऽस्ति। सामवेदस्यायं प्रथमो मन्त्रः - ‘अग्न अायाहि वीतये'। एतानि पदानि समानार्थकशब्देषु परिवर्तनं कृत्वा — 'वह्नेः अागच्छ पानाय' इत्यपि कथितुं न शक्यते। अत्रानुपूर्वीयक्रमोऽपि नियतमेवाऽस्ति। पूर्वोक्तमन्त्रे व्यवस्थापितं –‘अग्न आयाहि' इत्यत्र पदक्रमं परिवर्त्य व्यतिक्रमेण — ‘अायाह्यग्ने' इत्यपि कथितुं न शक्यते। एतयोः नियतवाचोयुक्त्याः नियतानुपूर्व्याश्च कोऽर्थः ? ननु मन्त्राः यदि सार्थकाः भवेयुस्तर्हि, तेषां पदानां पदक्रमस्याऽपि परिवर्तनं सार्थकवाक्यानां शैली इव सर्वथा न्याय्यं भवेत्। तद्यथा — ‘नियतवाचोयुक्तयः, नियतानुपूव्याः भवन्ति।।' []

२. अथ ब्राह्मणवाक्यैः मन्त्राणां विनियोगः विशिष्टानुष्ठानेषु भवति। यथा - ‘उरूप्रथस्व' [] अस्य मन्त्रस्य विनियोगः प्रथनकर्मणि, विस्तारकार्ये च शतपथब्राह्मणं करोति। यदि मन्त्रेष्वर्थद्योतनस्य क्षमता भवति तर्हि स्वतःसिद्धार्थस्य मन्त्रस्य ब्राह्मणग्रन्थेन विनियोगदर्शनस्यापेक्षा कथं भवति ? तद्यथा निरुक्ते — “अथापि ब्राह्मणेन रूपसम्पन्नाः विधीयन्ते॥ ‘उरूप्रथस्व' इति प्रथयति॥ ‘प्रोहाणि' इति प्रोहति''।[]

३. मन्त्राणामर्थोऽनुपपन्नो भवति, अर्थादुपपत्त्या युक्त्या वा सिद्धोऽयं भवितुं न शक्यते। यजमानो वदति - ‘औषधे ! त्रायस्व एनम्' अर्थात् हे औषधे ! त्वमस्य वृक्षस्य रक्षां कुरु। ओषधिस्तु स्वयमेव निर्जीवा भवति। या स्वात्मानमपि रक्षितुमसमर्थाऽस्ति, सा वृक्षस्य रक्षां कर्तुं कथं शक्नोति? यजमानः स्वयं परशुना वृक्षस्योपरि प्रहारं करोति कथयति च — हे परशु ! त्वमेनं वृक्षं मा छिन्धि - ‘अथापि अनुपपन्नार्थाः भवन्ति॥ ‘ओोषधे त्रायस्व एनम्। स्वधिते मा एनं हिंसीः, इत्याह हिंसन्'[] यजमानः स्वयं यस्योपरि प्रहारं करोति तस्यैव रक्षार्थं प्रार्थनामपि करोति। अतोऽनुपपन्नार्थाः मन्त्राः भवन्ति।

४. वैदिकमन्त्रेषु परस्परं विरोधोऽपि दुग्गोचरो भवति। रुद्रविषये द्रष्टव्योऽयं मन्त्रः - 'एक एव रुद्रोऽवतस्थे न द्वितीयः'।[] रुद्रः एक एवाऽस्ति नापरो वेति। अत्रैव द्वितीयो मन्त्रः तस्याऽनेकतायारुद्घोषं करोति'। यथा - 'असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम्'।[] अर्थादस्यां धरायां संख्यातीताः रुद्राः सन्ति। अनेन प्रकारेण एकताऽनेकतयोः आयासे रुद्रस्य विषये कस्याऽपि तथ्यस्य निर्णयो भवितुं शक्यते ? (अथापि विप्रतिषिद्धार्थाः मन्त्राः भवन्ति)

५. वैदिकमन्त्रेष्वर्थज्ञपुरुषाणां कार्यविशेषस्य अनुष्ठानाय सम्प्रेषणं भवति। यथाहोतारं कथयति - ‘अग्नये समिध्यमानाय अनुब्रूहि'।[] अर्थात् प्रज्ज्वलिताग्नयेऽनु ब्रूहि। होता स्वकर्त्तव्यक्रियया स्वयं परिचितो भवत्येव एवं सति तदर्थे सम्प्रेषणस्य इयं मुक्तिः निरर्थकेति।

६. मन्त्रेष्वेक एव पदार्थोऽनेकरूपेण अभिव्यक्तोऽस्ति। यथा - अदितिरेव समस्तजगदस्ति, अदितिरेवाऽकाशोऽस्ति, अदितिरेवान्तरिक्षोऽस्ति।[] निरुक्ते यथा - अथाऽपि अहुः - अदितिः सर्वमिति - ‘अदितिद्यौरदितिरन्तरिक्षम्' इति (१॥५॥१)। शिशवोऽपि जानन्ति यदाकाशेन सह पृथिव्याः सम्मेलनमसम्भवमस्ति, तथापि अदित्या सह एतयोरुभयोः समानताप्रदर्शनं कियतांशेनोपयुक्तं भवति?

