सामग्री पर जाएँ

रासायनिक संयोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुद्धजलं (H2O) संयोगस्य उदाहरणम् अस्ति । अणुस्य गोल-यष्टि-प्रतिरूपं उदजनस्य (हाइड्रोजनस्य) (श्वेतः) भागद्वयोः, आक्सीजनस्य (रक्तः) एकभागस्य च स्थानिकसम्बन्धं दर्शयति ।

रासायनिक संयोगः (आङ्ग्ल: Chemical compound) रासायनिकबन्धैः एकत्र धारितेभ्यः एकादशाधिकतत्त्वेभ्यः परमाणुभिः निर्मितः अनेकैः समानैः अणुभिः (अथवा आण्विकसत्ताभिः) निर्मितः रासायनिक पदार्थः अस्ति । एकस्यैव तत्त्वस्य परमाणुयुक्तः अणुः अतः संयोगः न भवति ।

अवयवपरमाणवः कथं धार्यन्ते इति संयोगाः चतुर्विधाः -

रासायनिकसूत्रं रासायनिकतत्त्वानाम् उपसङ्ख्यानां च मानक-सङ्क्षेपाणाम् उपयोगेन यौगिक-अणुमध्ये प्रत्येकस्य तत्त्वस्य परमाणुसङ्ख्यां निर्दिशति । यथा- जलस्य अणोः सूत्रं H2O भवति यत् एकस्मिन् आक्सीजनपरमाणुना सह बद्धौ हाइड्रोजनपरमाणु (द्वयं) सूचयति । अनेक रासायनिक संयोगेसु रासायनिकसारसेवा (Chemical Abstracts Service) द्वारा नियुक्तः अद्वितीयः सीएएस (CAS) सङ्ख्यापरिचयः भवति । वैश्विकरूपेण ३,५०,००० तः अधिकानि रासायनिकसंयोगाः (रसायनानां मिश्रणं सहितं) उत्पादनार्थं उपयोगाय च पञ्जीकृतानि सन्ति ।

रासायनिकप्रतिक्रियाद्वारा द्वितीयेन पदार्थेन सह अन्तरक्रियाद्वारा संयोगः भिन्नरासायनिकपदार्थे परिणतुं शक्यते । अस्मिन् क्रमे परस्परक्रियाशीलपदार्थेषु एकस्मिन् वा द्वयोः वा परमाणुयोः मध्ये बन्धनानि भग्नाः भवन्ति, नूतनानि बन्धनानि च निर्मीयन्ते ।

प्रकाराः

[सम्पादयतु]
मुख्यलेखः : अणुः

अणुः (आङ्ग्ल: Molecule) रासायनिकबन्धैः एकत्र धारितयोः द्वयोः वा अधिकयोः परमाणुयोः विद्युतुदासीनः भवति । अणुः समनाभिकीयः भवितुम् अर्हति, अर्थात् एकस्य रासायनिकतत्त्वस्य परमाणुभिः युक्तम् अस्ति, यथा आक्सीजन्-अणु-मध्ये (O2) द्वौ परमाणुः भवति; अथवा विषमनाभिकीयः भवितुम् अर्हति, अर्थात् एकादशाधिकतत्त्वैः निर्मितं रासायनिकसंयोगः, यथा जलम् (हाइड्रोजन्-परमाणुद्वयं एकम् आक्सीजन् परमाणुः च; H2O) ।

विद्युताण्विकसंयोगाः

[सम्पादयतु]

विद्युताण्विकसंयोगः अथवा आयनिकसंयोगः (आङ्ग्ल: ionic compound) विद्युत्स्थैतिकबलैः एकत्र धारितैः आयनैः निर्मितः रासायनिकसंयोगः अस्ति यः विद्युताण्विकबन्धः अथवा आयनिकबन्धः इति उच्यते । संयोगः समग्रतया तटस्थः भवति, परन्तु धनात्मकविद्युताणुः धन्विद्युताणुः (धनायन/कटायन, cations)-नामकाः, ऋणात्मकविद्युताणुः च सन्ति, ये ऋण्विद्युताणुः (ऋणायन/अनायन, anions)-नामकाः सन्ति । एते सरलविद्युताणवः (एकपरमाण्विक) भवितुम् अर्हन्ति यथा सोडियम् क्लोराइड् मध्ये सोडियम् (Na+) क्लोराइड् (Cl) च, अथवा अमोनियम् कार्बोनेट् इत्यस्मिन् अमोनियम् (NH4+) कार्बोनेट् (CO32-) विद्युताण्वोः इत्यादीनि बहुपरमाण्विकजातयः भवितुम् अर्हन्ति ।

