राजेन्द्रकुमार पचौरि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
राजेन्द्रकुमारः पचौरि
राजेन्द्रकुमारः पचौरि
जननम् क्रि.श. १९४०तमवर्षस्य अगस्ट्मासस्य २०तमदिनम् ।
नैनिताल्, उत्तराखण्डः आङ्ग्लकालभारतम्
देशीयता भारतीयः
कार्यक्षेत्राणि भौतविज्ञानी ।
मातृसंस्थाः North Carolina State University।


राजेन्द्रकुमारः पचौरिवर्यः क्रि.श.२००२तमवर्षात् इण्टर्गवर्नमेण्टल् प्यानल् आन् क्लैमेट् चेञ्ज् (IPCC) इति संस्थायाः अध्यक्षः सन् सेवाम् अकरोत् । अस्य अधिकारावधौ नैके विवादाः सञ्जातः । TERI इति प्रसिद्धसंस्थायाः भारते संशोधनस्य कार्यनीतेः च महानिदेशकः अभवत् । अपि च TERI विश्वविद्यालयस्य कुलपतिः सन् सेवाम् अकरोत् । न्याषनल् अग्रो फौण्डेशन् (NAF) प्रशासनसमितेः सभापतेः स्थानम् आप्नोत् । कोलम्बियाविश्वविद्यालयस्य इण्टर्न्याशनल् रिसर्च् इन्स्टिट्यूट् फार् क्लैमेट् एण्ड् सोसैटी इति मण्डल्याः सभापतिरपि अभवत् । वातावरणपरिवर्तनस्य विषये राजेन्द्रकुमारः निश्चितवादी इति ख्यातः । इदानीम् एषः येल् नगरस्य क्लैमेट् एण्ड् एनर्जि इन्स्टिट्यूट् (YCEI) मुख्यः सन् सेवां करोति । क्रि.श. २००७तमवर्षस्य डिसेम्बर् मासस्य दशमदिने प्रचलिते नोबेल् शान्तिपुरस्कारस्य समारोहे अल्गोर् तथा IPCC मध्ये एषा प्रशस्तिः संविभक्तकाले पचौरिवर्यः IPCC प्रतिनिधिः सन् भागम् अवहत् । [१][२]

पृष्ठस्थभूमिः[सम्पादयतु]

भारतस्य नैनितालप्रदेशः राजेन्द्रस्य जन्मस्थानम् । लक्नौनगरस्य[३] ला मार्टिनियेरि महाविद्यालये बिहारस्य जमालपुरस्य इण्डियन् रेल्वेस् इन्स्टिट्यूट् आफ् मेक्यानिकल् एण्ड् इलेक्ट्रिकल् अभियन्तृमहाविद्याये अध्ययनम् अकरोत् । विशेषवर्गस्य रेल्वेशिक्षार्थिनः इति परिगणितस्य क्रि.श. १९५८तमवर्षस्यस्य गणस्य सदस्यः आसीत् । वाराणस्याः डीसेल् लोकोमोटिव् वर्क्स् इति समवाये स्वस्य वृत्तिजीवनम् आरब्धवान् । यार्लिनगस्य नार्त करोलिना राज्यविश्वविद्यालययेन क्रि.श. १९७२तमे वर्षे राजेन्द्रकुमाराय यन्त्रोद्यमाभियन्तृविषये स्नातकोत्तरपदवी प्रदत्ता । अपि च क्रि.श. १९७४तमे वर्षे यन्त्रोद्यमाभियन्तुः अर्थशास्त्रस्य विषये संयुक्ता पिएच्.डी पदवी अपि प्राप्ता । .[४] नवदेहलीनगरस्य गाल्फपिङ्क् इत्यस्मिन् स्थाने एषः वसति । [५]एषः राजेन्द्रकुमारः दृढसस्याहारी । अस्य कारणं तु एषः कश्चित् हिन्दुधर्मी अपि च मांसोत्पादनेन सम्भूयमानः पारिसरिकदुष्परिणामः अस्य सस्याहारास्य कारणम् ।[६]