७. मन्त्राणां पदस्याप्यर्थः स्पष्टरूपेण प्रतीतो न भवति - अविस्पष्टार्थाः मन्त्राः॥ यथा - अम्यक् (ऋ० १॥१६९॥३), यावृश्मिन् (ऋ० ५॥४४l८), जारयायि (ऋ० ६॥१२॥४), काणुका (ऋ० ८॥७७॥४), जर्भरी, तुफरी (ऋ० १०।१०६।।६) इत्यादिपदानामर्थः स्पष्टरूपेण प्रतीतो न भवति।

पूर्वपक्षोऽयं कौत्समहोदयस्य।

यास्काचार्यस्य पूर्वपक्षखण्डनम्

[सम्पादयतु]

यास्केन स्वतर्कैः पूर्वपक्षस्य खण्डनं कृतम्। अस्मिन्विषये यास्कस्य प्रमुखसिद्धान्तोऽस्ति – सर्वे शब्दाः अर्थवन्तः भवन्ति। लोकभाषायामपि सर्वत्रायं नियमोऽस्ति यद्, वैदिकमन्त्राणामपि शब्दाः लोकभाषाशब्दान्न भिन्ना भवन्ति। सुतरां लौकिकशब्दवदेव वैदिकशब्दानामप्यर्थों भवितव्यम् (अर्थवन्तः शब्दसामान्यात्)। तदनन्तरं कौत्सकृतपूर्वपक्षस्य खण्डनं कृतं यास्कमहोदयेनेति। यास्कमहोदयस्य सिद्धान्तपक्षः एवम् अस्ति -

१. लौकिक भाषायामपि पदानां नियतप्रयोगस्तथा पदक्रमस्य नियतरूपः दृग्गोचरो भवत्येव। यथा - ‘इन्द्राग्नी' एवं ‘पितापुत्रौ'। एतयोः प्रयोगयोरपि न तु क्रमभङ्गं कर्तुं शक्यते न च शब्दपरिवर्त्तनमेव भवितुमर्हति। एवं नियमाभावेऽपि एतेषां शब्दानां सार्थकता स्वतःसिद्धा एवेति।

२. ब्राह्मणग्रन्थेषु मन्त्राणां विनियोगविधानमुदितानुवादमात्रमेवाऽस्ति, अर्थात् मन्त्रेषु यस्यार्थस्य प्रतिपादनमभीष्टं भवति, तस्यैवार्थस्यानुवादो ब्राह्मणग्रन्थेषु वर्त्तते।

३. वैदिकमन्त्राणाम् अर्थोऽनुपपन्नो नास्ति। पशुप्रहारकाले यस्याः अहिंसायाः चर्चा वर्त्तते, साऽपि वेदविहिता एवेति। परशुना वृक्षच्छेदनमापाततः हिंसाद्योतकमवश्यमस्ति, किञ्च वेदेनैव ज्ञातो भवति यत्परशुच्छेदनं हिंसाद्योतकन्न भवति। हिंसायाः अहिंसायाश्च सूक्ष्मविवेचनस्यापि ज्ञानं वेदेनैव भवति। यस्मिन् कर्मणि पुरुषः वेदेन नियुक्तो भवति, तत्कर्म अहिंसात्मको भवति तथा यस्मिन् कर्मणि वेदेन पुरुषो निषिद्धो भवति तदेव हिंसात्मको भवति। औषधि-पशु-मृग-वनस्पतिप्रभृतीनां निषिद्धो भवति। तेन ते परमोत्कर्षं प्राप्नुवन्ति। अतः यज्ञे एतेषां विधानमाभ्युदयिकं भवति, न तु हिंसात्मकमिति। अनेन प्रकारेण कस्यापि वृक्षस्य यज्ञार्थं विधिपूर्वकं शाखाच्छेदनमनुग्रहमेवाऽस्ति न तु हिंसेति। इयमहिंसा इयं हिंसा इत्यागमादेतत्, प्रतीयते। प्रतिविशिष्टश्चायमेव वैदिक आम्नाय आगमः। एतत्पूर्वकत्वात् अन्येषामागमनाम्। अनुगृह्णाति यज्ञविनियोगार्थविधानतः छिन्दन्।[]

४. मन्त्रेष्वेवं रुद्रस्यकत्वमनेकत्वस्योल्लेखेऽपि पारस्परिकविरोधो नास्ति, यतो हि देवा महिमाशालिनो भवन्ति। एकत्वेऽपि तेऽनेकविभूतिषु वर्त्तमानाः भवन्ति। इन्द्रमप्यजातशत्रुस्तथा शत्रु-विजेताकथने न कोऽपि दोषो भवति। वर्णनमिदं रूपकाश्रितकल्पनायामुपरि अवलम्बितमस्ति। लोकेऽपि शत्रुसम्पन्नत्वेऽपि राजा शत्रुहीनः कथ्यते।

