वायुः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(वायु: इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
वायोः गुह्यस्वरूपम्

वायुः ( ( शृणु) /ˈvɑːjʊhʊ/) (हिन्दी: वायु, आङ्ग्ल: Air) अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते ।[१]

पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं वायुमण्डलं कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।[२]

वायुमण्डलं विभिन्नवायूनां मिश्रणम् अस्ति । एभिः वायुभिः पृथिवी आच्छादिता वर्तते । अस्मिन् वायुमण्डले मनुष्याणां जन्तूनां च जीवनाय आवश्यकवायुः ऑक्सीजन् इति प्राप्यते । पादपेभ्यः कार्बन् डाई ऑक्साइड् इति वायुः अपि वायुमण्डले प्राप्यते । वायुः वर्णहीनः, गन्धहीनः च भवति । यदा वायुः प्रवहति, तदा पवनः कथ्यते । पवनः अनुभवितुं शक्यते ।[३]

अन्तर्विषयाः

वायुमण्डलस्य सङ्घटनम्[सम्पादयतु]

वायुमण्डलं वायुभिः, जलबाष्पेन, रजकणैः च निर्मितम् अस्ति । श्वसनक्रियायां वयं वायोः उपयोगं कुर्मः । वास्तविकतया वायुमण्डलम् अनेकानां वायूनां मिश्रणं भवति । वायुमण्डले बहवः वायवः प्राप्यन्ते । यथा – नाइट्रोजन्, ऑक्सीजन्, कार्बन् डाई ऑक्साइड्, हीलियम्, ऑजोन्, ऑर्गान्, हाइड्रोजन् च । तेषु नाइट्रोजन्, ऑक्सीजन्वायुमण्डलस्य बृहत्तमेषु भागेषु प्राप्यते । अन्ये वायवः अल्पमात्रायां प्राप्यन्ते । वायुमण्डले रजकणाः अपि सन्ति ।[४]

वायुमण्डले स्थितानां वायूनां द्रव्यमानम् अधः लिखितम् अस्ति ।[५]

वायवः(गैस)[सम्पादयतु]

नाइट्रोजन्[सम्पादयतु]

नाइट्रोजन् इति वायुः वायुमण्डले सर्वाधिकमात्रायां विद्यते । श्वसनक्रियायाम् ऑक्सीजन् इत्यनेन वायुना सह नाइट्रोजन् अपि वयं स्वीकुर्मः । तं स्वीकृत्य वयं पुनः निष्कासयामः । पादपानां विकासाय नाइट्रोजन् इत्यस्य वायोः आवश्यकता वर्तते । किन्तु ते पादपाः वायुमण्डलात् साक्षात् नाइट्रोजन् स्वीकर्तुम् असमर्थाः भवन्ति ।[६]

ऑक्सीजन्[सम्पादयतु]

वायुमण्डले ऑक्सीजन् अपि पर्याप्तमात्रायां प्राप्यते । मनुष्याः पशवश्च वायुमण्डलात् ऑक्सीजन् प्राप्नुवन्ति । हरिताः पादपाः प्रकाशसंश्लेषणप्रक्रियया ऑक्सीजन् इत्ययं वायुम् उत्पादयन्ति । तेन कारणेन वायुमण्डले ऑक्सीजन् वायोः मात्रा समानं भवति । यदि वृक्षच्छेदनं कुर्मः चेत् अस्य सन्तुलनम् अव्यवस्थितं भवति ।[७]

कार्बन् डाई ऑक्साइड्[सम्पादयतु]

कार्बन् डाई ऑक्साइड् इत्ययम् ऋतुविज्ञानदृष्ट्या अतिमहत्वपूर्णः वायुः वर्तते । हरितपादपाः भोजनरूपेण कार्बन् डाइ ऑक्साइड् इतीमं वायुं स्वीकुर्वते । ततः परं पादपाः ऑक्सीजन् वायुं प्रतिददति । मनुष्याः, पशवः च कार्बन् डाई ऑक्साइड् वायुं निष्कासयन्ति । जीवानां पादपानां च परस्परप्रक्रियया वायुमण्डलं सन्तुलितं भवति । किन्तु अङ्गाराणां, खानिजतैलानां च ज्वालनेन अस्य स्थितिः दूषिता भवति । तेन कारणेन प्रतिवर्षं कोटि टन् कार्बन् डाई ऑक्साइड् वायोः वृद्धिः भवति । कार्बन् डाई ऑक्साइड् वायोः वृद्ध्या पृथिव्याम् ऋतवः, जलवायवः च प्रभाविताः भवन्ति ।[८]

कार्बन् डाई ऑक्साइड् वायुमण्डले आस्तीर्य (spread) पृथिव्या विकिरिताः उष्माः पृथिव्याम् एव अवरुध्य ग्रीन् हाऊस् इति उत्पादयति । अतः अयं ग्रीन् हाऊस् वायुः अपि कथ्यते । अस्य वायोः अभावे पृथिव्याम् अत्यधिकशीतलता भवति । तेन कारणेन पृथिव्यां निवासः अशक्यः भवति । यदा यन्त्रागाराणां यानानां धूमेन वायुमण्डले कार्बन् डाई ऑक्साइड् इत्यस्य स्तरः वर्धते, तदा अत्यधिकोष्मायाः कारणेन पृथिव्याः तापमाने वृद्धिर्भवति । इदं भूमण्डलीयं तापमानं कथ्यते । तापमानवृद्ध्या पृथिव्याः शीतलप्रदेशानां हिमानि द्रवन्ते । तेन कारणेन समुद्रस्य जलस्तरे वृद्धिर्भवति । अतः तटीयक्षेत्रेषु जलेन हानिः भवति । अस्य परिणामेन पादपानां नाशः, पशूनां, मनुष्याणां च मृत्युः भवति । [९]

जलबाष्पः[सम्पादयतु]