वृत्तिजीवनम्[सम्पादयतु]

NCसंस्थानस्य अर्थशास्त्रस्य उद्यमस्य च विभागे एष सहायकः प्राध्यापकः सन् (क्रि.श. १९७४तमवर्षस्य अगस्टमासतः क्रि.श. १९७५तमवर्षस्य मे मासाभ्यान्तरम्) सेवामकरोत् । पश्चिमवर्जिनिया विश्वविद्यालयस्य कालेज् आफ् मिनरल् एण्ड् एनर्जि रिसोर्स् इत्येतस्यां संस्थायां सन्दर्शकप्राध्यापकः अभवत् । राजेन्द्रकुमारः भारतं प्रत्यागत्य आन्ध्रप्रदेशस्य हैदराबादनगरस्य अड्मिनिस्ट्रेटिव् स्टाफ् कालेज़् आफ् इण्डिया इत्यत्र (क्रि.श. १९७५तमवर्षस् जून्मासतः १९७९तमवर्षस्य जून्-मासाभ्यान्तरम्) सदस्याध्यापकः इति उद्योगम् आरब्धवान् । पश्चात् समालोचनम् अन्वयिकसंशोधनविभागस्य निदेशकस्य स्थाने(क्रि.श. १९७५तमवर्षस्य जुलैमासतः १९८१तमवर्षस्य जून-मासाभ्यान्तरम्) उपविष्टवान् । क्रि.श. १९८१तमवर्षस्य एप्रिल् मासे[७] एषः TERI इति संस्था निदेशक्त्वेन प्रविष्टवान् इदानीं मुख्यस्थः अस्ति । एषः रिसोर्स् सिस्टम्स् संस्थायां क्रि.श. १९८२तमवर्षतः विद्वन्मण्डल्याः कश्चित् ज्येष्ठसन्दर्शकसदस्यः असित् । अपि च वाषिङ्ग्टन् डि.सि.प्रदेशास्य विश्ववित्तकोशसंशोधनविद्युन्मानमण्डल्याः सन्दर्शकसदस्यः आसीत् । क्रि.श. २००२तमवर्षस्य एप्रिल् मासस्य २०तमे दिने इण्टर् गवर्नमेण्टल् प्यानल् आन् क्लैमेट् चेञ्ज् इति मण्डल्याः सभापतित्वेन निर्वाचितः । एषा WMO तथा UNEP द्वारा प्रतिष्ठापितस्य विश्वसंस्थायाः काचिन्मण्डली । वायुमण्डलस्य परिवर्तनस्य सूचनानां मौल्याङ्कनम् अस्याः उद्देशः ।[८] पचौरिवर्यः अनेकानि गण्यमन्यपदानि अलङ्कृतवान् । श्रीराम सैण्टिफिक् एण्ड् इण्डस्ट्रियल् रिसर्च् फौण्डेषन् इति संस्थायाः कार्याध्यक्षमण्डल्यां (क्रि.श. १९८७तमवर्षस्य नवेम्बर्मासे) नवदेहल्याः इण्डिया इण्टर्न्याषनल् सेण्टर् सङ्घटनस्य कार्यकारिरिसमितौ कार्यं कुर्वन्, नवदेहल्याः इण्डिया ह्याबिटेट् सेण्टर् प्रशासनपरिषदि सेवां निर्वहन्, एड्मिनिस्ट्रेतिव् स्टाफ् कालेज् आफ् इण्डिया इत्यस्य कार्याध्यक्षाणां प्राङ्गणे कार्यं निरूढवान् । एतावदेव नैव पेगासस् क्यापिटल् अड्वैसर्स्, ग्लोरि आयिल्, चिकागो क्लैमेट्, एक्स्श्चेञ्ज्, टोयोटा, ड्यूषे ब्याङ्क् अपि च NTPC इति समवाये अपि उपदेशकरूपेण कार्यमकरोत् । [९] नैकेसङ्घसंस्तानाम् अयोगानां च ससस्यः सन् कार्याणि कृतवान् } इण्टर्न्याषनल् सोलार् एनर्जि सोसैटि इत्यस्य सदस्यः सन् (क्रि.श. १९९१तः १९९७पर्यन्तम्), वर्ल्ड् रिसोर्सस् इन्स्टिट्यूट् कौन्सिल् इत्यस्य सदस्यः सन्(क्रि.श. १९९२), सेवां कृतवान् । वर्ल्ड् एनर्जि कौन्सिल् इत्यस्य सभापतिपदमपि (क्रि.शा. ११९३तः १९९५पर्यन्तम्) अलङ्कृतवान् । इन्टर्न्याषनल् असोसियेषन् फार् एनर्जि इकानामिक्स् इत्यस्य अध्यक्षः (क्रि.श. १९८८तः १९९०पर्यन्तम्) पश्चात् सभापतिः चाभवत् । अपि च एषियन् एनर्जि इन्स्टिट्यूट् इत्यस्य अध्यक्षपदमपि (क्रि.शा. १९९२तः) समलमकरोत् । [१०] शक्तिसम्पन्मूलानानां समर्थनिर्वहणक्षेत्रसम्बद्धानां विश्वसंस्थायाः प्रगतिशीलकार्याणां कश्चित् (क्रि.श. १९९४तः १९९९पर्यन्तम्) अल्पकालीनोपदेशकः चाभवत् । [११] क्रि.शा. २००१तमवर्षस्य जुलैमासे भारतस्य प्रधानमन्त्रिणः आर्षिकोपदेशकमण्डल्याः सदस्यः इति डा.आर्.के.चौदरी इत्यनेन नियोजितः। [११]