५. यज्ञानुष्ठाने परिचितमपि प्रदत्तसम्प्रेषणाव्यर्थं वक्तुं न शक्यते। यतो विशिष्टातिथेः समागमनोपरि मधुपर्कदानं सर्वविदितमस्ति; तथाऽपि लोकव्यवहारेऽपि विधिज्ञपुरुषात् वारत्रयं मधुपर्कस्य याचना भवत्येव। तद्वदेव ब्राह्मणग्रन्थस्याऽपि सम्प्रेषणा नास्ति निरर्थकेति।

६. अदितेः सर्वात्मकत्वेन कथनमपि तस्य महत्ता प्रदर्शने एव निहिताऽस्ति। भक्तिभावेन प्रेरितो भूत्वा कस्यचित् भक्तस्यैव कथनमिदमस्ति।

७. मन्त्राणामर्थः यदि स्पष्टरूपेण ज्ञातो न भवति, तदा तस्य ज्ञानार्थं यत्नः कर्त्तव्यः। निरुक्तग्रन्थेषु शब्दानां धातुभिः सह सम्बन्धं स्थापयित्वाऽर्थविधानस्य समुचिता व्यवस्था कृतेति। स्वदोषं परशिरस्य अक्षेपणं कियतांशेन युक्तितरं भवति। ‘नैष स्थाणोः अपराधः यदेनम् अन्धो न पश्यति। पुरुषापराधः स भवति। यथा जानपदीषु विद्यातः पुरुषविशेषो भवति। पारोवर्यवित्सु तु खलु वेदितृषु भूयो विद्यः प्रशस्यो भवति।[१०] अनेन रूपेणार्थविवेचकस्य ग्रन्थस्याभ्यासः कर्त्तव्यः। उपयोगिनां ग्रन्थानामभ्यासं विना मन्त्राणामुपरि अनर्थकस्य दोषारोपणं नोचितमिति। यथा - ‘अम्यक'-शब्दस्यार्थो भवति ‘प्राप्नोति', 'यादृश्मिन'-शब्दस्यार्थों भवति ‘यादृशः', `'जर्भरी' इत्यस्यार्थो भवति ‘भक्तारौ'। तदैव ‘तुफंरी'-शब्दस्यार्थो भवति ‘हन्तारौ'। अयं प्रसङ्गः मीमांसासूत्रेषु द्रष्टव्यः।[११]

पाश्चात्यपद्धतिः

[सम्पादयतु]

वेदार्थानुसन्धानविषयेऽद्यत्वे प्रधानतया त्रीणि मतानि सन्ति, येषु प्रथमं पाश्चात्यवैदिकार्थानुसन्धित्सुनां मतमस्ति। अन्ये च द्वे मते भारतीयविदुषामेव स्तः। पाश्चात्यपण्डितानां मतानुसारेण वेदार्थानुशीलनाय तुलनात्मकभाषाशास्त्रस्य ह्यैतिहासिकग्रन्थस्य चाध्ययनस्य आवश्यकता तु अस्त्येव। भारतेतरदेशानां आचारव्यवहाराणां अध्ययनस्य अप्यपेक्षा तद्वदेवास्ति। यतः एतयोरुभयोः - पारस्परिकतुलनैव वैदिकधर्मस्य मूलस्वरूपस्य परिचयं दातुं शक्नोति। अकः इयं पद्धतिः (Historical method) इति नाम्ना ख्याताऽस्ति। भारतीयपरम्पराम्प्रति वैदेशिकविद्वांसः उदासीना एव सन्ति। अस्मिन् विषये एतेषां विदुषां त्वेतत्पर्यन्तं कथनमस्ति यत् भारतीयपरम्परायाः पक्षधरत्वेन तेषां वेदस्य मूलार्थपर्यन्तमभिगमनमेव न भवति। अतः ब्राह्मणटीकाकत्तृृणामुपरि अन्धश्रद्धायाराक्षेपः कुर्वन्ति आंग्लविद्वांसः। राथप्रभृतिपाश्चात्यालोचकाः भारतीयपण्डितान् वेदार्थानुसन्धाने सर्वथा अयोग्या एव मन्यन्ते। मन्यन्ते च तान् पाश्चात्यपण्डितान्, योग्याः ये भारतीयपरम्परातः पूर्णतोऽनभिज्ञे सत्यपि भाषाशास्त्रप्रभृतीनां विषयाणां ज्ञातारः सन्ति।