जलबाष्पः वायुमण्डलस्थः परिवर्तनीयः वायुः वर्तते । औन्नत्ये सति अस्य क्षयः भवति । उष्णकटिबन्धक्षेत्रे, उष्णार्द्रकटिबन्धक्षेत्रे च अयं ४% भवति । शीतलप्रदेशेषु , मरुस्थलेषु च अयं १% भवति । विषुवत्वृत्ततः ध्रुवपर्यन्तं जलवाष्पस्य मात्रा न्यूना भवति । अयं जलबाष्पः सूर्यस्य किञ्चित् तापम् अवशोषयति । पृथिव्याः जायमानं तापं सङ्गृह्णाति । जलबाष्पेन पृथिव्याः तापमानं सन्तुलितं भवति । जलबाल्पेन वायुः स्थिरः, अस्थिरः च भवति ।[१०]

रजकणाः[सम्पादयतु]

वायुमण्डले लघुकणाः अपि विद्यमानाः भवन्ति । यथा – समुद्रलवणं, मृत्तिका, धूमः, राक्षः, परागः, रजः, उल्कानां लघुकणाः च । यद्यपि वायुमण्डलस्य अधः भागे रजकणाः विद्यन्ते, तथापि वायुप्रवाहेण रजकणाः औन्नत्यं प्राप्नुवन्ति । रजस्य, लवणस्य च कणाः आर्द्रताग्राहीकेन्द्रत्वेन कार्यं कुर्वन्ति । तेन कारणेन परितः जलबाष्पः सङ्घनितः भवति । तदनन्तरं मेघानां निर्माणं कारयति ।[११]

वायुमण्डलस्य संरचना[सम्पादयतु]

वायुमण्डलं पृथक्-पृथक् घनत्वस्य, तापमानस्य च स्तरैः निर्मितम् अस्ति । पृथिव्याः स्तरे घनत्वम् अधिकं भवति । किन्तु औन्नत्ये सति घनत्वस्य क्षयः भवति ।

वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः सन्ति । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलं, बाह्यवायुमण्डलं, बहिर्मण्डलं च ।

क्षोभमण्डलम्[सम्पादयतु]

इयं वायुमण्डलस्य महत्वपूर्णः स्तरः वर्तते । अस्य मण्डलस्य उच्चता प्रायः १३ कि. मी. अस्ति । सामान्यतः अस्य उच्चता १३ कि. मी. अस्ति । अस्मिन् मण्डले स्थिताः वायवः एव अस्मभ्यम् उपयुक्ताः वर्तन्ते । वर्षा इत्यादयः प्रक्रियाः अस्मिन् मण्डले एव भवन्ति ।[१२]

इदं मण्डलं ध्रुवस्य समीपं ८ कि. मी., विषुवत्-वृत्ते १८ कि. मी. औन्नत्ये स्थितम् अस्ति । क्षोभमण्डलस्य उच्चता विषुवत्-वृत्ते सर्वाधिका वर्तते । यतः वायुप्रवाहेन तापस्य अधिकोच्चतायां संवहनं भवति । अतः एव संस्तरे रजकणाः, जलबाष्पः च उपस्थिताः सन्ति । अस्मिन् संस्तरे एव ऋतूनां परिवर्तनं भवति । अस्मिन् संस्तरे प्रति १६५ मी. औन्नत्ये १o सेल्सियस् न्यूनं भवति । जैविकप्रक्रियायै अयं स्तरः महत्वपूर्णः वर्तते ।[१३]

क्षोभसीमा[सम्पादयतु]

क्षोभसीमा क्षोभमण्डलसमतापमण्डलयोः मध्यस्थः अस्ति । विषुवत्-वृत्ते क्षोभसीमायां वायोः तापमानं -८०o, ध्रुवे -४५o भवति । अत्र तापमानं स्थिरं भवति, अतः इयं क्षोभसीमा इति कथ्यते ।[१४]

समतापमण्डलम्[सम्पादयतु]

क्षोभमण्डलात् परं समतापमण्डलं स्थितम् अस्ति । इदं मण्डलं ५० कि. मी. पर्यन्तं विस्तृतमस्ति । इदं मण्डलं मेघेभ्यः, ऋतूनां परिवर्तनेभ्यः मुक्तं भवति । अतः वायुयानस्य परिवहने साहाय्यं भवति । अस्य मण्डलस्य वैशिष्ट्यम् अस्ति यत् अस्मिन् मण्डले ओजोन् वायोः स्तरं भवति । तेन कारणेन इदं स्तरं सूर्यस्य हानिकारकवायुभ्यः अस्मान् रक्षति ।[१५]

मध्यमण्डलम्[सम्पादयतु]

अयं वायुमण्डलस्य तृतीयः स्तरः वर्तते । समतापमण्डलस्य उपरि इदं मण्डलं स्थितम् अस्ति । प्रायः ८० कि. मी. पर्यन्तं विस्तृतं वर्तते । अन्तरीक्षात् आगताः उल्काः इदं मण्डलं प्रविश्य ज्वलन्ति ।[१६]

अस्मिन् मण्डले उच्चतायां तापमानं न्यूनं भवति । ८० कि. मी. औन्नत्ये सति तापमानं -१००o भवति । मध्यमण्डलस्य उपरिस्तरः मध्यसीमा इति कथ्यते ।[१७]

बाह्यवायुमण्डलम्[सम्पादयतु]

बाह्यवायुमण्डले औन्नत्ये सति तापमानम् अपि तीव्रतया वर्धते । आयनमण्डलम् अस्य स्तरस्य कश्चित् भागः वर्तते । इदं मण्डलं ८० तः ४०० कि. मी. पर्यन्तं विस्तृतम् अस्ति । आकाशवाण्याः सञ्चाराय इदं मण्डलम् एव उपयुज्यते । पृथिव्याः प्रसारिताः आकाशवाण्याः तरङ्गाः पृथिव्याम् अस्मात् मण्डलात् एव परावर्तिताः क्रियन्ते ।[१८]

अस्मिन् मण्डले विद्युत्युक्ताः (electric charged) कणाः प्राप्यन्ते, अतः इदं मण्डलम् आयनमण्डलम् अपि कथ्यते ।[१९]

