विष्णुः पण्ड्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विष्णुः पण्ड्या
The President, Shri Pranab Mukherjee presenting the Padma Shri Award to Shri Vishnu Pandya, at a Civil Investiture Ceremony, at Rashtrapati Bhavan, in New Delhi on March 30, 2017.jpg
पद्मश्रीपुस्कारं स्वीकुर्वाणः विष्णुमहोदयः
जन्म १४ सितम्बर १९४५
माणावदर, जूनागढ
देशीयता भारतीयः
शिक्षणम् एम.ए. एल.एल.बी.
वृत्तिः लेखक, पत्रकार, इतिहासकार&Nbsp;edit this on wikidata
कृते प्रसिद्धः पत्रकारः, लेखकः, इतिहासकारः, कोलमिस्ट
धर्मः हिन्दूः
भार्या(ः) डॉ. आरती पण्ड्या
पुरस्काराः पद्मश्रीपुरस्कारः (२०१७)
हस्ताक्षरम्
Autograph of Vishnu Pandya.jpg
पद्मश्रीपुरस्कारः

विष्णुः पण्ड्या आत्मानं गुर्जरविश्वनिवासित्वेन सम्बोध्यमानः कश्चन पत्रकारः, चरित्रलेखकः, कविः, नवलकथाकारः, लेखकः, राजकीयविश्लेषकः, इतिहासकारश्च वर्तते। भारतसर्वकारः विष्णुमहोदयस्य पद्मश्री-उपाधिना सम्मानम् अकरोत्। सः राजनीतेः, इतिहासस्य, ऐतिहासिक-स्थलानां च विषये गुर्जर-समाचारपत्रेषु, सामयिकेषु लेखान् अपि लिखति। सः कटार-लेखकत्वेन अपि प्रसिद्धः अस्ति। गुजरातविश्वविद्यालयः विष्णुमहोदयाय मानद्-विद्यावाचस्पतेः (डि.लिट्) पदवीम् अपि समार्पयत्। [१] सद्यः सः गुजरात-साहित्य-अकदामी-संस्थायाः अध्यपदं वहते।

जन्म, परिवारश्च[सम्पादयतु]

१९४५ तमवर्षस्य सितम्बर-मासस्य चतुर्दशे (१४/०७/१९४५) दिनाङ्के गुजरातराज्यस्य जूनागढमण्डलस्य माणावदर-नगरे विष्णुमहोदयः जनिम् अलभत। ब्राह्मण-परिवारे जन्मप्राप्तवान् विष्णुः जुनागढमण्डले एव स्वस्य शिक्षणं प्राप्तवान्। तस्य पिता द्वितीयविश्वयुद्धोत्तरं दक्षिण-आफ्रिकादेशात् प्रत्यागत्य माणावदर-मण्डलस्य शिक्षणमण्डलाधिकारिणः पदं व्यभूषयत्।

विष्णुमहोदयस्य विवाहः आरती-नामिकया कन्यया सह जातः आसीत्। विष्णु-महोदयस्य पत्नी संस्कृतविषयस्य विद्यार्थिनी आसीत्। विष्णुमहोदयवत् सा अपि लेखिका आसीत्, या इतिहासग्रन्थस्य, सामयिकप्रकाशनस्य, संस्कृतग्रन्थस्य च प्रकाशनं कृत्वा स्वयोगदानं कृतवती। २०१८ तमवर्षस्य दिसम्बरमासस्य चतुर्थे (०४/१२/२०१८) दिनाङ्के डॉ. आरती-महोदयायाः "વત્સરાજનું રૂપકષટ્કમ્" नामकस्य संस्कृत-महानिबन्धस्य लोकार्पणम् अभवत्। तस्य ग्रन्थस्य लोकार्पणं राज्यपालस्य ओमप्रकाश-कोहली-महोयस्य हस्तेन आम्बेडर-विश्वविद्यालये अभवत्। तस्मिन् प्रसङ्गे डॉ. आरती-महोदयायाः अन्येषां सप्तानां (७) ग्रन्थानाम् अपि प्रकाशनस्य विष्णमहोदयेन घोषणा कृता।[२] [३]

सम्पादकीयम्[सम्पादयतु]