अस्यां पद्धतौ सन्ति केचिद् गुणाः किन्तु बहुविधाः अवगुणाः अपि सन्ति। वेदानामाविर्भावः अस्मिन्नार्यावर्त्ते अभवत्। वेदेषु निहितबीजकानि दृष्ट्वैव कालान्तरे स्मृत्यादिग्रन्थानां प्रणयनमभवत्। वेदाः भारतीयानां स्वकीया समृद्धिरस्ति। ऋषयः, अात्मज्ञानिनो विद्वांसः, तत्त्वद्रष्टारो महर्षयश्च वेदानां दर्शनं येन रूपेण कृतवन्तस्तेनैव रूपेण तेषामनुशीलनमपि सर्वेषां कर्त्तव्यमस्ति। तेनैव रूपेण तेषां गूढार्थावबोधनमेव वेदानामर्थस्य वास्तविकमनुशीलनं कथितुं शक्यते। वेदाद्भारतीयतां निस्सार्य भारतेतरधर्मेण विज्ञानेन च साहाय्यं गृहीत्वा तदर्थावबोधनस्य दुःसाहसं मूले कुठाराघात इव भवति नान्यत्। अनेन प्रकारेण वेदानामर्थं कृत्वा वैदिकाचार्याणां विषयेऽनर्गलप्रलापं कथमपि समुचितं न भवेत्। उदाहरणार्थं वैदिकयुगेऽस्मिन्देशे लिङ्गपूजाऽसीन्न वेति विषये एते पाश्चात्यपण्डिताः येन शब्दबलेन स्वकीयं सिद्धान्तं स्थापितवन्तस्तत्तु महदुपहसनीयमेव। ‘शिश्नदेवः' इति पदस्य प्रयोगः ऋग्वेदे (७॥२१॥५, १०॥९९॥३) द्वयोः स्थानयोः प्राप्यते। पाश्चात्यविद्वांसः शब्दस्यास्योत्तरभागमभिधाप्रधानं मत्वा स्वसिद्धान्तं संस्थाप्य कथयन्ति यत्, वैदिककालेऽप्यस्मिन् देशे लिङ्गपूजायाः प्रचलनमासीत्। किञ्चास्य शब्दस्य वास्तविकार्थोऽयं नास्ति। वस्तुतः देवशब्दः अत्र आलङ्कारिकार्थे ‘देव इव' इति व्यवह्रितोऽभवत्। वेदेऽन्यत्र प्रयुक्ताः पितृदेव-मातृदेव-आचार्यदेवप्रभृतयः शब्दास्तथैव सन्ति। अत्र देवशब्दस्यार्थः ‘पूजकः' इत्येव भवति नान्यदिति। तैत्तिरीयोपनिषदि (१।१) प्रयुक्तानाम् — ‘मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव' इत्यादीनां शब्दानामर्थो भवति -- मातरं देवता इव पूजय, पितरं देवता इव पूजय, आचार्यं देवता इव पूजय। एतेषां शब्दानां व्याख्यानावसरे आचार्यशङ्करो वदति - “देवतावत् उपास्याः एते' इत्यर्थः। श्रद्धादेवशब्दोऽपि शिश्नदेवाद्भिन्नो नास्ति। अतः उभयोः स्थलयोः 'देव'-शब्दस्य प्रयोगः आलङ्कारितक एव भवितव्यम्। अस्यां स्थितौ शिश्नदेवस्याप्यर्थो भवति - शिश्नः (लिङ्गः) देवता अस्ति अस्येति, अर्थात् कामक्रीडायां निरतः पुरुषः। अतः यास्केन सायणे चास्य शब्दस्यार्थः 'अब्रह्मचर्य' एवाऽस्ति। अतोऽत्र भारतीयपण्डिताः संस्कृतभाषायाः व्यवहारानुकूलः परम्परातार्थः 'अब्रह्मचर्यः' एव मन्यते। किञ्च पाश्चात्यविद्वांसोऽत्र प्रयोगमूलकस्य परम्परागतार्थस्योपेक्षां कृत्वा निर्मूलाऽप्रामाणिकसिद्धान्तस्योद्भावनां कृतवन्तः। अनेनैव प्रकारेण पारस्करगृह्यसूत्रस्य 'कूर्मपित्तमङ्के निधाय जपति' वाक्येऽस्मिन् प्रयुक्तस्य कूर्मपित्त-शब्दस्य परम्परागतार्थस्य जलपूर्णघटस्य उपहासं कृत्वा जर्मनविदुषा अोल्डनवर्ग-महोदयेन ‘कच्छपपित्तं क्रोडे निधाय’ इत्यर्थः कृतः।

वैदिकमन्त्रेषु पाठभेदस्य लेशमात्रमपि सम्भावना नास्ति। यतो हि पदपाठ-क्रमपाठ-जटापाठ-घनपाठप्रभृतिपाठानां कल्पनां कृत्वा मन्त्राणां प्रत्येकपदस्य स्वरूपं स्थापयन्ति भारतीयविद्वांसस्तत्र वर्णभेदस्य का कथाऽस्ति ? सूक्ष्मस्वरेऽपि परिवर्त्तनस्य तत्र स्थानं नास्ति। अस्यां स्थितौ पाठभेदस्य दुरारोहकल्पना नितान्तानुपयुक्ताः भवन्ति।

