राष्ट्रियरासायनिकप्रयोगशाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राष्ट्रियरासायनिकप्रयोगशाला
National Chemical Laboratory (NCL)

निर्माता(रः) भारतसर्वकारः
स्थापना ३/१/१९५०
उद्देश्यम् वैश्विकस्तरे रासायनिकसंस्थात्वेन विकासः[१]
अधिपतिः भारतगणराज्यस्य प्रधानमन्त्री
अध्यक्षः प्रो. अश्विनीकुमार नांगिया
कर्मचारिणः राष्ट्रियारासायनप्रयोगशालायाम् आहत्य त्रिशताधिकैकसहस्राधिकाः जनाः कार्यरताः सन्ति । तेषु कार्यकर्तृषु पञ्चशताधिकाः वैज्ञानिकाः सन्ति ।
क्षेत्रम् पुणे
सङ्केतः director@ncl.res.in
जालस्थानम् www.ncl-india.org

राष्ट्रियरासायनिकप्रयोगशालायाः ( /ˈkɛndrɪjɔːʃhəðɑːnʊsənðɑːnəm/) (हिन्दी: केन्द्रिय औषध अनसन्धान संस्थान, आङ्ग्ल: Central Drug Research Institute) (एन् सि एल्) स्थापनाम् आचार्यः प्रफुल्लचन्द्रः रायः (१८६१-१९४४) अकरोत् । एतस्याः स्थापनां प्रत्यक्षतया आचार्यः न कृतवान् । परन्तु तस्य आरम्भोत्तरमेव एतस्याः संस्थायाः स्थापना अभवत् । वस्तुतः एतस्याः संस्थायाः स्थापना १९५० तमस्य वर्षस्य जनवरी-मासस्य तृतीये दिनाङ्के अभवत् [२] । एषा संस्था वैज्ञानिकी-औद्योगिकी-अनुसन्धानपरिषदि अन्तर्भवति । रासायनिकविज्ञानस्य, रासायनिकाभियान्त्रिक्यै एषा संस्था विश्वप्रसिद्धा ।

परिसरः[सम्पादयतु]

राष्ट्रियरासायनिकप्रयोगशालायाः परिसरः पुणे-महानगरस्य डॉ. होमी भाभा-मार्गे अस्ति । तस्य परिसरस्य विस्तारः अधिकः अस्ति । परिसरस्य व्यवस्था, साधनसुविधा इत्यादिषु प्रयोगशालायाः भव्यता प्रत्यक्षा भवति । एतस्यां प्रयोगशालायां १३०० अधिकाः कर्मचारिणः सन्ति । तेषु ५०० तः अधिकाः वैज्ञानिकाः सन्ति । परिसरेऽस्मिन् बृहन् ग्रन्थालयः अस्ति । तस्मिन् ग्रन्थालये लक्षाधिकानि पुस्कानि सन्ति । तत्र ६०० अधिकाः पत्रिकाः अपि उपलभ्यन्ते । ग्रन्थालये एव रसायनस्य, रसायनप्रौद्योगिक्याः च कृते राष्ट्रियसूचनाकेन्द्रस्य स्थापना कृता अस्ति । तत् केन्द्रम् अन्ताराष्ट्रियसूचनाकेन्द्रैः सह सँल्लग्नम् अस्ति । औद्योगिकसंस्थाः, शैक्षणिकसंस्थाः च एतत्केन्द्रं बाहुल्येन उपयुञ्जते । आधुनिकसुविधाभिः सज्जे एतस्मिन् परिसरे वृक्षबाहुल्यम् अपि अस्ति । एवं विविधानां जीवानम् अत्र उपस्थित्वात् परिसरस्य वातावरणं रम्यं भवति ।

आचार्यस्य योगदानम्[सम्पादयतु]