बहिर्मण्डलम्[सम्पादयतु]

वायुमण्डलस्य उच्चतमं मण्डलं बहिर्मण्डलं वर्तते । हीलियम् हाइड्रोजन् इत्यादयः न्यूनभारवायवः अस्मात् मण्डलात् उपरि एव तरन्ति ।[२०] इदं सर्वोच्चतमं मण्डलं वर्तते, अतः अस्य मण्डलस्य अधिकं ज्ञानं न प्राप्यते । अस्मिन् मण्डले स्थिताः सर्वे घटकाः विरलाः सन्ति । ते सर्वे समयान्तरे बहिः-अन्तरीक्षे मिलन्ति ।[२१]

वायुमण्डलस्य तापमानम्[सम्पादयतु]

प्रतिदिनं वयं वायुमण्डलस्य तापमानम् अनुभवामः । वायौ उपस्थितं तापस्य, शीतलतायाः च परिमाणं तापमानम् इति कथ्यते ।

वायुमण्डलस्य तापमानं दिवसे, रात्रौ च परिवर्तते, अपि तु ऋतूनाम् अनुसारेण अपि परिवर्तते । शीतर्तोः अपेक्षया ग्रीष्मर्तुः अधिकः उष्णः भवति ।

’आतपन’ कश्चनः महत्वपूर्णः कारकः वर्तते । सः तापमानस्य वितरणं प्रभावितं करोति । सूर्यात् आगता ऊर्जा पृथिव्या अवरूध्यते । सा ऊर्जा आतपनम् इति कथ्यते ।

आतपनस्य मात्रा भूमध्यरेखातः ध्रुवपर्यन्तं न्यूनं भवति । अतः तापमानम् अपि तथैव न्यूनं भवति । अत एव ध्रुवः हिमाच्छादितः भवति । यदि पृथिव्याः तापमानम् अत्यधिकं वर्धते, तर्हि पृथ्वी अपि अत्यधिका उष्णा भवति । तेन कारणेन कानिचित् सस्यानि नोत्पद्यन्ते । ग्रामस्य अपेक्षया नगराणां तापमानम् अधिकं भवति । मध्याह्ने ऐसाफेल्ट् इत्यनेन निर्मिताः मार्गाः, कॉङ्क्रीट् इत्यनेन निर्मितानि, भवनानि च उष्णानि भवन्ति । रात्रौ इमे सर्वे ऊष्मायुक्ताः भवन्ति । नगरेषु उच्चभवनानि वायुं रुन्धन्ति । तेन कारणेन नगराणां तापमानं वर्धते ।[२२]

वायुमण्डलस्य उष्णशीतयोः भिन्न-भिन्नाः प्रकाराः सन्ति । प्रवेशिसौरकिरणेभ्यः पृथ्वी उष्णा भवति । तदनन्तरं पृथ्वी स्तरस्य निकटस्थस्य वायुमण्डलस्य स्तरेषु दीर्घतरङ्गरूपेषु तापस्य सञ्चरणं करोति । पृथिव्याः सम्पर्केण वायुः उष्णः भवति । इयं प्रक्रिया चालनम् (Conduction) इति कथ्यते । चालनम् इति तदैव भवति, यदा असमानतापिपिण्डद्वयं परस्परं सम्पर्के भवति । उष्णपिण्डतः शीतलपिण्डपर्यन्तम् ऊर्जायाः प्रवाहः चलति । ऊर्जायाः स्थानान्तरणं तावत् भवति, यावत् द्वयोः पिण्डयोः तापमानं समानं भवेत् । वायुमण्डलस्य अधस्थस्य स्तरस्य उष्णीकरणे चालन इति महत्वपूर्णं वर्तते ।

पृथिव्याः सम्पर्के आगताः वायवः धाराणां स्वरूपे लम्बवत् भवन्ति । तेन वायुमण्डले तापस्य सञ्चरणं भवति । वायुमण्डलस्य लम्बवत् तापनस्य इयं प्रक्रिया संवहन (Convention) इति कथ्यते । अयम् ऊर्जायाः स्नानान्तरणस्य कश्चनः प्रकारः वर्तते । अयं क्षोभमण्डलं यावत् एव भवति ।

वायुमण्डलस्य क्षैतिजसञ्चलनेन उत्पन्नस्य तापस्य स्थानान्तरणम् अभिवहनम् (Advection) इति कथ्यते । लम्बवत् सञ्चलनस्य अपेक्षया वायोः क्षैतिजसञ्चलनं सापेक्षिकरूपेण अधिकं महत्वपूर्णं भवति ।

लघुतरङ्गरूपेण पृथिव्याः प्राप्तं प्रवेशिसौरविकिरणं पृथिव्याः स्तरम् उष्णं करोति । पृथ्वी स्वयम् उष्णीभूय कश्चनः विकिरणपिण्डः भवति । तदा वायुमण्डले दीर्घतरङ्गरूपेण ऊर्जायाः विकिरणं कुर्वन्ति । अनया ऊर्जया वायुमण्डलम् अधस्थात् उष्णं भवति । इयं प्रक्रिया पार्थिवविकिरणम् इति कथ्यते ।

दीर्घतरङ्गदैर्घ्यविकिरणं वायुमण्डलीयवायुभिः कार्बन् डाई ऑक्साइड्, ग्रीन् हाऊस् वायुभिः च अवशुष्यते । अनेन प्रकारेण वायुमण्डलम् अप्रत्यक्षरूपेण पार्थिवविकिरणैः उष्णं भवति, न तु साक्षात् सूर्यतापेन । तदनन्तरं वायुमण्डलस्य विकीर्णनेन तापः अन्तरिक्षे सञ्चरितः भवति । अनेन पृथिव्याः स्तरस्य, वायुमण्डलस्य च तापमानं स्थिरं भवति ।[२३]

वायुभारः[सम्पादयतु]