विष्णु-महोदयः १९६७ तमे वर्षे जुनागढ-नगरे बी.ए.-कक्षायाः अन्तिमं प्रश्नपत्रं समाप्य साक्षात् कर्णावतीं प्राप्तवान्। कर्णावत्यां सः पत्रकारक्षेत्रे प्रसिद्धस्य अशोक-महोदयस्य सम्पर्के आगतः। अशोक-महोदयः चान्दनी-पत्रिकायाः सम्पादकः आसीत्। तस्मिन् समये सः साधना-पत्रिकायाः दायित्वं प्राप्तवान्। मासत्रये एव सः तन्त्रिपदारूढः जातः। तस्मिन् समये सः द्वाविंशतिः (२२) वर्षीयः आसीत्। साधना-पत्रिका मुख्यत्वेन विचार-निर्माणाय समाजे प्रसिद्धा जाता। एवं दीर्घकालं यावत् विष्णुमहोदयः साधनायाः सम्पादनम् अकोरत्। इन्दिरा-सर्वकारः यदा भारते आपत्कालस्य घोषणाम् अकरोत्, तदा "साधना" इत्यस्य मासिकस्य तन्त्रित्वेन सङ्घर्षपूर्णं सम्पादनम् अकरोत्। "मिसा" इत्यस्य अन्तर्गततया एकवर्षं यावत् सः कारागारे अपि न्यवसत्। तेन लिखितं "मिसावास्यम्" इति पुस्तकं साहित्यपरिषदः कालेलकर-सम्मानं प्राप्तवत्। स्वातन्त्र्यसङ्ग्रामे अनेकेषां क्रान्तिकारिणां विस्मरणं कालान्तरे अभवत्। इतिहासे संशोधनार्थं श्रीविष्णुमहोदयः "नर्मद" इति चन्द्रकं प्राप्तवान्। ततः सः ३५ यावत् स्थानीय-इतिहास-समाविष्टकीं नाट्यप्रस्तुतिम् अकरोत्। सुरतमहानगरपालिका “અજાણ્યું ગુજરાત” शीर्षकान्तर्गततया पद्मश्रीविष्णुमहोदयस्य व्याख्यानस्य आयोजनम् अकरोत्। [४]

पत्रकारिता[सम्पादयतु]

कच्छसत्याग्रहस्य, पाकिस्थान-देशेन सह जातयोः युद्धयोः, छात्रान्दोलनस्य, आपत्कालस्य, दुष्कालस्य, मोरबी-पूरस्य, कच्छ-भूकम्पस्य च समये विष्णु-महोदयः सक्रियतया पत्रकारिताम् अकरोत्। १९७५ तमे वर्षे बी.बी.सी.-संस्थायाः कश्चन सम्पादकः कर्णावतीम् आगतः आसीत्, तस्मिन् समये सः विष्णुमहोदयं "Typical Gujarati" इति प्रेम्णा सम्बोधितवान्। २०१७ वर्षस्य मई-मासस्य एकोनत्रिंशत् (२९/०५/२०१७) दिनाङ्के विश्वसंवादकेन्द्रस्य कार्यक्रमे पद्मश्रीप्राप्तस्य विष्णु-महोदयस्य सम्मानम् अभवत्।[५]

विश्वसंवादकेन्द्रस्य नारदजयन्त्याः कार्यक्रमे उपस्थितः पद्मश्रीविष्णुमहोदयः उक्तवान् यत्, मुद्रणस्य, विद्युतीयस्य च माध्यमम्, अङ्कीयमाध्यमं च समाजे महापरिवर्तनम् आनेष्यति। २१ शताब्द्यां वीणाधरकस्य श्रीनारदस्य आदर्शः कौतुकं जनयितुं शक्नोति। श्रीनारदस्य विषये नारदपुराणे २५००० श्लोकाः सन्ति। श्रीनारदः ब्रह्मणः मानसपुत्रः आसीत्। श्रीनारदस्य सम्पूर्णस्य ब्रह्माण्डस्य वृत्तेषु ध्यानं ददाति स्म। सः वास्तव्येन "फ्रि लेन्सर (free lancer)" आसीत्, यः ईश्वरस्य मनस्त्वेन (Mind of God) स्वीकृतः आसीत्। अन्यायस्य विरोधः पत्रकारितायाः स्वभावः अस्ति। वास्तव्येन केनापि वाचनं, निरीक्षणं, तस्मादुद्भतैः विचारैः विना केनापि पत्रकारिताक्षेत्रे कार्यं न करणीयं, यतः पत्रकारितायाः क्षेत्रस्य यात्रा अग्निपन्थानाम् इव अस्ति। Truth Speaking इति पत्रकाराणां धर्मः अस्ति इति। [६]