आचार्यः प्रफुल्लचन्द्रः इङ्गलैण्ड-देशस्य एडिनबरा-विश्वविद्यालये षड्वर्षं यावत् अध्ययनम् अन्वेषणं च कृत्वा डी. एस्. सी इत्युपाधिम् अलभत । ततः भारतं प्रत्यागतः सः कोलकाता-नगरस्थे प्रेसीडेन्सी-महाविद्यालये सहायकप्राध्यापकत्वेन वृत्तिम् अलभत । आचार्यः प्रफुल्लचन्द्रः रायः आदर्शः अध्यापकः आसीत् । तस्य विद्यार्थिनः तम् 'आचार्यदेव' इति सम्बोधयन्ति स्म । नीलरतन धर, सत्येन्द्रनाथ बसु, मेघनाद साहा, पञ्चानन नियोगी, यतीन्द्रनाथ सेन इत्यादयः भारतस्य प्राप्तख्यातयः वैज्ञानिकाः तस्य विद्यार्थिनः आसन् । शान्तिस्वरूप भटनागर इत्येषः स्वतन्त्रे भारते राष्ट्रियप्रयोगशालानां स्थापनाम् अकरोत् । राष्ट्रियप्रयोगशालानां स्थापनाकाले शान्तिस्वरूपः यतीन्द्रनाथादेवस्य मार्गदर्शनं प्राप्नोति स्म । अतः आचार्यः प्रफुल्लचन्द्रः शान्तिस्वरूपं 'रासायनिक-प्रशिष्यत्वेन' स्वीकरोति स्म ।

परतन्त्रे भारते भारतीयाः उद्योगपतयः स्वोद्योगक्षेत्रे विज्ञानस्य उपयोगं न कुर्वन्ति स्म । परन्तु आचार्यः जानाति स्म यत्, इङ्ग्लैण्ड-देशेन औद्योगिकक्षेत्रे क्रान्तिं कृत्वा एव विकासः साधितः इति । अतः सः भारतेऽपि रसायनोद्योगाय प्रयोगशालायाः आरम्भाय सङ्कल्पितवान् । १८९२ तमे वर्षे प्रफुल्लचन्द्रः कोलकाता-महानगरस्य अपर-कुलर-नामके मार्गे स्थिते ९१ क्रमाङ्कस्य गृहे भाटकेन निवसति स्म । यतो हि स्वसङ्कल्पं पूर्णीकर्तुं तस्य पार्श्वे किमपि अनुकूलम् अन्यत् स्थानं नासीत्, अतः सः तस्मिन् गृहे रसायनोद्योगप्रयोगशालायाः आरम्भम् अकरोत् । तस्मिन् काले केवलं ८०० रूप्यकाणां निवेशे कृते सति, यस्याः कार्यशालायाः आरम्भः जातः आसीत्, सा एव कार्यशाला अद्य बङ्गाल केमिकल् एण्ड् फर्मास्यूटिकल् वर्क्स् लिमिटेड् इति नाम्ना विश्वप्रसिद्धा वर्तते ।

१८९६ तमे वर्षे आचार्यः पारा-धातोः कृते वैकृन्तस्य लवणविशेषस्य (Mercuric nitrate) संशोधनम् अकरोत् । ततः तस्य कीर्तिदीपः रासायनिकजगति प्राज्ज्वलत् । रसायनक्षेत्रे प्राचीनभारतीयानाम् उपलब्धिम् अपि सः जानाति स्म । अतः द्वादशस्य वर्षाणाम् अविरतप्रायसेन 'हिन्दू रसायन का इतिहास ' इत्याख्यं पुस्तकं सः प्रकाशितवान् ।

प्रयोगशालायाः विकासः[सम्पादयतु]