वेदानां परमोपादेयत्वाद् अतिशयतममहत्त्वशालित्वञ्च महर्षयस्तान् रक्षितुमपि पूर्णमुपायञ्चकुः। वेदा एतावद्दीर्घकालान्तरमपि लोके समवाप्ताः सन्तीत्यत्र कारणमेष महर्षिकृतः प्रयत्न एवाऽस्ति। महर्षयो हि वेदरक्षार्थमष्टविकृतीनां व्यवस्थां विदधुः। ताः विकृतयः अधःस्थितेन श्लोकेन अभिव्यतीक्रियन्ते

'जटा माला शिखा रेखा ध्वजो दण्डो रथो घनः।

अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महषिभिः॥'

प्रक्षेपच्युत्यवसादादिविकारेभ्यः परित्रातुं श्रुतिं पद-क्रम-घन-जटादिपाठाः अाविष्कृताः। एषां सद्भावेन न श्रुतिष्वद्यपर्यन्तमणुमात्रमपि दोषलेशः प्रविष्टो भवितुमशकत्। प्रातिशाख्यग्रन्था अपि वेदपाठस्य रक्षणार्थं विरचिताः अभूवन्। तथापि पाश्चात्य-पण्डिताः स्वकल्पितार्थसिद्धये बहुविधविचित्राश्रुतपूर्वकाविचारितरमणीयपाठानां स्वेच्छानुकूलोद्भावनाः कृतवन्तः। 'वैदिकमीटराख्य'स्य विख्यातग्रन्थस्य रचयिता डा० अनल्डिमहोदयेन स्वग्रन्थे लिखितम् - वैदिकसंहितायां यत्र यत्र ‘पावक' इति शब्दस्य प्रयोगो विद्यते, तत्र तत्र वैदिकच्छन्दसंरक्षणदृष्टव्या ‘पवाकः’ इति पाठो भवितव्यम्। किञ्च प्राचीनवैदिकमन्त्रोच्चारणस्य यथार्थस्वरूपवेत्तारः अस्माकं भारतीयवैदिकाः अस्मात् काल्पनिकशब्दपरिवर्तनाद् अनभिज्ञा एव सन्ति। कस्यचित्काल्पनिकार्थस्य सिद्धये परिवर्तनमिदमशोभनीयमेवेति।

आध्यात्मिकपद्धतिः

[सम्पादयतु]

स्वामीदयानन्दसरस्वतीमहोदयेन कतिपयानां विशिष्टानां वार्तानां स्वभाष्ये चर्चा कृताऽस्ति। वेदानामनादित्वस्य सिद्धान्तं प्रतिपादितमनेन विदुषा स्वभाष्ये। अस्य महापुरुषस्य विचारे वेदेषु लौकिकेतिहासस्य सर्वथाऽभावोऽस्ति। वेदेषु प्रयुक्ताः सर्वे शब्दाः यौगिकाः योगारूढाश्च सन्ति न रूढा इति। स्वामिनोऽर्थनिरूपणपद्धत्याः सिद्धान्तस्याधारशिला इयमेवाऽस्ति। इन्द्राग्निवरुणादयः ये देवतावाचकाः शब्दाः सन्ति, ते सर्वे यौगिकत्वेनैकस्यैव परमात्मनः पर्यायवाचकाः वर्त्तन्ते। स्वामिमहोदयस्तु एवंविधायाः आाध्यात्मिक्याः शैल्याः स्वीकर्त्ताऽऽसीत्। अंशतः स्वामिनोऽयं सिद्धान्तः समुचित एव प्रतिभाति। नियुक्तकर्ता तु स्पष्टशब्देषु अकथयत् - यावन्तो देवाः सन्ति, ते सर्वे एक एव महतः देवस्य परमेश्वरस्य विशिष्टशक्त्याः प्रतीकस्वरूपाः सन्ति। ‘महाभाग्यात् देवतायाः एक आत्मा बहुधा स्तूयते॥ एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति'।[१२] ऋग्वेदस्य तु स्पष्टप्रतिपादनमस्ति - 'एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः'।[१३] अतोऽग्निः ऐश्वर्यशालिनः परमेश्वरस्यैव रूपमस्तीति स्वीकरणन्तु सर्वथोचितमेव। अत्र न कोऽपि विरोधः केषांचिदपि प्रतीयते, किश्च यदाऽस्यां शैल्याम् अग्न्यादिदेवानां प्रत्याख्यानं भवति, तदा तु विरोधस्याप्युदयो भवत्येव।