IPCC मण्डल्या सह कार्यम्[सम्पादयतु]

क्रि.श. २००२तमवर्षस्य एप्रिल्मासस्य २०दिनाङ्के इण्टर्गौर्न्मेण्टल् प्यानल् आन् क्लैमेट् चेञ्ज् इति मण्डल्याः सभापतिः सन् पचौरिवर्यः निर्वाचितः । एतत् WMO तथा UNEP पक्षतया स्थापिता विश्वसंस्थायाः मण्डली एव । वायुमण्डलस्य परिवर्तनविषयसम्बद्धानां सूचनानां मौल्यङ्कनं अस्य संस्थायाः उद्देशेषु अन्यतमः । ref name="2002-04-20_ipcc"/>पचौरिवर्यः वातावरणपरिवर्तनस्य समस्यायाः विषये कार्यं कुर्वन् अस्ति । तस्मिन् विषये तस्य वचनानि एवं सन्ति । किं सम्भवति, किं सम्भविष्यति, इत्यस्मिन् ३५० अंशे विश्वं सर्वदा महत्वाकाङ्क्षि अत्यन्तं दृढसङ्कल्पयुक्तं च भवेत् । इति मम दृढभावः इति ।[१२] अत्र सूचिता ३५०इति सङ्ख्या वातवरणस्य प्रतिदशलक्षं भागे कार्बन् डैआक्सैड्स्तरम् उल्लिखति । वातावरण्स्य स्थानान्तरगतस्य कस्यचित् बिन्दोः अथवा स्तरव्यत्यासकरणस्य NASA सङ्घटनस्य जेम्स् ह्यान्सन् सदृशानां अग्रमान्यानां विज्ञानिनाम् उन्नतस्तरस्य सुरक्षिता समितिः । [१३]

नोबेल् संविभक्ता शान्तिप्रशस्तिः[सम्पादयतु]