आपत्काले विष्णुमहोदयः[सम्पादयतु]

१९७४-७५ मध्ये इन्दिरा-सर्वकारः आपत्कालस्य घोषणाम् अकरोत्। तस्मिन् समये मूलभूत-अधिकाराणां पूर्णतया उन्मूलनम् अभवत्। जनानां मुखे तालकं कृतम् आसीत् इति न अतिशयोक्तिः। सर्वैः समाचारपत्रैः स्वसम्पादकीयं सेन्सर-समितेः सम्मुखम् उपस्थापनीयं भवति स्म। सा समितिः यदि अनुमतिं ददाति चेदेव तस्य सम्पादकीयस्य प्रकाशनं शक्यं भवति स्म, अन्यथा तस्मिन् समाचारपत्रे सर्वकारीयाः प्रतिबन्धाः आरोपिताः भवन्ति स्म। एवं पत्रकारितायां केवलं सर्वकारस्य सङ्गतसाहित्यम् एव प्रकाशितुम् अनुमतिः आसीत्। सर्वत्र भयात्मकं, भ्रमोत्पादकं च वातावरणम् आसीत्। "मिसा"-अधिनियमस्य अन्तर्गतया एकलक्षाधिकाः जनाः कारावासे आसन्। सर्वेऽपि सर्वकारविरोधिनः विभिन्न-कारागारेषु बन्धकाः आसन्। परन्तु सर्वकारस्य सम्मतिप्राप्तेषु समाचारपत्रेषु तु लोकतन्त्रस्य जीवन्ततायाः प्रचारः भवति स्म। तादृश्यां स्थित्यां विरोधः अतीव कठिनः जातः आसीत्। तस्मिन् काले मूलभूताधिकाराणां रक्षणाय एव सर्वेषाम् आन्दोलनम् आसीत्। तस्मात् आन्दोलनात् एव मूलभूताधिकाराणां रक्षणस्य विचारः आदेशं व्याप्तः। तस्य मूलभूताधिकारस्य विचारस्य प्रचाराय १०० यावत् लघुसमाचारपत्राणि अतीव महत्त्वपूर्णं भागम् अभजन्त। तेषु "साधना" इति अन्यतमं समाचारपत्रम् आसीत्, यस्य तन्त्रिपदे विष्णुमहोदयः आरूढः आसीत्। आपत्काले एव गुजरातराज्ये नरेन्द्रमोदी गुप्ततया सर्वकारविरुद्धम् आन्दोलनस्य सञ्चालनं करोति स्म। एवम् आपत्काले प्रकारद्वयस्य पत्रकारत्वम् आसीत्। एकं तु विष्णु-महोदयादिभिः प्रचल्यमानं पत्रकारत्वं, द्वितीयं तु नरेन्द्रमोदिसदृशैः प्रचाल्यमानं भूगर्भ-पत्रकारत्वम्। अन्ते उभय-पत्रकारत्वस्य संयोजनं भवति स्म।

विष्णुमहोदयस्य मतानुसारं भारतीयसंविधानस्य इतिहासे, सत्तायाः राजनीतौ च आपत्कालः कश्चन महत्त्वपूर्णः अध्यायः अस्ति। भारतीयसंविधानस्य इतिहासे १९७५ तमवर्षस्य जूनमासस्य २५-२६ दिनाङ्कौ महत्त्वपूर्णौ स्तः। आपत्कालात् प्राक् मासत्रयात् पूर्वमेव आपत्कालसदृशं वातावरणं जायमानम् आसीत्। १९७४ मध्ये गुजराते नवनिर्माणस्य विद्यार्थिनाम् आन्दोलनम् आरब्धम् आसीत्। बिहारराज्ये जयप्रकाशमहोदयः आन्दोलने रतः आसीत्। ततः लोकन्त्रे पुनःप्राणसञ्चारः जातः। अद्यत्वे मिसा-अधिनियमान्तरगतया कारावासे निवसिताः जनाः भारतीयराजनीतौ महत्त्वपूर्णस्थाने विराजिताः सन्ति इति। [७]

इतिहासकारत्वेन योगदानम्[सम्पादयतु]