वेदेषु देवतानां स्थानं महत्त्वमावहते। मानवः प्रत्यहं प्रकृतिदेव्याः नानालीलाः पश्यति। वैदिककालस्य महर्षयः तस्यास्तत्तल्लीलाः अवधारयितुं विभिन्ना देवताः अकल्पयन्। महर्षीणां विश्वासोऽयं यद् देवतानुकम्पयैव सर्वाणि कार्याणि सम्पद्यन्ते। जगति घट्यमानानां सर्वासामपि घटनानां कारणभूताः देवता एव। यास्को वदति यद्देवतासु काश्चन पृथिवीस्थानीयाः, काश्चन अन्तरिक्षस्थानीयाः, काश्चन द्युस्थानीयाः सन्ति। पृथिवीस्थानीयदेवतासु अग्निदेवता, अन्तरिक्षस्थानीयासु इन्द्रदेवता, द्युस्थानीयासु सूर्यविष्णुप्रभूतिदेवताः सन्ति महीयस्यः। ऋग्वेदे हि देवताः प्राणशक्तिशालित्वात् ‘असुर' इति प्रोक्ताः। प्रतीच्यानां प्रधीनां देवताः उद्दिश्य विचारोऽयं यद्, भौतिकघटनोपपत्त्यै प्राकृतिकानि दृश्यानि देवतात्वेन कल्पितानि। ऋग्वेदस्य आदिमे युगे बहुदेवतानां सत्ता अभ्युपेता बभूव। गच्छता कालेन सति मानसिके विकासे देवतानां तासामेक एवाधिपतिः कल्पितोऽभूत्। पुरुषसूक्तं सर्वेश्वरवादं स्पष्टतः समुपस्थापयत् दृश्यते। परं पश्चिमीयानामेष देवताविषयको विचारो नावितथः। देवतावादी न भौतिक एतावान्। यास्केन निरुक्ते दैवतकाण्डे देवतास्वरूपविवेचनं हि अतिशयं विशदतयाऽनुष्ठितम्। जगतो मूले एकैव महत्ताशालिनी महाशक्तिः शोभते। सा निरतिशयैश्वर्यशालिनीत्वात् ‘ईश्वर' इति गीयते। सैव शक्तिर्बहुभिः प्रकारैः स्तुतेति। ऐतरेयारण्यकञ्च 'एतं हेव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाः' इत्येतेन वचनेनोक्तमेव विचारं परिपोषयति। देवताः प्रायेण त्रीणि रूपाणि बिभ्रति-अाधिभौतिकम्, अाधिदैविकम्, अाध्यात्मिकश्च। इन्द्रियगम्यं रूपमाधिभौतिकं भवति, अाधिदैविकमाध्यात्मिकञ्च स्तः इन्द्रियागम्ये। 'विष्णोर्नु कं वीर्याणि'। ‘प्र विष्णवे शूषमेतु'। 'मन्यगिरिरिक्षत उरुगयाय वृष्णे...' इत्यादिमन्त्रैः वेदो विष्णुदेवतायाः उत्तानि त्रीणि अपि रूपाणि प्रदर्शयति।

मानवाः देवतानां तां तां शक्तिं साध्वभिज्ञाय तद्द्वारेणात्मानम् उपकुर्युः इत्येतदर्थं श्रुतिमातरस्तासां रूपाण्यस्मत्पुरः समुपस्थापयन्ति। मन्त्रैर्हि यदा देवतानां न केवलमेकमपि तु एकस्मादधिकानि रूपाणि उद्भाविततां नीतानि वीक्ष्यन्ते, तदा प्रतीच्यानां तस्मिन् वचसि कथं विश्वासो विहितो भवेत्, यत्र देवताः भौतिकदृश्यानामधिष्ठातृत्वेन प्रतीकत्वेन वा कल्प्यन्ते ? वेदवर्णितेषु प्रमुखेषु विषयेषु देवतास्तुतिरप्येकतमः प्रमुखो विषयः।

अनेन विचारेण अग्न्यादिशब्दाः न केवलं परमपदपरमेश्वरस्यैव वाचकाः, अपि तु तत्तद्विशिष्टदेवतापदवाचकाः सन्ति। अग्निशब्दोऽत्र भौतिकाग्निपदस्य बोधको भवति; यस्याग्नेः कृपयाऽस्य चराचरस्य सकलव्यवहाराः सिद्धयन्ति। शब्दोऽयं तस्य देवस्याऽपि सूचकोऽस्ति, योऽस्य भौतिकाग्नेरप्यधिष्ठाताऽस्ति। सहैवाऽसौ जगतोऽस्य नियामकस्य परमात्मनोऽर्थमपि प्रकटयति। अग्निदेवस्यैतानि त्रीणि रूपाण्यपि समुचितान्येव। अग्निमन्त्रस्य सूक्ष्मपर्यालोचनेन सिद्धो भवति यदयमग्निमन्त्रः उपरि वर्णिताग्निदेवस्य त्रीण्यपि रूपाणि समभावेन लक्षयति। अतोऽग्निदेवस्य पूर्ववर्णितं रूपद्वयं समुपेक्ष्याग्निपदं परमपदवाचकमेवास्तीति कथनं प्राचीनपरम्परायाः सर्वथा विरुद्ध एवाऽस्तीति। अनेनैव कारणेनास्याः शैल्याः सर्वथानुसारणं सर्वमान्यो न भवेदिति।