क्रि.श. २००७तमवर्षस्य नोबेल् शान्तिपुरस्कारप्रशस्तिह् IPCC संस्था संयुक्तराष्ट्रस्य पूर्वतनाध्यक्षेन अल् गोर् इत्यनेन सह संविभक्ता । पचौरिवर्यः क्रि.श. २००२तमे वर्षे प्रथमवरं यदा निर्वाचितः एतम् आल् गोर् वर्यं निन्दितवान् ।[१४] नोबेल् प्रशस्तिस्मितिः स्वस्य पत्रिकाप्रकाशने । [१५] एवम् अवदत् । क्रि.श. २००७तमवर्षस्य नोबेल् शान्तिप्रशस्तिम् इण्टर्गौर्नमेण्टल् प्यानल् आन् क्लैमेट् चेञ्ज् (IPCC) तथा आल्बर्ट् आर्नाल्ड् गोर् जूनियर् एतयोः मध्ये द्विधा समभागेन विरतणं करणीयम् । मानवनिर्मितस्य वातावरणपरिवर्तनस्य महोन्नतज्ञानसङ्ग्रहस्य प्रसारस्य च प्रयत्नान् अपि च एतादृशपरिवर्तनस्य प्रतिरोधावश्यकान् क्रमान् च परिगणय्य एवमस्माकं निर्धारः । क्रि.सा. २००७तमवर्षस्य डिसेम्बर् मासस्य एकादशे दिने पचौरिवर्यः तथा सहपुरस्कृतः आल् गोर् उभावपि नार्वेदेशस्य ओस्लो नगरे प्रसस्तिप्रदानावसरे स्वीकृतिभाषणम् अकुरुताम् । तद्दिने एव विश्वसंस्थायाः वातावरणसम्मेलनस्य नियोगिनः इण्डोनेषियायः बालि इति स्थाने गोष्टिगताः आसन् । पचौरिवर्यः तु वसुधैव कुटुम्बकम् इति भारतीय तत्त्वम् आधृत्य स्वभाषाणं कृत्वान् । जागतिके स्तरे सामान्यजनान् रक्षितुं प्रचालितजागतिकप्रयत्नानामुपरि एतत् तत्त्वं प्रभावं कुर्यात् इति प्रतिपादितवान् । [१६] स्वस्य भाषणे बहुवारम् एतं विषयम् उल्लिखितवान् । अपि च क्रि.श.१९८७तमे वर्षे माल्डीव्स् अध्यक्षस्य (मौमुल् अब्दुल् गयूम् ) वचनानि स्मृतवान् । [१६] विश्वस्य अत्यन्तं दीनराष्ट्रैः सम्बद्धानां वातावरणपरिवर्तनस्य परिणामानां विषये स्वस्य आदरं पुनः पुनः सूचित्वान् ।

जीवदीप्तेः उपक्रमः[सम्पादयतु]