१९३७ तमे वर्षे 'बङ्गाल् केमिकल्स्' इत्येतया प्रयोगशालया सह अनुसन्धानप्रयोगशाला अपि आरब्धा । तस्याम् अनुसन्धानप्रयोगशालायां नूतनानाम् ओषधीनाम् आविष्कारः भवति स्म । ततः स्वतन्त्रे भारते भारतीयेभ्यः अनुकूलपरिस्थितिः समुत्पन्ना । अतः विदेशेषु यथा भव्यातिभव्येषु भवनेषु प्रयोगशालाः भवन्ति स्म, तथैव भारतेऽपि निर्माणम् आरब्धम् । १९४७ तमे वर्षे वैज्ञानिकि-प्रौद्योगिक-अनुसन्धान-परिषदः स्थापना अभवत् । तस्याः संस्थायाः अन्तर्गततया कासाञ्चन प्रयोगशालानाम् अपि स्थापना अजायत । तासु प्रयोगशालासु पुणे-महानगरे स्थिता राष्ट्रियरासायनिकप्रयोगशाला अपि अन्यतमा । १९४७ तमे वर्षे रासायनिकप्रयोगशालायाः आरम्भस्तु अभवत्, परन्तु अनुसन्धानकार्यं १९४९ तमे वर्षे आरब्धम् ।

वेत्र(bamboo)सम्बद्धम् अन्वेषणम्[सम्पादयतु]

वेत्रः मनुष्येभ्यः अतीवोपयोगी अस्ति । जन्मनः मृत्योः पर्यन्तं तस्य उपयोगः भवति । परन्तु तस्य अद्भुतस्य महातृणस्य स्थौल्यं सामान्यं नास्ति । वेत्रस्य विभिन्नोपप्रजातयः सन्ति, तासां स्थूलता द्वादशवर्षेषु अपि भवति केषाञ्चन कृते विंशत्यधिकशतं वर्षाणि अपि अपेक्ष्यन्ते । परन्तु वेत्रस्य वृद्धिः अत्यधिका तीव्रा भवति । तस्य वेत्रस्य विकासं वयं द्रष्टुम् अपि शक्नुमः । यदा वेत्रः अष्ट उत दश मीटरपरिमितः उन्नतः भवति, तदा तस्मिन् स्थौल्यप्रक्रिया आरभते । स्थौल्यप्रक्रियायाः अनन्तरं तस्य वेत्रस्य जीवनं समाप्तं भवति । अनया सामान्यया प्रक्रियया वेत्राद् अधिकः लाभः न भवति । परन्तु राष्ट्रियरासायनिकप्रयोगशालायाः वैज्ञानिकैः तादृशस्य मित्रपोषकपदार्थस्य निर्माणं कृतम् अस्ति, येन वेत्रे वृद्ध्युत्तरं स्थौल्यप्रक्रिया शीघ्रम् अधिककालं यावच्च भवति ।