विष्णुमहोदयस्य मतानुसारं पुरा भारते अनेके भारतविरोधिनः इतिहासकाराः जाताः, ये स्वतन्त्रतान्दोलनस्य हुतात्मनां विरुद्धम् अतीव कुत्सितानां पुस्तकानां निर्माणम् अकुर्वन्। यदि इतिहासः विकृतः भवति, तर्हि समाजः अपि विकृतः भवति इति। १८५७ स्वान्त्र्यान्दोलने झाँसी राज्ञी भारताय आदर्शपूर्णतया युद्धं कृत्वा वीरगतिं प्राप्तवती। परन्तु आङ्ग्ल-नवलकथाकाराः विंशतिवर्षाणि यावत् तस्याः विरुद्धं चित्रं प्रादर्शयन्। आङ्ग्ल-नवलाकारैः झाँसी राज्ञी पुँश्चली, दुष्टा च वर्णिता, या स्वपत्युः हत्याम् अकारयत्। आङ्ग्लाः स्वशासन-बलेन स्वमतयुक्ताः नवलकथाः प्रचारयित्वा ताभ्यः प्रसिद्धम् अपि यच्छन्ति स्म। आहत्य १२ यावत् नवलकथाः सन्ति, याः एतादृशं विकृतं विवरणं प्रर्शयन्ति। कानपुरस्य नाना साहेब-महोदयः वीरतापूर्वकम् आङ्ग्लानां विरुद्धं युद्धम् अकरोत्। परन्तु तस्य विरुद्धं “The Demon of Cawnpore” (Kanpur) [८] इति पुस्तकं जुलेस् वर्न्स (Jules Verne) इत्येषः आङ्ग्ललेखकः अलिखत्। कालान्तरे वास्तविकः इतिहासः भारतीयानां सम्मुखम् उपस्थापितः जातः। परन्तु इतोऽपि अत्यधिकं करणीयम् अस्ति इति तस्य मतम्।

रामजन्मभूमिना सह सम्बन्धः[सम्पादयतु]

राममन्दिरस्य निर्माणाय ५०० वर्षेभ्यः अधिकस्य सङ्घर्षः आसीत्, यः सम्पूर्णस्य समाजस्य सङ्घर्षः आसीत्। पाकिस्थानदेशे अपि भारतात् गताः जनाः राममन्दिनिर्माणस्य उत्सवं करिष्यन्ति इति विष्णुमहोदयः पाकिस्थान-देशीयात् पत्रकारात् सूचनां प्राप्तवान्। फाधर् वुल्क-महोदयः ईसाई-धर्मप्रचारः आसीत्, यः रामस्य सन्दर्भे एकं सकारात्कमं पुस्तकम् अलिखत्। अर्थात्, रामः न केवलम् एकधर्मस्य कृते अपि सम्पूर्णस्य समाजस्य आराध्यः अस्ति इति तस्य मतम्। राममनोहर-लोहिया-महोदयः समाजवादी नेता आसीत्, सः धर्मवर्षे अधिकं बलं न यच्छति स्म, परन्तु तथापि सः उत्तरप्रदेशे रामायण-मेलानाम् आरम्भम् अकारयत्। राममनोहरस्य कथनम् आसीत् यत्, रामः, कृष्णः, शिवः च राष्ट्रियैकतायाः प्रतिकचिह्नत्वेन समाजे स्थापिताः सन्ति इति विष्णु-महोदयः उल्लिखति।

संरचना[सम्पादयतु]

पत्रकारिताक्षेत्रे योगदानम् :

  • सहसम्पादकः : Jansatta-Loksatta (Indian Express Group, Gujarat) 1981–1987
  • सम्पादकः : Rangtarang-Chandni (Indian Express Group, Gujarat) 1981–1987
  • सम्पादकः : Sadhana Magazine 1967–1980
  • सम्पादकः : Samantar Manazine from 1987
  • सम्पादकः : BIradar Patrika 1986–87
  • ब्युरो चीफ : Nav Gujarat Times(Gujarati Daily News Paper) 1994–1997
  • ब्युरो चीफ : Dainik Mahanagar, Mumbai from 1996
  • कोलमिस्ट : Times of India (गुजरातीसंस्करणम्, 1992–93), सन्देश, दिव्यभास्कर च समाचारपत्राणि

व्याख्यातृत्वेन श्रीविष्णोः योगदानम्:

पद्मश्रीविष्णु-महोदयः गुजरातराज्यस्य विभिन्नेषु महाविद्यालयेषु, विश्वविद्यालयेषु च अनुस्नातकस्तरे पाठयति। यथा :


सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विष्णुः_पण्ड्या&oldid=454804" इत्यस्माद् प्रतिप्राप्तम्