वायोः अस्माकं शरीरे उच्चभारः वर्तते । किन्तु वयम् अनुभवितुं न शक्नुमः । कारणं वायूनां भारः अस्माकं शरीरे चतुर्दिग्भ्यः भवति । अस्माकं शरीरं विपरीतबलं कारयति ।

पृथिव्याः स्तरेषु वायूनां भारः वर्तते । सः वायुभारः कथ्यते । वायुमण्डले उपरि गमने सति वायोः भारः न्यूनः भवति । समूद्रस्तरेषु वायोः भारः सर्वाधिकः भवति । अधिकतापमानीयक्षेत्रेषु वायुः उष्णीभूय उपरि गच्छति । सदैव वायुः उच्चभारक्षेत्रात् निम्नभारक्षेत्रपर्यन्तं गच्छति ।[२४]

वायुमण्डलस्य सामान्यं परिसञ्चरणम्[सम्पादयतु]

भूमण्डलीयवायूनां प्रारूपाः निम्नलिखितविषयेषु आधारिताः भवन्ति ।

  1. वायुमण्डलीयतापे अक्षांशीयः भिन्नता,
  2. वायुभारपट्टिकानाम् उपस्थितिः,
  3. वायुभारपट्टिकानां सौरकिरणैः सह विस्थापनम्,
  4. महासागराणां, महाद्वीपानां च वितरणम्,
  5. पृथिव्याः घूर्णनम् ।

वायुमण्डलीयवायूनां प्रवाहस्य प्रारूपं वायुमण्डलीयसामान्यपरिसञ्चरणम् अपि कथ्यते । अनेन वायुमण्डलीयपरिसञ्चरणेन महासागरीयजलम् अपि गतिमत् भवति । तेन पृथिव्याः जलवायवः प्रभाविताः भवन्ति ।

वायुमण्डलस्य सामान्यपरिसञ्चरणं महासागरान् अपि प्रभावितान् करोति । वायुमण्डलस्य वायवः महासागरीयजलधाराः अपि प्रभाविताः कुर्वन्ति । महासागरेभ्यः वायुः ऊर्जां, जलबाष्पं च प्राप्यते ।[२५]

ऋतुवायवः[सम्पादयतु]

वायूनां प्रवाहस्य प्रारूपे विभिन्नासु ऋतुषु परिवर्तनानि भवन्ति । अत्यधिकतापनेन, वायुभिः, वायुभारपट्टिकानां विस्थापनेन च इमानि परिवर्तनानि भवन्ति । विस्थापनस्य सर्वाधिकः स्पष्टः प्रभावः दक्षिणपूर्व-एशिया इत्यस्मिन् क्षेत्रे प्रावृड्वायूनां परिवर्तने दृश्यते ।[२६]

स्थानीयवायवः[सम्पादयतु]

भूतलस्य उष्णशीतलावस्थायां दैनिकं, वार्षिकं च चक्राणां विकासेन अनेके स्थानीयाः, क्षेत्रियाः च वायवः प्रवहन्ति ।[२७]

स्थलवायुः, समुद्रवायुः च[सम्पादयतु]

उष्मायाः अवशोषणे, स्थानान्तरणे च स्थले, समुद्रे च भिन्नता प्राप्यते । मध्याह्नकाले स्थलभागः समुद्रस्य अपेक्षया अधिकः उष्णः भवति । अतः स्थलेषु वायवः उपरि गच्छन्ति । तेन निम्नभारक्षेत्रं निर्मितं भवति । परन्तु तस्मिन् एव काले समुद्राः स्थलभागस्य अपेक्षया अधिकाः शीतलाः भवन्ति । अतः तेषु उच्चवायुभारः एव यथावत् भवति । स्थलभागे निम्नभारक्षेत्रेण, समुद्रभागे उच्चभारक्षेत्रेण च वायुभारे गतिः उत्पद्यते । समुद्रात् स्थलं प्रति वायोः गतिः आरभ्यते । तेन वायुः समुद्रात् स्थलां प्रति पवनरूपेण गच्छति । उक्ता प्रक्रिया रात्रौ विपरीतक्रमेण भवति । अत्र उल्लेखनीयम् अस्ति यत्, स्थलं समुद्राणाम् अपेक्षया शीघ्रं शीतलं भवति इति ।[२८]

पर्वतवायुः, शैलप्रस्थवायुः च[सम्पादयतु]

मध्याह्नकाले यदा पर्वतीयक्षेत्रेषु शैलप्रस्थाः उष्णाः भवन्ति, तदा वायुः उपरि गच्छति । रात्रिकाले यदा पर्वतीयशैलप्रस्थाः शीतलाः भवन्ति, तदा सघनवायुः शैलप्रस्थे अधः गच्छति । सः वायुः पर्वतीयवायुः कथ्यते । उच्चशैलप्रस्थे, हिमक्षेत्रेषु च प्रवाहितः शीतलवायुः अवरोहिवायुः (Katabatic) इति कथ्यते । आर्द्रवायवः सङ्घनिताः भवन्ति । तदनन्तरं वर्षणं भवति । अस्य विपरीतावस्थायां वायवः शुष्काः भवन्ति । तेन कारणेन शुष्काः वायवः अल्पसमये हिमं द्रवीकर्तुं शक्नुवन्ति ।[२९]

वायुमण्डलस्य सामान्यपरिसञ्चरणस्य महासागरेषु प्रभावः[सम्पादयतु]