स्वामी जीवमहोदयः ब्राह्मणग्रन्थान् संहिताग्रन्थमिवानादिः प्रामाणिकाश्च नामन्यत्। श्रुतेरन्तर्गते ब्राह्मणग्रन्थानां गणना तस्याभीप्सितो नास्ति। तर्हि संहितायाः स्वरूपदृष्टया स्वामिनः सिद्धान्तोऽयमयथार्थ एवाऽस्ति। तैत्तिरीयसंहितायां मन्त्रैः सह ब्राह्मणांशस्यापि गद्यात्मकस्वरूपः समुपलब्धो भवति। एवं सति तैत्तिरीयसंहितायाः भागमेकं श्रुतिरपरभागञ्च अश्रुतिरेवंविधकथनं कीदृग्भवति ? स्वामिनोऽनुयायिनां वैदिकपण्डितानां सम्मतौ वेदेष्वाधुनिकभौतिकविज्ञानस्य सर्वेषामाविष्कृतानां पदार्थानां सत्ता स्वीकृताऽस्ति। तर्हि किं वेदस्येयमेव महिमा वर्त्तते यदेतेषु वेदेषु विज्ञानाविष्कृतसकलवस्तूनां वर्णनं समुपलब्धो भवति ? वेदास्त्वाध्यात्मिकज्ञानस्य निधय एव सन्ति। भौतिकविज्ञानाविष्कृतपदार्थानां वर्णनं नास्ति तेषां प्रयोजनम्। सत्येवं यौगिकप्रक्रियानुसारेणैतेषां भौतिकविज्ञानाविष्कृतपदार्थानां वेदेष्वस्तित्वस्वीकरणं नोपयुक्तं प्रतिभाति। अतोऽस्य स्वामिनः पद्धतिरियं सवांशतः स्वीकार्या भवितुं नार्हतीति।

वैदिकमन्त्राणामर्थः नितान्तः गूढोऽस्ति; ऋषिप्रदर्शितमार्गानुसारेण आर्षदृष्ट्या चैव मन्त्रार्थः अवबोधितव्यः। मन्त्राणां शब्देषु सत्यपि व्याकरणजन्यसरलता, तेषामभिधेयार्थस्यान्वेषणं नितान्तं दुरूहमस्ति। गूढार्थप्रतीत्यर्थमस्य मन्त्रस्य रहस्यवादमिदं द्रष्टव्यम् —

'चवारि श्रुङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य।

त्रिधा बद्धो वृषभो रोरवीति महादेवो मर्त्याम् आविवेश।।[१४]

अस्य मन्त्रस्य सामान्योऽर्थः - अस्य चत्वारि शृङ्गानि, त्रीणि पदानि, शिरसी, सप्त हस्ताश्च सन्ति। प्रकारत्रयेण बद्धोऽयं वृषभस्तारस्वरेण कोलाहलं करोति। महादेवो मर्त्यलोके प्रवेशमलभत्। किञ्चास्त्यत्र जिज्ञासाविचित्रवेषधारकः कोऽयं महादेववृषभः ? यास्केनास्य मन्त्रार्थस्य रहस्योद्घाटनं कृतम् - केषाञ्चिन्मते महादेववृषभोऽयं यज्ञोऽस्ति। चत्वारो वेदाऽस्य चत्वारि शृङ्गानि सन्ति, त्रीणि पदानि तु त्रिकालिकसवनकर्माण्येवाऽस्ति, द्वे शिरसी तु प्रायणीय-उदयनीय-नाम्नी द्वे हविषी स्तः। सप्तहस्तास्तु सप्तछन्दांस्येव सन्ति, यज्ञोऽयं मन्त्र-ब्राह्मण-कल्पैस्त्रिधा बद्धोऽस्ति। अनेन प्रकारेण यज्ञरूपेण महादेवो यजनार्थं मरणधर्मिषु प्रविष्टोऽभवत्। अन्ये तु महादेववृषभोऽयं सूर्योऽस्ति, यस्य चत्वारो दिश एव चत्वारि श्रृङ्गाणि सन्ति, त्रयो वेदाः पादत्रयमस्ति अहोरात्रश्च द्वे शिरसी स्तः, सप्तकिरणानि च सन्ति सप्तहस्ताः। सूर्यस्तु पृथिव्याकाशान्तरिक्षैः सम्बद्धोऽस्ति, किं वा ग्रीष्म-वर्षा-शिशिर-ऋतूनामुत्पादकोऽयमस्ति सूर्यः, अतः असौ अस्मिन्मन्त्रे ‘त्रिधा बद्धः' इति कथ्यते।[१५] पतञ्जलिना पस्पशाह्निके अस्य मन्त्रस्य शाब्दिकव्याख्या समुपस्थापिता। तन्मते तु महादेवोऽयं शब्दोऽस्ति, यतोऽस्य चत्वारि श्रुङ्गाणि चतुविधशब्दाः (नाम-आख्यात-उपसर्गनिपाताः) सन्ति, त्रीणि पदान्यस्य भूत-वर्त्तमान-भविष्यत्त्रिकालमेवाऽस्ति, द्विविधा भाषा नित्या कार्या चेति द्वे शिरसी सप्तहस्तास्तु प्रथमादि सप्तविभक्तयस्सन्ति। शब्दस्योच्चारणन्तु हृत्कण्ठमुखत्रयमाध्यमेन भवति, अतोऽयं शब्दस्त्रिधा बद्धोऽस्ति। शब्दगतार्थस्य वृष्टिकरणेन शब्दोऽयं वृषभपदवाच्यो भवति। राजशेखरेणास्य मन्त्रस्य व्याख्या स्वकीयकाव्यमीमांसायां साहित्यशास्त्रदृष्ट्यैव कृतेति। सायणभाष्ये एतदतिरिक्तार्थस्यैव वर्णनमस्ति। उपरि वर्णितेष्वर्थेषु प्रत्येकार्थः परम्परित एवाऽस्ति, अतः सर्वे तेऽर्थाः स्व-स्वदृष्टया समादरणीयाः माननीयाश्च सन्ति। मन्त्राणां गूढार्थस्य एषः एव महिमा भवति। तेषां पवित्रमन्त्राणामर्थः विविधरूपेण कर्तुं शक्यते। यास्केनास्मिन्प्रसङ्गे षडाधिकमतानां चर्चा कृतेति। अस्यां चर्चायामैतिहासिक-वैयाकरण-परिव्राजक-याज्ञिकादयः प्रमुखाः सन्ति। एतदतिरिक्तः विविधग्रन्थानां समर्थकाचार्याणां मतस्यापि यथास्थाने उल्लेखो लभते। परम्परामूलकानाम् एतेषामाचार्याणां मतस्योपहासं कर्तुं न शक्नोति कोऽपि सहसेति।