राष्ट्रियरासायनिकप्रयोगशालायाः वैज्ञानिकैः यः पोषकपदार्थः निर्मितः, तस्मिन् नारिकेलस्य दुग्धमिश्रितं भवति । ततः ऊतिसंवर्धकपद्धतेः (tissue) उपयोगं कृत्वा तैः वेत्राः पोषकमिश्रपदार्थेन सिच्यन्ते । एवं वेत्रस्य तिस्रः प्रजातयः त्रिंशत् सप्ताहेषु एव पुष्पिताः जाताः । विज्ञानजगति वेत्रशीघ्रस्थौल्यीकरणप्रयोगः प्रसिद्धः अभवत् । एतस्य प्रयोगस्य विषये विज्ञानक्षेत्रस्य 'नेचर्' इत्याख्यायां प्रसिद्धायां पत्रिकायां लेखः अपि प्रकाशितः । तस्मिन् लेखे वेत्रशीघ्रस्थौल्यीकरणप्रयोगस्य वैज्ञानिकतथ्यैः सह विवरणं प्रदर्शितम् अस्ति । अद्यत्वे वेत्रस्य सर्वाधिकोपयोगः कागदनिर्माणक्षेत्रे भवति । समग्रे विषये वेत्रस्य सहस्राधिक्यः प्रजातयः सन्ति । तासु विंशत्यधिकशतं प्रजातयः भारते उद्भवन्ति । भारते कदाचित् एककोटि-हेक्टर्-परिमिते क्षेत्रे वेत्रकृषिः भवति । राष्ट्रियरासायनिकप्रयोगशालायाः संशोधनत्वात् सम्पूर्णे भारते वेत्रकृषौ वृद्धिः अभवत् । इतः परम् अस्याः संस्थायाः लक्ष्यम् अस्ति यद्, अखिले भारते रोगमुक्ताः, अधिकसशक्ताः, शीघ्रवर्धमानाः वेत्राः भवेयुः इति । एतावदेव न अपि तु अनेन संशोधनेन अन्येषां सस्यानाम् अपि विकासे वृद्धिः जाता अस्ति । महाराष्ट्रराज्ये महत्प्रमाणेन सी-ओ-७४० इत्याख्यस्य इक्षोः उत्पादनं भवति । तम् इक्षुं सर्वथा रोगमुक्तं कृत्वा तस्य बीजोत्पादनक्षमतायाम् अपि वृद्धिः जाता । येषु अन्येषु सस्येषु अपि अनेन संशधोनेन विकासवृद्धिः अभवत्, तेषां नामानि एला, हरिद्रा, शार्ङ्गम् इत्यादीनि ।

उत्प्रेरकक्षेत्रे संशोधनम्[सम्पादयतु]

एकविंशे अब्दे रासायनिकोद्योगक्षेत्रे उत्प्रेरकाणाम् (Catalyst) अधिकः उपयोगः दरीदृश्यते । उत्प्रेरकपदार्थः तादृशः पदार्थः भवति, यः रासायनिकप्रक्रियायाः वेगं वर्धयति उत न्यूनीकरोति । परन्तु एतस्यां प्रक्रियायां तस्मिन् उत्प्रेरके किञ्चिदपि परिवर्तनं न जायते । उत्प्रेरकाणाम् उपयोगेन अनेकेषां नवीनानां पदार्थानाम् उपयोगः सुकरः जातः । ततोधिकं जलकरः (Hydrogen), कौकिलीयवायुः (Carbon monoxide), रुचककरः (Nitrogen) इत्यादिभ्यः अधिकाः दुष्प्राप्याः पदार्थाः सुलभ्याः अभूवन् । 'जिओलाइट्' इत्याख्ये उत्प्रेरके दशाधिकेभ्यः वर्षेभ्यः शोधकार्यं जातम् । अत्र अनेकेषां 'जिओलाइट्'-उत्प्रेरकाणां विकासः जातश्च । रासायनिकक्षेत्रे एतस्य 'जिओलाइट्'-उत्प्रेरकस्य प्रसिद्धिः 'आणविकजालिका'त्वेन अस्ति । तस्याः आणविकजालिकायाः उपयोगः तैल्योत्पादनस्य कार्ये बुहधा भवति । राष्ट्रियरासायनिकप्रयोगशालायां येषां जिओलाइट्-उत्प्रेरकाणां विकासः अभवत्, तेषु एनसीलाइटेस्-१, एनसीलाइटेस्-2 प्रसिद्धौ ।

एथानॉल्-संशोधनम्[सम्पादयतु]