वायुमण्डलस्य सामान्यपरिसञ्चरणस्य सन्दर्भे प्रशान्तमहासागरस्य उष्णावस्था, शीतलावस्था च अत्यधिका महत्वपूर्णा वर्तते । मध्यप्रशान्तमहासागरस्य उष्णजलधाराः दक्षिण-अमेरिका इत्यस्य तटं प्रति प्रवहन्ति । पीरू इत्यस्य शीतलधाराणां स्थानं स्वीकुर्वन्ति । पीरू इत्यस्य तटेषु उष्णधाराणाम् उपस्थितिः एल्-निनो इति कथ्यते । एल् निनो इत्यस्याः घटनायाः सम्बन्धः मध्यप्रशान्तमहासागरेण, ऑस्ट्रेलिया इत्यस्य वायुभारपरिवर्तनेन च सह वर्तते । प्रशान्तमहासागरे वायुभारपरिवर्तनं दक्षिणीदोलन् इति कथ्यते । अनयोः संयुक्तघटना ई एन् एस् ओ (ENSO) इति कथ्यते । येषु वर्षेषु ई एन् एस् ओ (El Niño Southern Oscillatio-ENSO) शक्तिवान् भवति, तदा दक्षिण-अमेरिका इत्यस्य पश्चिमशुष्कतटेषु अधिका वर्षा भवति ।[३०]

वायुराशयः (Air masses)[सम्पादयतु]

यदा वायुः कस्मिंश्चित् समाङ्गिक्षेत्रे पर्याप्तकालं यावत् भवति, तदा सः तस्य क्षेत्रस्य गुणान् धरति । इदं समाङ्गक्षेत्रं विस्तृतमहासागरीयस्तरः विस्तृतस्थलभागः वा भवति । तापमानेन, आर्द्रतया च सम्बद्धः विशिष्टः वायुः "वायुराशिः" इति कथ्यते । येषु समाङ्गिधरातलेषु वायुराशयः भवन्ति, तत्स्थानं वायुराशीनाम् उद्गमक्षेत्रं कथ्यते ।

वायुराशयः स्वस्य उद्गमक्षेत्राणाम् आधारेण वर्गीकृताः भवन्ति । एतेषां प्रमुखाणि पञ्च उद्गमक्षेत्राणि सन्ति ।[३१]

  1. उष्णः उपोष्णः कटिबन्धीयमहासागरः
  2. उपोष्णकटिबन्धीयः उष्णमरुस्थलम्
  3. उच्चाक्षांशीयः अपेक्षाकृतः शीतलः महासागरः
  4. उच्चाक्षांशीयः अतिशीतलं हिमाच्छादितं महाद्वीपीयक्षेत्रम्
  5. स्थायिरूपेण हिमाच्छादितमहाद्वीपः अण्टार्कटिका, आर्कटिकमहासागरः च ।

एतेषामाधारेण निम्नप्रकारकाः वायुराशयः अपि प्राप्यन्ते ।

  1. उष्णकटिबन्धीयमहासागरीयवायुराशिः (mT)
  2. उष्णकटिबन्धीयमहाद्वीपीयः (cT)
  3. ध्रुवीयमहासागरीयः (mP)
  4. ध्रुवीयमहाद्वीपीयः (cP)
  5. महाद्वीपीयः आर्कटिक (cP)

उष्णकटिबन्धीयवायुराशयः उष्णाः भवन्ति । ध्रुवीयवायुराशयः शीतलाः भवन्ति ।

वाताग्रः (Fronts)[सम्पादयतु]

यदा द्वौ भिन्नवायुराश्यौ मिलतः, तदा तयोः मध्यसीमाक्षेत्रं वाताग्रं कथ्यते । वाताग्राणां निर्माणप्रक्रिया वाताग्रजननं (Frontogenesis) कथ्यते | वाताग्रस्य चत्वारः प्रकाराः सन्ति

  1. शीतवाताग्रम्
  2. उष्णवाताग्रम्
  3. अचरवाताग्रम्
  4. अधिविष्टवाताग्रम्

यदा वाताग्रं स्थिरं भवति, तदा अचरवाताग्रम् उच्यते । यदा शीतलः वायुः भीषणतया उष्णवायुराशौ क्षिप्यते, तदा तत्क्षेत्रं शीतवाताग्रम् उच्यते । यदा उष्णवायुराशयः भीषणतया शीतवायुराशौ क्षिप्यते, तदा तत्क्षेत्रम् उष्णवाताग्रक्षेत्रं कथ्यते । यदा एकवायुराशिः पूर्णतः धरातलात् उपरि गच्छति, तदा अधिविष्टवाताग्रं कथ्यते । वाताग्राणि मध्याक्षांशेषु एव निर्मितानि भवन्ति । तीव्रवायुभारः, तापमानप्रवणता च अस्य विशेषता वर्तते एव । एतैः वाताग्रैः तापमाने सहसा परिवर्तनं भवति । अनेन कारणेन एव वायुः उपरि गच्छति, मेघानां निर्माणं भवति, वर्षा भवति च ।[३२]

उष्णकटिबन्धीयः चक्रवत्[सम्पादयतु]

उष्णकटिबन्धीयः चक्रवत् ३०º उत्तरे, ३०º दक्षिणे अक्षांशयोः मध्ये प्राप्यते । अयं प्रायः ५०० कि. मी. तः १००० कि. मी. पर्यन्तं विस्तृतः वर्तते । अस्य औन्नत्यं १२ कि. मी. तः १४ कि. मी. पर्यन्तं भवति इति अनुमानम् । उष्णकटिबन्धीयचक्रवत् उष्मायन्त्ररूपेण विद्यते । समुद्रतलात् प्राप्तस्य जलवाष्पस्य सङ्घननप्रक्रियया अयम् उष्मां प्राप्नोति ।

उष्णकटिबन्धीयचक्रवतः उत्पत्तिविषये वैज्ञानिकानां मतभेदाः सन्ति । अस्य उत्पत्तौ निम्नलिखिताः परिस्थितयः आवश्यक्यः वर्तन्ते ।

  1. पर्याप्तमात्रायाम् उष्णार्द्रवायोः निरन्तरं प्राप्तिः भवेत्, येन अधिकमात्रायां गुप्तोष्मा मुक्ता भवेत् ।
  2. क्षोभमण्डलस्य स्थिरता, यया स्थानीयस्तरे निम्नवायुप्रबलताक्षेत्रं निर्माति । इदं क्षेत्रं परितः अपि चक्रवत् भवितुं शक्नोति ।
  3. प्रबलशम्यायाः अनुपस्थितिः, यया गुप्तार्द्र-उष्मावायोः उष्मा अवरुध्यते ।[३३]