शतकोटिजीवानां भासुरस्य उपक्रमपरिकल्पनं पचौरिवर्यः क्रि.श. २००५तमे वर्षे निरूप्य आरब्धवान् । ऊर्जस्य अभावम् अनुभूयमानस्य भारतस्य ग्रामीणप्रदेशेभ्यः सौरशक्तिद्वारा ऊर्जवितरणस्य योजना अस्य आसीत् । [१७] पश्चिमबङ्गालस्य सुन्दरबन्स् राष्ट्रीयोद्यानं राजस्थानस्य थार् मरुस्थलम् च सौरशक्तिं नेतुम् इयं योजना यशस्विनी अभवत् ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • राजेन्द्रकुमारः क्रि.श. २००१तमवर्षस्य जनवरिमासे भारतसर्वकारस्य पद्मभूषणप्रशस्तिं प्राप्तवान् ।[७][५]
  • क्रि.श. २००७तमे वर्षे NDTVवर्षिकजागतिकप्रशस्तिम् आप्नोत् ।[१८]
  • नेचर् इति आङ्ग्लपत्रिकायाः वर्षस्य वार्ताकर्ता इति प्रशस्तिं क्रि.श. २००७तमेवर्षे प्राप्तवान् । राजेन्द्रकुमारः पचौरि कश्चित् संस्थायाः निर्माता इति स्वस्य लेखने एषा पत्रिका तं प्राशसत् ।[१९]
  • क्रि.श. २००८तमे वर्षे जुलैमासे चतुर्दशे दिने UNIDO सद्भावनायाः राजदूतः इति उपधिं पचौरि प्राप्तवान् । [२०]
  • क्रि.श. २००८तमे वर्षे जनवरिमासे भारतस्य अत्युन्नततरा नागरिकप्रशस्तिः पद्मविभूषणप्रशस्तिः अनेन प्राप्ता ।[२१]
  • क्रि.श. २००९तमे वर्षे आर्डर् आप् दि रैसिङ्ग् सन्, गोल्ड् एण्ड सिल्वर् स्टार् इति प्रशस्तिं प्राप्तवान् ।[२२]
  • क्रि.श. २००९तमे वर्षे नवेम्बर् मासे फारिन् पालिसि इति मासपत्रिकया १००जागतिकाग्रगण्यचिन्तकाः इति पुरस्कारावल्यां पचौरीवर्यस्य पञ्चमः श्रेयङ्कः [२३]
  • क्रि.शा. २०१०तमवर्षस्य फेब्रवरिमासे पिन्लेण्ड् प्रधानमन्त्रीद्वारा आर्डर् आफ् दि वैट् रोस् आफ् पिन्लेण्ड् इति प्रशस्तिः प्रदत्ता ।[२४]
  • पचौरिवर्यः भारतसर्वकारेण पद्मभूषणप्रशस्त्या बहुमानितः ।[७]
  • फ्रेञ्च् सर्वकारः अस्मै आफिसर् आफ् दि लीजन् आफ् आनन् इति प्रशस्तिमयच्छत् । [२५]
  • HEC प्यारिस् क्रि.श. २००९तमे वर्षे अक्टोबर् मासे पचौरिवर्याय प्रोफेअर् आनरिस् कौसा इति पुरस्कारम् अयच्छत् ।

अन्यरुचयः[सम्पादयतु]

राजेन्द्रपचौरिवर्यः स्वस्य विद्बत्पूर्णभाषणं लेखान् च अतिरिच्य दीर्घकथाः कविताः च लिखति । रिटर्न् तु अल्मोरा[२६]इति शीर्षकयुक्ता काचित् बृहत्कथा क्रि.श. २०१०तमे वर्षे लोकार्पिता । अत्र कस्यचित् अभियन्तृविद्यार्थिजीवनस्य स्मरणरूपेण कथा अस्ति । तस्य अध्यात्मचिन्तनस्य लैङ्गिकजीवनस्य च सारः अत्र अस्ति ।[२७][२८]एषः स्वपुत्र्या रश्म्या सह मिलित्वा मूड्स् एण्ड् म्यूसिङ्ग्स् [२९] इति पद्यसङ्कलनम् लोकार्पितवान् ।

उल्लेखाः[सम्पादयतु]

