मूलशङ्करः
मूलशङ्करः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | ऐतिहासिकनाटकानि |
प्रमुखकृतयः | प्रताप-विजयं, संयोगितास्वयंवरं, छत्रपतिसाम्राज्यम् |
विषयैः प्रभावितः
भारतस्य इतिहासः
|
मूलशङ्कर-माणिकलाल-याज्ञिकः गुर्जरप्रदेशे नटपुरग्रामस्य निवासी बभूव । तस्याविर्भावः ३१ जनवरी १८८६ ख्रीष्टाब्दे समभूत् । अस्य पिता माणिकलालः माता च अतिलक्ष्मीः प्रसिद्धावास्ताम् । कविरयं बडौदासंस्कृत-महाविद्यालयस्य प्राध्यापक आसीत् ।
अनेन नाटककारेण स्वकीयजीवनकाल एव सम्मानोऽविगतः । वाराणसीविद्वत्परिषदा साहित्यमणिः इत्युपाधिना समलङ्कृतोऽसौ । याज्ञिकस्य जीवनचर्या तपोमयीति प्रसिद्धिः । अनवरतसाधनाबलेन असौ समुत्कृष्टसाहित्यं प्रस्तुतवान् । कविवरस्य देशानुरागस्तद् युगीननवजागरणस्य प्रेरक आसीत् ।
याज्ञिकस्य प्रताप-विजयं, संयोगितास्वयंवरं छत्रपति-साम्राज्यञ्चेति त्रीणि नाटकानि बडौदातः प्रकाशितानि, प्रयागविश्वविद्यालयस्य पुस्तकालये चोपलभ्यानि सन्ति।
प्रताप-विजयम्
[सम्पादयतु]प्रतापविजयस्य प्रणयनं १९२६ ख्रीष्टाब्दे सञ्जातम् । नाटकेऽस्मिन् नवाङ्काः सन्ति। प्रकृतिचित्रणविषये कवेः दृष्टिः पारम्परिकी । याज्ञिकेन नाटके परमोच्चकोटिकं सङ्गीतमुपस्थापितम् । प्रस्तावनायां नटी गायति -
'सुखयति मधुररसा सरसी सारसहंसविहङ्गममिथुनं विहरति मृदुरहसि' इति।
प्रतापविजये प्राकृतस्य प्रयोगो न कृतः । सर्वाणि पात्राणि संस्कृतमाश्रित्य व्यवहरन्ति ।
संयोगितास्वयंवरम्
[सम्पादयतु]संयोगितास्वयंवरम् इति मूलशङ्करस्य द्वितीयं नाटकं १९२८ ख्रीष्टाब्दे प्रकाशितमभूत् । अस्याभिनयो राजसूययज्ञावसरे समवेतानां नरपतीनां मनोरञ्जनार्थमभवत्। संयोगितास्वयंवरं विंशशतकस्य श्रेष्ठं नाटकं मन्यते।
छत्रपतिसाम्राज्यम्
[सम्पादयतु]छत्रपति-साम्राज्यं नाटकं शिवाजीमहोदयस्य १६४६ ईसवीतः १६७४ ख्रीष्टाब्दान्तं शासनस्य घटनाः समवलम्ब्य प्रणीतम् । एतस्य नाटकस्य विषये देशीयानां विदेशीयानां च बहूनां विदुषां सत्सम्मतयः सन्ति ।
नाटकेऽस्मिन् प्रथमाङ्के साम्राज्योपक्रमोऽस्ति । यवनाधिपतिः अत्याचारी वर्तते । शिवाजी स्वतन्त्रसाम्राज्यस्य स्थापनां विधातु-कामः । सर्वे धर्मस्य रक्षार्थं हिन्दू-साम्राज्यस्थापनार्थं सहमताः बभूवुः । तोरणदुर्गस्य रक्षकेण स्वकीयदुर्गः शिवाजीमहोदयाय समर्पितः । कस्यचित् जीर्णमन्दिरस्य उत्खननेन शिवराजेनातुलं धनमुपलब्धम् । धनेनानेन बहूनि शस्त्राणि विदेशतोऽपि क्रीतानि । सपद्यव अनेन कल्याणनगरं विजितम् । बीजापुरस्य सप्त शतानि सैनिका यवनराजं विहाय शिवाजीसन्निधौ आजग्मुः । बीजापुराधिपतिः कपटप्रबन्धेन शिवाजीमहोदयं निग्रहीतुं तत्राजगाम, किन्तु सावधानः शिवराजो व्याघ्रनखजालेन तमेव यमनगरातिथिं चकार ।
पञ्चमेऽङ्के बाजीवीरः शत्रुभिः समरं कुर्वाणः अमरभुवनं प्रयाति । षष्ठेऽङ्के छल-प्रबन्धोऽस्ति । शिवाजीं तत्सहचराश्च वरयात्रिणो भूत्वा मुगलसैनिकान् जघ्नुः । सप्तमाङ्के शिवाजी-जयसिंहयोः मेलनं वर्तते । प्रयाण-प्रबन्धनामके अष्टमेऽङ्के शिवाजी मुगलराजेन औरङ्गजेवेन बन्दीकृतः । शिवाजी मिष्टान्नपात्रे निगूढो बहिर्निर्जगाम | नवमेऽङ्के शिवाजी द्वारा पञ्चदुर्गाणां विजयस्य वर्णनं प्राप्यते । दशमेऽङ्के अभिषेकमहोत्सवो वर्णितः ।