उष्णकटिबन्धीयचक्रवतः संरचना[सम्पादयतु]

उष्णकटिबन्धीयचक्रवति वायुप्रबलतायाः प्रवणता (tendency) अत्यधिका वर्तते । चक्रवतः केन्द्रे उष्णवायोः निम्नवायुप्रबलतायाः मेघरहितः क्रोड इति विद्यते । अयं 'चण्डवातस्य चक्षुः’ इति कथ्यते । सामान्यतः समप्रबलतायाः रेखाः परस्परं समीपाः भवन्ति । ताः उच्चवायुप्रबलताप्रवणतायाः प्रतीकं वर्तन्ते । वायुप्रबलता प्रवणता १४ तः १७ मिलिबार् वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति । कस्मिंश्चित् समये ६० मिलिबार वा १०० कि. मी. पर्यन्तं भवितुं शक्नोति ।[३४]

भारत-देशे चक्रवतां क्षेत्रानुसारं, समयानुसारं च वितरणम्[सम्पादयतु]

भारतस्य आकृतिः प्रायः द्वीपीया अस्ति । अस्य पूर्वदिशि बङ्गाल इत्यस्य गर्तः , पश्चिमदिशि अरब-सागरः च वर्तते । अतः अनयोः स्थलयोः एव चक्रवत् उत्पद्यते । वर्षर्तौ १०º तः १५º उत्तराक्षांशेषु चक्रवत् उत्पद्यते । बङ्गाल इत्यस्य गर्ते अधिकतमः अक्तूबर्-नवम्बरमासयोः चक्रवत् उत्पद्यते । तत्र १६º तः २१º उत्तरे, ९२º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते । किन्तु जुलाई-मासे अयं चक्रवत् सुन्दरवन-डेल्टा इत्यस्य समीपं १८º उत्तरे, ९०º पूर्वदेशान्तरतः पश्चिमदिशि उत्पद्यते ।[३५]

उष्णकटिबन्धीयचक्रवतां परिणामाः[सम्पादयतु]

उष्णकटिबन्धीयः चक्रवत् समुद्रस्य गुप्तोर्जया उत्पद्यते । अतः समुद्रात् दूरं चक्रवतः प्रभावः न्यूनः भवति । भारत-देशे अपि चक्रवत् यदा अरब-सागरात् दूरं गच्छति, तदा तस्य प्रभावः न्यूनः भवति । तटीयक्षेत्रेषु प्रायः उष्णकटिबन्धीयचक्रवत् १८० कि. मी. प्रतिघण्टायाः गत्या आविध्यति । तेन कारणेन चण्डवातीयक्षेत्रेषु समुद्रतले परिवर्तनं भवति । तत् परिवर्तनं 'तूफान महोर्मि' इति कथ्यते । तेन तटीयक्षेत्राणि जलमग्नानि भवन्ति । सस्यानां, मानवीयरचनायाः अपि नाशः भवति ।[३६]

आर्द्रता[सम्पादयतु]

पृथिव्याः, जलाशयेभ्यः च यदा जलं बाष्पितं भवति, तदा सः जलबाष्पः कथ्यते । वायौ जलबाष्पस्य मात्रा आर्द्रता कथ्यते । यदा वायौ जलबाष्पस्य मात्रा अधिका भवति, तदा आर्द्रदिनम् उच्यते । यथा यथा वायुः उष्णः भवति, तथा तथा वायोः जलधारणक्षमता वर्धते । तेन कारणेन अधिकः आर्द्रः भवति । आर्द्रदिने वस्त्राणि अपि शीघ्रं शुष्कानि न भवन्ति ।

यदा जलबाष्पः उपरि गच्छति, तदा अयं शीतलः भवति । जलबाष्पः सङ्घनितो भूत्वा जलबिन्दवः निर्माति । मेघः जलबिन्दूनां समूहः वर्तते । यदा जलबिन्दूनां भारः वर्धते, तदा वर्षारूपे अधः पतति ।

पृथिव्यां "जलवर्षणं" वर्षा इति कथ्यते । वर्षाजलेन एव अधिकतमं भौमजलं प्राप्यते । पादपाः जलसंरक्षणे साहाय्यं कुर्वन्ति । पादपानां, जीवानां, जन्तूनां च जीवनाय वर्षा महत्वपूर्णा वर्तते । वर्षया धरातलं नूतनजलं प्राप्नोति । वर्षायाः अभावेन जलस्य अभावः, शुष्कः भवति । अस्य विपरीतस्थितौ अधिकवर्षया अपि जनानां, धनस्य सस्यानां च हानिः जायते ।[३७]

वायोः गुणाः[सम्पादयतु]

वायुः शारीरिकस्वास्थ्याय महत्त्वपूर्णः भवति । भारतीयप्राचीनशास्त्रेषु आयुर्वेदः इति अन्यतमं शास्त्रं वर्तते । आयुर्वेदे अपि वायोः विभिन्नगुणाः प्राप्यन्ते [३८]। विभिन्नदिशां, वायूनां च महत्त्वम् अपि आयुर्वेदशास्त्रे वर्णितम् अस्ति ।

  • पूर्वदिशः वायुः मधुरः, स्निग्धः, विदाही, लवणः, गुरुः, रक्तपित्तवर्धनः च भवति ।
  • दक्षिणदिशः वायुः मधुरः, कषायः, अविदाही च भवति ।
  • उत्तरदिशः वायुः स्निग्धः, मधुरः, मृदु, कषायः, शीतश्च भवति ।
  • पश्चिमदिशः वायुः विशदः, रुक्षः, परुषः, बलनाशकः, कासशोषकः च भवति [३९]

वायोः अशुद्धयः[सम्पादयतु]

