बि एस् यडियूरप्प

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(यडियूरप्प इत्यस्मात् पुनर्निर्दिष्टम्)
बि एस् यडियूरप्प
बूकनकेरे सिद्धलिङ्गप्प यड्ड्यूरप्प
19th
In office
30 May 2008 – 31 July 2011
Preceded by राष्ट्रपतिशासनम्
Succeeded by डी वी सदानन्द गौड
Constituency शिकारिपुर
In office
12 November 2007 – 19 November 2007
Preceded by एच्. डी. कुमारस्वामी
Succeeded by राष्ट्रपतिशासनम्
व्यैय्यक्तिकसूचना
Born (१९४३-२-२) २७ १९४३ (आयुः ८१)
बूकनकेरे, मण्ड्य
Political party भारतीयजनतापक्षः (1980–2012)
कर्णाटकजनतापक्षः (2012-2013)
भारतीयजनतापक्षः (Since 2014)
Spouse(s) मैत्रादेवी
Website http://yeddyurappa.in
As of 28 May, 2008

पीठीका[सम्पादयतु]

बि.एस्. यड्ड्यूरप्प महोदयः कर्नाटकस्य भूतपूर्वमुख्यमन्त्री एवं भारतीयजनतापक्षः इति राजनीतिदलस्य प्रमुखः नायकः । इदानीं कर्नाटक राज्यविधानसभायां शिकारिपुरक्षेत्रस्य प्रजाप्रतिनिधिशस्ति । २००८ तमे वर्षे प्रचलिते राज्यविधानसभानिर्वाचने स्वक्षेत्रे एस्. बङ्गारप्पमहोदयं षटचत्वारिंशत् सहस्त्रमतानाम् अन्तरेण विजित्य भा.ज.प दलं ऐदंप्राथम्येन दक्षिणभारराज्ये अधिकारारुढं कर्तुं (प्राप्ताधिकारं कर्तुं) सफलोऽभवत् । तथैव द्वितीयावधौ कर्नाटकस्य मुख्यमन्त्री चाभूत् । विधिविरोधिखनिजोद्यमपक्षपातः भ्रष्टाचारः इत्यादिषु अनुचिताविषयेषु बध्दः यड्ड्यूरप्पः स्वपक्षीयज्येष्ठनायकैरपि अधिक्षिप्तोऽभवत् । २०११ तमे जुलै २८ तमे दिने भा.ज.प दलस्य उन्नतस्तरीयाः नेतारः बि.एस्. यड्ड्यूरप्पमहाभागं स्वपदं त्यक्तुं आधिशन् । अनन्यमार्गः यड्ड्यूरप्पः २०११ तमे वर्षे जुलै मासस्य ३२तमे दिने, सायं ४ -२९ समये राज्यपालं हंसराजभरद्वाजं संदृश्य तस्मै मुख्यमत्रिपदस्य त्यागपत्रम् आर्पयत् । तदनन्तरम् अस्यैव दलस्य नेतृष्वन्यतमः सदानन्द गौडमहाभागः मुख्यान्त्रिपदे नियुक्तः कार्यं निर्वहन्नस्ति । व्याक्तिगतपरिचयः – जन्मस्थानं तु बूकनकेरे, के. आर् पेटे उपमण्डलम्, मण्डय् मण्डलम् । क्रि.श. १९४३ तमे वर्षे फेब्रुवरी मासस्य २७तमे दिने जन्म प्राप्तवान् । पिता सिध्दलिङ्गप्पः माता च पुट्टतायम्मा , पुत्रौ राधवेन्द्रविजयेन्द्रौ, पुत्त्र्यः आरुणादेवी, पद्मावतीदेवी, उमादेवी च । शिक्षणम् - बि.ए. २००७ तमे वर्षे यड्ड्यूरप्पमहाभागस्य पत्नी मैत्रादेवी पञ्चत्वमगमत् ।

राजनैतिकजीवनम्[सम्पादयतु]

