रत्नाकरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रत्नाकरः काश्मीरस्थः कश्चन कविः। भोजदेवः (१०६०-११०७ वै०) सादरं कथयति -

"अस्तङ्गतभारविरवि कालवशात्कालिदासविधुविधुरम् ।

निर्वाणबाणदीपं जगदिदमुद्द्योति रत्नेन ।।" इति।

तथैव राजशेखरेण काव्यशास्त्रिणा -

मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे ।

इतीव स कुतो धात्रा कवी रत्नाकरोऽपरः ।।

इति प्रशंसित रत्नाकरकविः संस्कृतसाहित्ये स्वल्पतमं कथानकमादाय सर्वातिशायिबृहत्कायमहाकाव्यप्रणेतृत्वेन प्रसिद्धः । स राजानक-वागीश्वर-विद्याधिपतिप्रभृत्युपाधिभिवभूषितो दृश्यते । महाकवेरस्य हरविजयं नाम पञ्चाशत्सर्गात्मकं महाकाव्यं, वक्रोक्तिपञ्चाशिका, ध्वनिगाथापञ्जिका च ज्ञाताः ग्रन्थाः ।

स्थितकालौ[सम्पादयतु]

कविरसौ काश्मीर इति तु तस्य राजानकोपाधिना मन्यते। सौभाग्यवशात्स स्वाश्रयभूतं चिप्पटजयापीडं बालबृहस्पत्यपराभिधं काव्यान्ते स्मरति । चिप्पटजयापीडस्य स्थितिकालो राजतरङ्गिण्यनुसारेण ८३६-८७० मितवैकमाब्दानभितोऽनुमितः । तेन रत्नाकरस्याऽपि स एव स्थितिकालः । तस्य च ९१२-९४१ मितवैक्रमब्दान्तरवर्तिनोऽवन्तिवर्मणः काश्मीरनरेशस्य सभासत्त्वमपि राजतरङ्गिण्याः निम्नवचनात् मन्यते -

मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः।

प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः।।[१] इति ।

शताधिकवर्षजीवनोऽस्य कवेः स्थितिकालस्तेन ८२०-९४० मितवैक्रमाब्दान्तराले समापतति।

रचनाः[सम्पादयतु]

अस्य हरविजयं महाकाव्यं न तथा परां कोटिमारुहदपि विविधदृष्ट्या महत्त्वपूर्णं गौरवशालि च । अत्र सुविस्तृताः पञ्चाशत्सर्गाः सन्ति । अत्र हि भगवता शङ्करेण शक्रादिप्रार्थनयाऽन्धकासुरस्य वधो वर्णितः । तत्र हि प्रथमे सर्गे ज्योतिष्मत्याख्या शिवपुरी वर्णिता । तदनु च इन्द्रादिभिरन्धकतापनिवेदनाय शङ्करपार्श्वे षड्ऋतूनां प्रेषणं, ऋतुभिरन्धककृतापराधनिवेदनं, अन्धकासुरनाशाय शिवगणस्य परामर्शः, शिवगणविहारः, शिवदूतस्यान्धकासुरेण सह संवादः, शिवसेनाप्रयाणं, युद्धवर्णनमन्धकासुरवधश्चास्येतिवृत्तसूचिः । शिशुपालवधमिव हरविजयमपि इतिवृत्तनिर्वाहे स्खलत्येव । अत्रापि इतिवृत्तापेक्षया तदसम्बद्धवर्णनस्यैव प्राचुर्यम् । तथापि भावाभिव्यक्तिदृष्ट्या काव्यमिदं शिशुपालवधमप्यतिशेते । अत्र हि शैवदर्शन-नीति-कामशास्त्रेतिहासपुराणनाट्यसङ्गीतालङ्कारशास्त्रचित्रकाव्यप्रभृतीनां प्राशस्त्येनोपस्थापनमेवास्योत्कृष्टतमत्वस्य चिह्नम् । तस्य च वर्णनाचातुरी निभालनीया दृश्यते । स स्वयमेव कथयति सगौरवम् -

ललितमधुराः सालङ्काराः प्रसादमनोहरा, विकटयमकश्लेषोद्गारप्रबन्धनिरर्गलाः।

असदृशगतीश्चित्रे मार्गे ममोद्गिरतो गिरो, न खलु नृपतेश्चेतो वाचस्पतेरपि शङ्कते ।।

यथा माघेन प्रतिसर्गान्ते 'लक्ष्मीपतेश्चरितकीर्तनमात्रचारु' इति कथितं, तथैव हरिविजयेऽपि 'चन्द्रार्धचूडचरिताश्रयचारु' इति निगदितमस्ति प्रतिसर्गान्ते । महाकाव्यस्यास्यौचित्यं प्रतिपादयन्महाकविः स्वयमेव कथयति -

हरविजयमहाकवेः प्रतिज्ञां शृणुत कृतप्रणयो मम प्रबन्धे।

अपि शिशुरकविः कविः प्रभावाद्भवति कविश्च महाकविः क्रमेण॥ इति।

इदं नैवं गर्वोक्तिमात्रमपि तु यथार्थवाक्यमपि । वस्तुतो हरविजये समग्रमेव महाकाव्यलक्षणमात्मसात्कृतमस्ति । तेनेदं महाकवीनां कृते कृतं महाकायमेव भारविमाघौ तु द्व्यक्षरश्लोकाननुष्टुप् छन्दस्येव ग्रथ्नीतो रत्नाकरस्तु। तस्य शार्दूलविक्रीडितमन्दाक्रान्ताप्रभृतिच्छन्दस्वपि सफलप्रयोक्ता । तस्यालङ्कारयोजनाऽपि मनोहारिणी दृश्यते । रत्नाकरः उत्प्रेक्षाप्रियः कविः । कवेरस्य वसन्ततिलकां मानयन् क्षेमेन्द्रः कथयति -

वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी।

रत्नाकरस्योत्कलिका चकास्त्याननकानने।।

काव्यस्यास्य अलकाख्येन विदुषा विषमपदोद्योतिनी टीका प्रणीता दृश्यते तथैव लोकमणिदाहालस्य कलाख्या व्याख्या च । साधुक्तं द्विजेन्द्रनाथेन[२] यद्रत्नाकरस्य कवित्वचमत्कारो नूनं माघरचनामधरीकरोतीति। वस्तुतोऽस्य वाग्रत्नप्रभया माघो हतप्रभ इव लक्ष्यते । निभाल्यतां तस्य काव्यस्य छटा -

सन्ध्याप्रवृत्तिरुधिरारुणसान्द्रधातु-धूलिच्छटाकपिशिताम्बरदिग्विभागाः।

अध्यम्बुराशि गिरिपङ्क्तिरवैन्यपप्त-दभ्यापतत्कुलिगताकुलिता दिनश्रीः ।। इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ५/३९
  2. संस्कृत० ४५९तमपृष्ठे
"https://sa.wikipedia.org/w/index.php?title=रत्नाकरः&oldid=443980" इत्यस्माद् पुनः प्राप्तिः