वायोः बह्व्यः अशुद्धयः भवन्ति । वायुमण्डलस्य सङ्घटने परिवर्तनात् अशुद्धयः उत्पद्यन्ते । पृथिव्यां बहुभ्यः कारणेभ्यः अनेकाः अशुद्धयः भवन्ति । यत्र मानवाः निवसन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं भवति [४०]। किन्तु यत्र मानवरहितक्षेत्राणि सन्ति, तत्र वायुसङ्घटने परिवर्तनं अधिकं न भवति । वायोः अशुद्धीनां चत्वारः प्रकाराः सन्ति । ते - १ श्वसनम्, २ जलबाष्पम्, ३ सङ्क्रमणम्, ४ दहनम् च ।

श्वसनम् (Respiration)[सम्पादयतु]

जीवाः श्वसनप्रक्रियायाम् ऑक्सीजन्-वायुः स्वीकुर्वन्ति, कार्बन्-डाई-ऑक्साइड् वायुः निष्कासयन्ति च । वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुः स्वीकुर्वन्ति, ऑक्सीजन्-वायुः निष्कासयन्ति च । किन्तु रात्रौ वनस्पतयः कार्बन्-डाई-ऑक्साइड्-वायुं निष्कासयन्ति । कार्बन्-डाई-ऑक्साइड्-वायोः अशुद्धिः भवति [४१]

यदि एकस्मिन् प्रकोष्ठे बहवः जनाः स्युः, तर्हि प्रकोष्ठे शुद्धवायोः प्रमाणं न्यूनीभवति । तेन अशुद्धवायुः उत्पद्यते । अशुद्धवायुना अस्माकं शरीरे बहवः रोगाः भवितुं शक्नुवन्ति । यथा- शिरोवेदना, छर्दिः, निद्राधिक्यं, मूर्च्छा इत्यादयः रोगाः उत्पद्यन्ते । अतः श्वसनप्रक्रियायाम् ऑक्सीजन् कार्बन्-डाई-ऑक्साईड् वाय्वोः समप्रमाणता आवश्यकी भवति । कारणं सामान्यव्यक्तिः श्वासे ६०० मि.ली. वायोः स्वीकरोति [४२]। तस्मिन् ऑक्सीजन्-वायोः मात्रा २१% भवति । तदा व्यक्तिः ५% ऑक्सीजन्-वायोः उपयोगं करोति । अनन्तरं अवशिष्टं १६% ऑक्सीजन्-वायुं निष्कासयति । प्रश्वसितवायौ कार्बन्-डाई-ऑक्साईड्-वायोः मात्रा ०.००४% भवति । किन्तु निष्कासने सः ४% तः ५% पर्यन्तं वृद्धिं प्राप्नोति[४३] । अनया प्रक्रियया स्वास्थ्यं समीचीनं भवति, अन्यथा रोगाः उत्पद्यन्ते ।

जलबाष्पम्[सम्पादयतु]

श्वसनक्रियायां यदा मनुष्यः कार्बन्-डाई-ऑक्साईड्-वायुं निष्कासयति, तदा तेन सह ६% जलबाष्पम् अपि निष्कासयति [४४]। स जलबाष्पः वायुना सह सम्मिलति । जलबाष्पः स्वेदरूपेण निर्गच्छति । सः बाष्पीभूय वायुं सम्मिलति । सूर्यस्य तापेन, जलं बाष्पीभूय वायुना सह सम्मिलति । तेन वायुसङ्घटने वृद्धिक्षीणत्वं भवति । तस्मात् एव बह्व्यः अशुद्धयः सम्भवन्ति ।

सङ्क्रमणम्[सम्पादयतु]

वायौ अशुद्धयः स्युः चेत् रोगाणाम् उत्पादकः विषाणुः, जीवाणुः च उत्पद्यते । ते विषाणवः, जीवाणवः च सामीप्येन, श्वासोच्छ्वासेन, ष्ठीवेन च वायुं प्रविशन्ति । तेन कारणेन वायुः अशुद्धः भवति । क्लोमपाकः (Pneumonia), श्वासरोगः (Asthma), क्षयरोगः (Tubercular), श्लेष्मरोगः (Influenza), मांससंतानिका (Diphtheria), चर्मरोगः, चक्षुरोगः इत्यादयः रोगाः अशुद्धवायुसङ्क्रमणेन उत्पद्यन्ते[४५]

दहनम्[सम्पादयतु]

मनुष्यजीवनचालनाय अनेकप्रकारकाणां ज्वलनशीलपदार्थानाम् आवश्यकता भवति । पुरा काष्ठः इन्धनत्वेन उपयुज्यते स्म । तेन वायौ ऑक्सीजन्-वायोः उपयोगः भवति स्म । कस्यापि वस्तुनः दहने ऑक्सीजन्-वायोः अत्यधिकावश्यकता भवति । दहनानन्तरं तस्मात् कार्बन्-डाई-ऑक्साईड् उत्पद्यते[४६] । तेन वायुः अशुद्धः भवति । आधुनिककाले अपि भोजनालये यः वायुः उपयुज्यते, तस्मिन् अपि ऑक्सीजन् वायोः आधिक्यं भवति । तेन ऑक्सीजन्-वायोः अधिकः व्ययः भवति । दहने सर्वाधिकः कार्बन्-डाई—ऑक्साईड्-वायुः एव उद्भवति । सः वायौ अभ्येति । ये ज्वलनशीलपदार्थाः सम्यक्तया न प्रज्वलन्ति, तेभ्यः कृष्णवर्णीयः, श्वेतवर्णीयः, पीतवर्णीयः च धूम्रः निर्गच्छति । श्वेतधूम्रे टार्, सल्फर्-डाई-ऑक्साईड्-वायुः च अधिकमात्रायाम् उद्भवति[४७] । ताभ्यां रोगाः जायन्ते ।

वायोः अशुद्धेः अन्यानि अपि बहूनि कारणानि सन्ति । यथा – जैविकपदार्थानाम् अपघटनम्, उद्योगानि, विद्युदुत्पादनानि, यानानि, यन्त्राणि, रजकणः, मानववृद्धिः, जनसमूहः च [४८]

निवासस्थानेषु वायोः प्रवेशनिकासयोः व्यवस्था[सम्पादयतु]