अग्नितैलस्य (Petrol) प्राप्तिः प्रतिदिनं क्लिष्टा जायमाना अस्ति । एथानॉल् (एथिल् ऐल्कोहॉल्) इत्येतत् तादृशं द्रव्यम् अस्ति, यस्योपयोगं यन्त्रेषु इन्धनत्वेन अग्नितैलस्य स्थाने कर्तुं शक्नुमः । किण्वन्-प्रक्रियया (फर्मेन्टेशन्) इक्षोः अग्रभागात् एखानॉल्-द्रव्यस्य निर्माणं कर्तुं शक्यते । 'एनसीलियम्' इत्यस्य उपयोगेन इक्षोः अग्रभागात् 'एथानॉल्'-द्रव्यं प्राप्तुं नवीनायाः पद्धत्याः आविष्कारः राष्ट्रियरासायनिकप्रयोगशालायाः वैज्ञानिकैः कृतः । एनसीलियम् इत्यस्मिन् तादृशी विशिष्टता अस्ति यद्, उत्प्रेरकस्य प्रतिक्रियां दीर्घकालं यावद् रक्षति । अतः एव इक्षोः अग्रभागे बहुभ्यः मासेभ्यः 'एथानॉल्' इत्यस्य सततं परिवर्तनं समजायत । एतया पद्धत्या एथानॉल् इत्यस्य उत्पादने प्रतिशतं १५ तः २० % यावत्यः वृद्धयः जाताः ।

बहुलकक्षेत्रे संशोधनम्[सम्पादयतु]

एतस्यां प्रयोगशालायां बहुलकविषये (Polymer) व्यापकं संशोधनं जायमानम् अस्ति । बहुलकम् इति लघ्वणूनां कयाचित् शृङ्खलया निर्मिताः महान्तः अणवः । दैनन्दिनस्य उपयोगाद् उच्चतमतकनीकीक्षेत्रे एतस्य बहुलकस्य उपयोगः व्यापकः अस्ति । एतस्यां प्रयोगशालायां बहुलकरसायनविभागस्यापि आरम्भः अभवत् । एतस्यां प्रयोगशालायां विंशत्यधिकानां बहुलकानाम् आविष्कारः जातः, तेषां सर्वेषाम् उद्योगक्षेत्रे बाहुल्येन उपयोगः जायते । घर्षकः (rubber) द्विधा उत्पद्यते । प्राकृतिकरीत्या, कृत्रिमरीत्या च । भारते संश्लेषितपद्धत्या कृत्रिमघर्षकस्य उत्पादनं भवति । सः कृत्रिमघर्षकः त्रिविधः । तेषु नाइट्राइल-घर्षकः प्रयोगशालायाः वैज्ञानिकैः पॉलीमर-आधारेण आविष्कृतः अस्ति । तस्य नान्ट्राइल-घर्षकस्य व्यापारिकं नाम 'केमाप्रेन्' इति । अद्य एतस्य 'केमाप्रेन्'-घर्षकस्य निर्माणाय भारते कार्यशाला अपि अस्ति ।

प्रयोगशालायाः वैज्ञानिकैः तादृशस्य बहुलकस्य विकासः कृतः अस्ति, यः अधिकाधिकं जलं शोषयितुं शक्नोति । तस्य बहुलकस्य नाम 'जलशक्तिः' इति । जलशक्ति-बहुलकस्य एक-ग्राम-परिमितमात्रा १०० तः १००० ग्राम-परिमितपर्यन्तं जलं शोषयितुं सक्षमा । तत् शोषितं जलं तत्र चिरकालं यावत् रक्षितुम् अपि शक्यते । भारते बहुत्र एतादृशस्य बहुलकस्य उपयोगः कृषिकार्ये अपि दृश्यते । तस्य बहुलकस्य उपयोगेन पाकोत्पादनक्षमतायां १० तः ४० प्रतिशितं वृद्धिः अभवत् । येषु क्षेत्रेषु जलाभावस्थितिः अस्ति, तेषु क्षेत्रेषु जलशक्तेः उपयोगः लाभप्रदः सिद्ध्यति । सैनेटरी-नेपकिन्, रुग्णालयेषु अपि एतादृशस्य जलावशोषकस्य उपयोगः भवति ।