१९७५ तमे वर्षे मण्डलस्तरीयस्य धनविनियोगः राजस्वः इत्येतयोः सङ्घयोः अध्यक्षो भूत्वा राजकीयप्रवेशः । १९७७ तमे वर्षे शिकारिपुरस्य पुरसभाध्यक्षः १९८३तमे वर्षे बा.ज.प मण्डल घटकस्य अध्यक्षः । अस्मिन्नेव वर्षे प्रथमवारं विधानसभासदस्यः चाभवत् ।१९८५ तमवर्षतः पञ्चवारं शिकारिपुरक्षेत्रस्य विधानसभासदस्यः । १९८८ तमे वर्षे शिवामोग्गमण्डलस्य बि जे पि पक्षाध्यक्षः । १९९१ तमे वर्षे अस्यैव पक्षस्य राज्यस्त रीयाध्यक्षः । २९९४ तमे वर्षे बि जे पि राष्ट्रीयकार्यदर्शी चाभूत् । २९९९ तमे वर्षे विधानसभायां प्रतिपक्षतानायकोऽभूत् । २००० तमे वत्सरे पुनः राज्यस्तरीपाद्यक्षः । २००४ तमे वर्षे विधानपरिषदः सदस्यः २००६ तमे वर्षे भूयः विधानसभायां प्रतिपक्षनायकः । जात्यतीत जनतादल इति पक्षेन सह रचिते सर्वकारे उपमुख्यमन्त्री तथा २००७ तमे नवम्बर् मासे कर्नाटकस्य मुख्यमन्त्री ।

कर्नाटकस्य मुख्यमन्त्री[सम्पादयतु]

श्रीमान् यड्ड्यूरप्पमहोदयः २००७ तमे वत्सरे नवम्बर मासस्य द्वादशतमे दिने राज्यपालस्य श्रीमतः रामेश्वर ठाकूर् महाभागस्य उपस्थितौ कर्नाटकस्य मुख्यमन्त्रिपदम् अलमकरोत् । अनेन दक्षिणभारतराज्यानां बा.ज.प प्रथममुख्यमन्त्री इति कीर्तिमवाप्नोत् । परन्तु स्वस्य अधिकारावधौ अनेके अन्तरायाः आगताः । स्वकृतापराधहेतुना अपकीर्तिरपि प्राप्ता । कृषिसम्बन्धिषु बहुषु आन्दोलनेषु भागमूढः यड्ड्यूरप्प महाभागः अन्ते विधिविरोधीखनिजोद्यमविषये भूविषये च लोकायुक्त व्यायाद्यक्षेन निन्दितः भूत्वा मुख्यमन्त्री पदात् निवृत्तोऽभूत् । अनेन महाभागेन कारागारवासोऽपि अनुभूतः । इदानीं न्यायसभायाः नियमबद्धानुपमतिं प्राप्य बन्धनात् मुक्तोऽस्ति ।

यड्ड्यूरप्पमहाभागेन अलङ्कृतानि पदानि[सम्पादयतु]

  • १९७५ : शिकारीपुरस्य पुरसभासदस्यत्वेन वृतः,
  • १९७७ : पुरसभाध्यक्षः
  • १९७० : बि जे पि मण्डलस्तरीयाध्यक्षः
  • १९८३ : भूतपूर्व सचिवं वेङ्कटप्प महोदयं विजित्य प्रयमवारं विधातसभाप्रवेशः
  • १९८५ : तः १९८८ पर्यन्तं बि.जे.पि.मण्डलाध्यक्षः, १९८८ तमे वत्सरे राज्यस्तरीयाद्यक्षः १९९२ तमे वत्सरे राष्ट्रीय कार्यदर्शीपदनिर्वहणम् ।
  • १९९४ : विधान सभायां प्रतिपक्षतानायकः ।
  • १९९९ : पुनः राज्याध्यक्षः, २००० वत्सरे विधानपरिषदः सदस्यः ।
  • २००४ : पञ्चमवारं विधानसभाप्रवेशः, प्रतिपक्ष नायकः ।
  • २००६ : संयुक्त सर्वकारे उपमुख्यमन्त्री तथा धनाविनियोगतया राजस्व भिभागस्य निर्वहणम् ।
  • २००७ : नवम्बर् द्वादश दिनाङ्कतः सप्तदश दिनाङ्कपर्यन्तं सप्तदिनानि यावत् –मुख्यमन्त्री अभवत् ।
  • २००८ : मे मासस्य त्रिंशत्तमे दिने कर्नाटकस्य पञ्चविंशः मुख्यमन्त्री भूत्वा अधिकारग्रहणम् ।
  • २०११ : जुलै ३२ तमे दिने सायं ४.२९ समये मुख्यमन्त्रिपदस्य त्यागषत्रं आर्पयत् ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बि_एस्_यडियूरप्प&oldid=480657" इत्यस्माद् प्रतिप्राप्तम्