क्षारविद्युताणुयुक्ताः (हाइड्रोक्साइड् (OH) अथवा आक्साइड् (O2−)) विद्युताण्विकसंयोगाः क्षाररूपेण (bases) वर्गीकृताः भवन्ति । एतेषां विद्युताणुभिः विना विद्युताण्विकसंयोगाः लवणम् (salts) इति अपि ज्ञायन्ते, अम्ल–क्षारप्रतिक्रियाभिः निर्मितुं शक्यन्ते । विद्युताण्विकसंयोगाः स्वस्य घटक-विद्युताणुभ्यः तेषां विलायकस्य वाष्पीकरणेन, अवक्षेपणेन, हिमपातेन, दृढस्थिति-प्रतिक्रियायाः, अथवा प्रतिक्रियाशीलधातुनां प्रतिक्रियाशील-अधातुभिः, यथा हेलोजन्-वायुभिः सह इलेक्ट्रॉन-हस्तान्तरण-प्रतिक्रियायाः माध्यमेन अपि निर्मितुं शक्यन्ते ।

विद्युताण्विकसंयोगानां सामान्यतः उच्च-द्रवण-क्वथनबिन्दु भवन्ति, कठोरः भङ्गुरः च भवन्ति । ठोसरूपेण ते प्रायः सर्वदा विद्युतवरोधकाः भवन्ति, परन्तु द्रविताः वा विलीनाः वा भवन्ति चेत् ते अत्यन्तं चालकाः भवन्ति, यतः विद्युताणवः सञ्चालिताः भवन्ति ।

अन्तर्धात्विकसंयोगाः

[सम्पादयतु]

अन्तर्धात्विकसंयोगः (आङ्ग्ल: intermetallic compound) एकः प्रकारः मिश्रधातुः अस्ति यः द्वयोः वा अधिकयोः धातुतत्त्वयोः मध्ये क्रमबद्धं दृढ-अवस्थायुक्तं संयोगं निर्माति । अन्तर्धात्विकानि सामान्यतया कठोरः भङ्गुरः च भवन्ति, उत्तम-उच्चतापमान-यान्त्रिकगुणाः सह । एतानि रससमीकरणमितिक अथवा अरससमीकरणमितिकान्तर्धात्विकसंयोगाः इति वर्गीकृत्य स्थापयितुं शक्यन्ते ।

उपसहसंयुज्संयोगाः

[सम्पादयतु]

उपसहसंयुज्संयोगः (आङ्ग्ल: coordination complex) केन्द्रीयपरमाणुः विद्युताणुः वा भवति (यः प्रायः धातुः भवति, उपसहसंयुज्केन्द्रः (coordination centre) इति उच्यते च) बद्धानां अणूनाम् अथवा विद्युताणूनां परितः सरणी च भवति (ये क्रमेण लिगेण्ड् (ligand) अथवा सङ्कुलीकरणकारकाः (complexing agent) इति ज्ञायन्ते) । अनेकधातुयुक्ताः संयोगाः विशेषतः ट्राञ्जिशन्-धातुनाम् उपसहसंयुज्संयोगाः सन्ति । यस्य उपसहसंयुज्संयोगस्य केन्द्रं धातुपरमाणुः भवति तत् d ब्लाकतत्त्वस्य धातुसंकुलम् (metal complex) इति कथ्यते ।

प्रतिक्रियाः

[सम्पादयतु]

रासायनिकप्रतिक्रियाद्वारा द्वितीयेन रासायनिकसंयोगेन सह अन्तरक्रियाद्वारा संयोगः भिन्नरासायनिकसंरचनायां परिवर्तयितुं शक्यते । अस्मिन् क्रमे परस्परक्रियाशीलसंयोगयोः परमाणुयोः बन्धनानि भग्नाः भवन्ति, ततः बन्धनानां सुधारः भवति येन परमाणुषु नूतनाः सङ्गतिः भवति । योजनाबद्धरूपेण एषा प्रतिक्रिया 𑀓𑀔 + 𑀕𑀖 → 𑀓𑀖 + 𑀕𑀔 इति वर्णयितुं शक्यते स्म, यत्र 𑀓, 𑀔, 𑀕, 𑀖 च प्रत्येकः विशिष्टः परमाणुः सन्ति; 𑀓𑀔, 𑀓𑀖, 𑀕𑀖, 𑀕𑀔 च प्रत्येकः विशिष्टः संयोगः सन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=रासायनिक_संयोगः&oldid=468455" इत्यस्माद् प्रतिप्राप्तम्