विश्वासः हेच् आर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

डा हेच्. आर्. विश्वासः कश्चन संस्कृतविद्वान्। सः मङ्गलूरुनगरे वसति।[१] एस् एल् भैरप्पस्य आवरणम् इत्युपन्यासस्य अनुवादार्थं (कन्नडतः संस्कृतम् प्रति)केन्द्रसाहित्यअकाडमीपुरस्कारं प्राप्तवान्।[२]

विश्वासः संस्कृतान्दोलने सक्रियः वर्तते। पञ्च वर्षाणि संस्कृतमासपत्रिकायाः सम्भाषणसन्देशस्य सम्पादकः अपि आसीत्। [२][३] विश्वसंस्कृतपुस्तकमेलायाः कार्यकारिगणसदस्यः, संस्कृतभारत्याः अखिलभारतप्रकाशनप्रमुखश्च आसीत्।[४][५] राष्ट्रियसंस्कृतसंस्थानस्य संस्कृतसम्भाषणपाठानां पाठकः अपि आसीत्। ते पाठाः ज्ञानदर्शनवाहिन्यां डिडि भारतीवाहिन्यां च प्रसारिताः। होसदिगन्त इति कन्नडपत्रिकायां सङ्गत इति साप्ताहिकं लेखं लिखति स्म। ५ कक्ष्यातः ७ कक्ष्यापर्यन्तं संस्कृतपाठ्यचर्यारचनसमितौ विश्वासः कार्यम् अकरोत्।[४]

विश्वासः कुवेम्पुविश्वविद्यालयतः एम्. ए पदवीं प्राप्तवान्। सः विद्वत्पदवीधरश्च वर्तते।[२]

आवरणम् इत्यस्य कन्नडभाषायाः उपन्यासस्य संस्कृतानुवादः विश्वासेन कृतः २००८ तमे नवम्बर् मासे प्रकाशितः[६] [७] तस्य मत्ते होत्तितु हीब्रू हणते इति कन्नडभाषापुस्तकम् जि. वेङ्कटसुब्बय्येन लोकाय अर्पितम्।[८] and was briefly on the best-seller list in 2006.[९] एस् एल् भैरप्पस्य पर्व इति उपन्यासः अपि विश्वासेन संस्कृतेन अनूदितः, २०१२ तमे वर्षे प्रकाशितः.[१०] २०१३ तमे वर्षे साहित्यअकाडेमीबालसाहित्यपुरस्कारं[११] मार्जालस्य मुखं दृष्टम् इत्युपन्यासग्रथनाय प्राप्तवान्।[१२]

कृतयः[४][सम्पादयतु]

संस्कृतपुस्तकानि

  • अपश्चिमः पश्चिमे
  • हेमच्छकटिकम्
  • कौशलबोधिनी
  • भुवमानीता भगवद्भाषा
  • मार्जालस्य मुखं दृष्टम्

कन्नडकृतयः

  • मत्ते होत्तितु हीब्रू हणते
  • पिडिदु संस्कृत सूत्रव
  • सङ्घं शरणं गच्छामि

अनुवादः

  • आवरणम्[६]
  • पर्व

उल्लेखाः[सम्पादयतु]

बाह्यसम्पर्काः[सम्पादयतु]

Speeches by him
"https://sa.wikipedia.org/w/index.php?title=विश्वासः_हेच्_आर्&oldid=443561" इत्यस्माद् प्रतिप्राप्तम्