परम्परायाः महत्त्वं

[सम्पादयतु]

यास्केन स्वयं परम्परायाः प्रशंसा कृतेति, तत् ज्ञातारम् पारोवर्यविच्च कथितम्।

‘अयं मन्त्रार्थचिन्ताभ्यूहोऽपि श्रुतितोऽपि तर्कतः॥[१६]

अर्थात् मन्त्रार्थस्य विचारः परम्परागतार्थस्य श्रवणेन तर्केण वा निरूपितो भवति। यतः -

‘न तु पृथक्त्वेन मन्त्रा निर्वक्तव्याः प्रकरणश एव निर्वक्तव्याः।'

मन्त्राणां व्याख्या पृथक्त्वेन भवितुं नार्हति, अपि तु प्रकरणानुसारेणैव भवितव्या।

‘न ह्येषु प्रत्यक्षमस्ति अनृषेरतपसो वा॥'

केन कर्त्तुं शक्यते वेदानामर्थः ? विषयेऽस्मिन् यास्कस्य कथनमस्ति - मानवाः न तु ऋषयो भवन्ति, न तपस्विनस्ते तु मन्त्रार्थस्य साक्षात्कारं कर्तुं न शक्नुवन्ति।

'पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति इत्युक्तं पुरस्तात्॥'

निरुक्तकर्त्तुः कथनमिदमस्ति। परम्परागतज्ञानप्राप्तकर्त्तृषु तेऽधिकश्रेष्ठजनाः भवन्ति, येऽधिकाध्ययनं कृतवन्तः। वेदार्थज्ञानाय मीमांसा-निरुक्त-व्याकरणादिशास्त्राणां ज्ञानमतीवावश्यकं वर्त्तते।[१७]

यास्केनाऽस्मिन् विषयेऽष्टाधिकमतानां चर्चा कृताऽस्ति। तेन मन्त्राणां व्याख्यानावसरे यत्र तत्र वैयाकरण-नैदान-परिव्राजक-ऐतिहासिकादीनां मतस्योल्लेखः कृतः। तेषां मतानां प्रचुरप्रयोगः ब्राह्मणग्रन्थेष्वप्युपलब्धो भवति। यथा 'अश्विनौ' इति पदस्य विवेचने यास्केनानेकविधानां मतानामुल्लेखः कृतः। कतिपयानामालोचकानां मते उभावश्विनौ स्वर्गःपृथिव्यौ स्तः। अस्य मतस्योल्लेखः शतपथब्राह्मणेऽपि उपलब्धो भवति।[१८] यास्केनाप्यस्मिन्नेव स्थाने स्वमतमपि स्थापितम्। मतस्यास्य प्रामाणिकताऽपि स्पष्टा एवेति।

सम्बद्धाः लेखाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

उद्धरणानि

[सम्पादयतु]
  1. (नि० १।५||२)
  2. (शु० य ० १॥२२)
  3. (नि० १।५।१)।
  4. (नि० १॥५॥१)
  5. (तैति० सं० 1॥८॥६॥१)
  6. (तैत्ति० सं० ४॥५॥११॥५)
  7. (श० ब्रा० १॥३॥२॥३)
  8. (अदितिर्द्यौरदितिरन्तिरक्षं ... ऋ० सं० १॥८९॥१०)
  9. (दुर्गाचार्यः, निरुक्तस्य टीका १/१६/)
  10. (नि० १।५।१)
  11. (१-२, ३१-५३)
  12. (निरुक्तः ७॥४)
  13. (ऋ० सं० १॥१६४॥४६)
  14. ऋ० ४॥५८॥३
  15. (द्रष्ट० नि० १३॥३)
  16. (नि० १३॥१२)
  17. (नि० १॥१६)
  18. (४।।१।५)