शल्यक्रियायां सत्यां कदाचित् कस्यचित् जनस्य पादविच्छेदः क्रियते, तर्हि तस्य स्थाने कृत्रिमपादः स्थाप्यते । तस्य कृत्रिमपादस्य निर्माणं काष्ठेन, सूक्ष्मघर्षकखण्डैः च भवति । तस्य कृत्रिमपादस्य निर्माणे अधिकः कालः अपेक्ष्यते । तथा च सः कृत्रिमपादः अधिकः भारयुक्तः भवति । परन्तु राष्ट्रियरासायनिकप्रयोगशालायां पोलीयूरेथेन् इत्याख्यस्य निर्माणं जातम् अस्ति । पोलीयूरेथेन-पदार्थः दीर्घकालं यावत् चलति, तथा तस्य उपयोगः काष्ठेन सह कर्तुं शक्यते । एवं पोलीयूरेथे-पदार्थस्य उपयोगेन निर्मितः कृत्रिमः पादः अल्पभारायुक्तः भवति ।

औषधक्षेत्रे योगदानम्[सम्पादयतु]

राष्ट्रियरासायनिकप्रयोगशालायाः औषधनिर्माणेऽपि महद् योगदानम् अस्ति । अत्र विटामिन् बी6 इत्याख्यम् औषधम् आविष्कृतम् अस्ति । अद्यत्वे गुजरातराज्यस्य अङ्कलेश्वर-पत्तने तस्य औषधस्य कार्यशाला अस्ति । तत्रैव रेवीटाइडाइन् इत्याख्यम् औषधम् अपि उत्पाद्यते । कीटनाशकेषु 'मिक्' इत्याख्यस्य वायोः उपयोगेन एव १९८४ तमे वर्षे भोपालगैसकाण्डः अभवत् । परन्तु राष्ट्रियरासायनिकप्रयोगशालायां सुरक्षितस्य कीटनाशकवायोः आविष्कारः कृतः अस्ति । तस्मिन् कीटनाशके मिक्, फोसजन् इत्यादीनां घातकवायूनाम् उपयोगो न भवति । निम्बवृक्षः भारतस्य प्रख्यातः वृक्षविशेषः । सः वृक्षः भारते सर्वत्र प्राप्यते । प्राचीनभारतेऽपि तस्य वृक्षस्य कीटनाशकत्वेन, औषधत्वेन च बाहुल्येन उपयोगः भवति स्म । प्रयोगशालायामस्यां 'नीमरिच' इत्याख्यः कीटनाशकः विकासितः । परन्तु अमेरिकादेशस्य कयाचित् संस्थया अपि नीमवृक्षात् कीटनाशकः निर्मितः अस्ति । सा संस्था तस्य कीटनाशकस्य अधिकारपत्रम् (pattern) अपि निर्मापितवती । अतः भारतदेशे विकसितस्य नीमद्वारा उत्पादितौषधस्य वैश्विकस्तरे विक्रयणम् असम्भवम् अस्ति । एषा काचित् गभीरा समस्या ।

मार्गः[सम्पादयतु]

राष्ट्रियरासायनिकप्रयोगशालायाः अवस्थितिः भारतस्य पश्चिमदिग्भागे स्थिते देशस्य समृद्धतमे राज्ये अस्ति । तस्य राज्यस्य नाम महाराष्ट्रम् इति । तस्य राज्यस्य पुणे-महानगरे एषा प्रयोगशाला वर्तते । भारतस्य आर्थिकराजधानीत्वेन प्रसिद्धं मुम्बाई-महानगरम् अपि एतस्मिन् राज्ये वर्तते । तस्मात् नगरात् पुणे नगरं १८० किलोमिट्मिते दूरे अस्ति । पुणे-महानगरस्य ईशानकोणे प्रयोगशालायाः परिसरः वर्तते । पुणे-विश्वविद्यालयः एतस्य परिसरस्य समीपस्थं प्रसिद्धं स्थलम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

वैज्ञानिकी औद्योगिकी च अनुसन्धानपरिषद्

भारतसर्वकारः

रसतन्त्रम्

केन्द्रियौषधानुसन्धानसंस्थानम्

उद्धरणम्[सम्पादयतु]