यथा आहारस्य आवश्यकता स्वास्थ्यरक्षार्थं भवति, तथैव निवासाय स्थानस्य अपि आवश्यकता भवति । अनामयार्थं स्वच्छस्थानस्य महत्त्वं वर्तते । निवासस्थाने पर्याप्तमात्रायां वायोः आवागमनं भवेत् तथैव तत्स्थाने व्यवस्था करणीया । वातायनानि, द्वाराणि च पर्याप्तमात्रायां स्युः[४९]

साम्प्रते काले वास्तुशास्त्रानुसारं गृहनिर्माणं भवति । अतः वास्तुशास्त्रानुसारं वायोः आवागमनव्यवस्था क्रियते । अस्माकं देशस्य जनसङ्ख्या अधिका अस्ति । अतः जनसङ्ख्यावृद्धिकारणात् निवासस्य समस्या भवति । उन्नतभवननिर्माणेन वायोः आवागमनव्यवस्थायां बाधा भवति । तद् स्वास्थ्याय हानिकारकम् अस्ति [५०]। यस्मिन् स्थाने जनसङ्ख्या अपि अधिका भवति, तत्रापि वायोः आवागमनव्यवस्था बाधिता भवति ।

वायोः अशुद्धिजन्यरोगाः[सम्पादयतु]

१ क्लोमपाकः (Pneumonia), २ राजयक्ष्मा, ३ श्लेष्मरोगः (Influenza), ३ मांससंतानिका (Diphtheria), ४ श्वासरोगः (Asthma), ५ चर्मरोगः, ६ चक्षुरोगः, ७ क्षयरोगः (Tubercular), ८ कर्करोगः (Cancer), ९ ज्वरः(fever), १० अतिसारः (Diarrhea), ११ मूर्छा, १२ हृदयरोगः, १३ शिरोवेदना (Headache) , १४ आलस्यं, १५ नाडिमन्दता, १६ उत्क्लेशः, १७ अपस्मार (Epilepsy), १८ उन्मादः, १९ आक्षेपः, २० रक्तिमा, २१ विषाक्तरोगः, २२ प्रत्युर्जता (Allergy) [५१]


वायुशुद्धिप्रकाराः[सम्पादयतु]

अस्माकं संस्कृतेः प्राचीनतमं चिकित्साशास्त्रम् आयुर्वेदः अस्ति । आयुर्वेदचिकित्सायां ओषधीभिः सह यज्ञहोमादिनाम् अपि वर्णनं कृतम् अस्ति [५२]। यज्ञे अनेकेषां प्रकारकाणां द्रव्याणाम् उपयोगः भवति । तेन वायुमण्डलस्य शुद्धिः भवति । तेषु यज्ञद्रव्येषु मुख्यत्वेन गुग्गुलः, राजिका, यवः, सर्षपः, चन्दनं, कर्पूरं, घृतं, लोहितपुष्पा, गन्धकः, अगरुः, देवदारुः इत्यादिनां प्रयोगः क्रियते । पुरा वायुप्रदूषणानि न्यूनानि आसन् । किन्तु आधुनिककाले वायुप्रदूषणानि अधिकानि सन्ति । अतः यज्ञकर्मणाम् अत्यावश्यकता वर्तते[५३]

वायोः शुद्ध्यर्थं प्राकृतिकसाधनानि[सम्पादयतु]

प्रकृतौ वायोः गतेः महत्त्वं वर्तते । वायुगत्या प्रकृतिः शुद्धा भवति । वायुः शीघ्रगत्या स्थानान्तरं करोति । तेन वायुः शुद्धिं प्राप्नोति । वायुमण्डले ऑक्सीजन्, कार्बन्-डाई-ऑक्साईड् इत्येतौ द्वौ वायू प्रकृत्याः अशुद्धिं निष्कासयतः । वनस्पतिः, वृक्षाः, पादपाः च मनुष्यजीवनाय महत्त्वपूर्णाः सन्ति । यतः ते वायुमण्डलात् कार्बन्-डाई-ऑक्साईड्-वायुं स्वीकुर्वन्ति, ऑक्सीजन्-वायुं निष्कासयन्ति च । तेन कारणेन वायुमण्डलस्य शुद्धिः भवति । अपरं च सूर्यस्य किरणैः वायुमण्डलस्य विभिन्नरोगाः, रोगकारकाः सूक्ष्मजन्तवः च नश्यन्ति[५४]


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505318. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174507485. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505318. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174507485. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 81. ISBN 8174505318. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174507485. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 21. ISBN 8174507485. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 21. ISBN 8174507485. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 20. ISBN 8174507485. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 82. ISBN 8174505318. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 22. ISBN 8174507485. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 83. ISBN 8174505318. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 23. ISBN 8174507485. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 86. ISBN 8174505318. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 24. ISBN 8174507485. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 97. ISBN 8174505318. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 97. ISBN 8174505318. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 98. ISBN 8174505318. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 98. ISBN 8174505318. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 98. ISBN 8174505318. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 98. ISBN 8174505318. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 99. ISBN 8174505318. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भौतिक भूगोल के सिद्धान्त,. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 99. ISBN 8174505318. 
  33. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88. ISBN 8174505598. 
  34. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 88-89. ISBN 8174505598. 
  35. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598. 
  36. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2006). भारत भौतिक पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 89. ISBN 8174505598. 
  37. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). हमारा पर्यावरण. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 26. ISBN 8174507485. 
  38. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २६. 
  39. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २६. 
  40. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २६. 
  41. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  42. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  43. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  44. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  45. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  46. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  47. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  48. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  49. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  50. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  51. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २७. 
  52. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २८. 
  53. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २८. 
  54. आयुर्वेदः (मध्यमा २). 1. गुजरात राज्य शाला पाठ्यपुस्तक मण्डल. २०११. p. २८. 
"https://sa.wikipedia.org/w/index.php?title=वायुः&oldid=303296" इत्यस्माद् पुनः प्राप्तिः