  1. "Gore accepts Nobel Peace Prize in Oslo", msnbc.msn.com, 2007-12-10. Retrieved on 2010-01-31. “This year's Nobel Peace Prize laureates, Rajendra Pachauri, right, of the U.N. climate panel, and Al Gore show their certificates on the podium in Oslo on Monday.” 
  2. Pachauri, Rajendra (2007-12-10). "Intergovernmental Panel on Climate Change The Nobel Peace Prize 2007 Nobel Lecture by R. K. Pachauri". nobelprize.org. The Nobel Foundation. Archived from the original on 2010-01-31. Retrieved 2010-01-31. 
  3. R. K. Pachauri biography on I love India website
  4. 2007 Nobel Peace Prize winner is ISE's very own Dr. Rajendra Pachauri
  5. ५.० ५.१ "Padam Awards: Civilian Awards announced on January 26, 2001". Ministry of Home Affairs: Government of India. Retrieved 2010-01-02. 
  6. Bhalla, Nita. "NEWSMAKER-UN climate panel head formed global consensus", Reuters, 2007-10-12. Retrieved on 2010-01-31. “Born on Aug 20, 1940 in the scenic town of Nainital in the foothills of the outer Himalayas, he is a hard-core vegetarian, partly due to his religious beliefs as a Hindu and the impact meat production has on the climate.” 
  7. ७.० ७.१ ७.२ "Dr. R.K. Pachauri". 2003-10-11. Archived from the original on 2009-01-31. Retrieved 2008-07-26. "To acknowledge his immense contribution to the field of environment, he has been awarded the Padma Bhushan -- one of India's highest civilian awards that recognizes distinguished service of a high order to the nation in any field (January 2001)." 
  8. "Intergovernmental Panel on Climate Change (IPCC) Elects Dr. Rajendra K. Pachauri as its Chairman" (PDF). IPCC. 2002-04-20. Archived from the original on 2010-02-05. Retrieved 2008-12-05. 
  9. "Capital Markets Pegasus Capital Advisors, L.P.". businessweek.com. Bloomberg BusinessWeek. 2010-02-01. Archived from the original on 2010-02-01. Retrieved 2010-02-01. 
  10. http://lifestyle.iloveindia.com/lounge/r-k-pachauri-1032.html
  11. ११.० ११.१ http://www.climatescience.gov/Library/bios/pachauri.htm
  12. Hood, Marlowe (2009-08-25). "Top UN climate scientist backs ambitious CO2 cuts". AFP. Google News. Archived from the original on 2010-01-31. Retrieved 2010-01-31. ""But as a human being I am fully supportive of that goal. What is happening, and what is likely to happen, convinces me that the world must be really ambitious and very determined at moving toward a 350 target," he told AFP in an interview." 
  13. Whitesides, Loretta Hidalgo (2009-12-28). "NASA’s James Hansen Says Atmospheric CO2 is Already Beyond Safe Limit". Wired. Archived from the original on 2010-01-31. 
  14. "Pachauri buries Gore feud after Nobel", Reuters, 2007-10-12. Retrieved on 2010-02-05. 
  15. "The Nobel Peace Prize for 2007 - press release". nobelprize.org. The Norwegian Nobel Committee. 2007-10-12. Archived from the original on 2010-02-05. Retrieved 2010-02-05. 
  16. १६.० १६.१ Transcript of Nobel Prize speech from Democracy Now! website.
  17. http://www.thehindubusinessline.com/catalyst/2009/12/24/stories/2009122450120400.htm
  18. http://lifestyle.iloveindia.com/lounge/ndtv-indian-of-the-year-540.html
  19. http://ibnlive.in.com/news/nature-names-pachauri-newsmaker-of-the-year/54627-11.html?from=search
  20. http://www.unido.org/index.php?id=5750
  21. "Padma Awards announced". Retrieved 2010-01-07. 
  22. फलकम्:Cite
  23. The FP Top 100 Global Thinkers – 5. Rajendra Pachauri
  24. ಡಾ. R K पचौरि कन्फर्ड् वित् दि आर्डर् आफ् दि वैट् रोस् आफ् पिन्लेण्ड् ।
  25. http://beta.thehindu.com/news/states/other-states/article36756.ece
  26. Pachauri, Rajendra K. (2010). Return To Almora. Rupa & Co. ISBN 9788129115744. 
  27. Anjali Joseph (2010-01-23). "Return to Almora: A spiritual potboiler - Book Mark - Sunday TOI". The Times of India. Archived from the original on 2009-01-31. Retrieved 2010-01-31. "Despite its ostensible interest in matters numinous, the novel is actually a potboiler, perhaps of a new subcategory - the spiritual potboiler." 
  28. Mendick, Robert, Amrit Dhillon. "Revealed: the racy novel written by the world's most powerful climate scientist", telegraph.co.uk, The Daily Telegraph, 2010-01-30. Retrieved on 2009-01-31. “The chair of the UN's panel on climate change Dr Rajendra Pachauri has taken a break from writing academic papers on global warming to pen a racey romantic novel.” 
  29. Pachauri, Rajendra K.; Rashmi Pachauri-Rajan (2003). Moods and musings. Writers Workshop. ISBN 9788171894680. 

बाह्यानुबन्धाः[सम्पादयतु]