शतरूपा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

पीठिका[सम्पादयतु]

शतरूपा मानवकुलस्य सर्वप्रथमा माता अदिदेवी अस्ति । एषा स्वयम्भुवमनोः पत्नी । मनुशतरूपाभ्याम् एव मनवस्य सृष्ठिः आरब्धा । ततो मनुष्या अजायन्त इति श्रुतिवाक्यम् । स्वयम्भुवमनुः शतरूपा च ब्रह्मणः शरिरात् सञ्जातौ । तस्य वामभागत् मनुः दक्षिणभागात् शररूपा उद्भूतौ । न केवलं मानवाः नैके सहस्रशः प्राणिनः अपि एतेयोः सन्तानानि एव इति बृहदारण्यकोपनिषत् वदति ।

जीविका[सम्पादयतु]

शतरूपा अतीव लज्जावती बालिका असीत् । अग्रे जगति स्त्रीः नाम कथं भूयात् इति दर्शितवती आदर्शा नारी एषा । शतरूपा स्वेच्छानुसारं यत्किमपि रूपं धर्तुं शक्नोति स्म । मनोः प्रथमसन्दर्शनावसरे तस्य दृष्टेः गोपयितुं शतधा रूपाणि धृतवती । तथापि सः स्वयम्भूमनुः शतरूपेषु अपि ताम् अभिज्ञातवान् । सा तत् रूपं धरति तेनैव रूपेण मनुः तां सन्दृष्टवान् । एवं सा शतशः रुपाणि प्राप्तवती इति तस्याः शातरूपा इति नाम । सा यस्य यस्य प्राणिनः रूपं धृतवती तस्य तस्य सन्तानमपि लोकाय अर्पितवती । स्वसन्तानेषु प्राणिषु दायां प्रीतिं च दर्शयन्ती इयं मानवस्त्रीः पशवः कथं दृष्टव्याः इत्यपि बोधितवती ।

राजधर्मः[सम्पादयतु]

स्वयम्भवः मनुः ब्रह्मावर्तस्य राजा अभवत् । सकलाभिः सम्पद्भिः समृद्धा बहिर्ष्मती नगरम् अस्य रजधानी आसीत् । श्रीमन्नारायणः यदा वराहरुपेण भूमिमातरं रसातलात् उन्नीतवान् ततः तस्य शीरीरात् उन्मूलाः केशाः भूमौ अपतन् । ते एव अग्रे कुशकाशाः अभवन् । कुशस्य अपरं नाम बर्हिष् इति । अस्य प्रथमदर्शनम् अस्मिन् स्थाने अभवत् इति अस्य नगरस्य बाहिर्ष्मती इति नाम प्राप्तम् । अस्मिन्नेव नगरे शतरूपा स्वभर्त्रा स्वम्भुवमनुना सह अवसत् । शतरूपा पत्निधर्मं सुचारुरूपेण पालितवती । पत्या पर्मानुरक्ता सा स्वदेशस्य नगराणि प्रजाः पशुसम्पदः वृक्षसम्पदः आदरेण पश्यति स्म । महाराज्ञी शतरूपा प्रतिदिनं प्रेमपूर्णहृदयेन भगवतः पुण्यकथाः कथनम्, तस्य नामसङ्कीर्तनम्, पूजाचरणम् इत्यदिभिः धार्मिककार्यैः कालं यापयति स्म । एवं भारतीय़ा नारी सन्मार्गे कथं वर्तयेत् इति प्रदर्शयन्ती लोकादर्शा असीत् । स्वभर्त्रा सह सद्धर्मपालनम् अकरोत् । अतः अद्यापि वेदाः एतां बहुमानयन्ति ।

कुटुम्बः[सम्पादयतु]

स्वायम्भुवमनुः शतरूपा च दम्पत्योः पुत्रौ तिस्रः पुत्र्यः अभवन् । पुत्रयोः नामनि उत्तानपादः प्रियव्रतः च । पित्रीणां नामानि आकूतिः, प्रसूतिः देवहूति च इति । अस्य उत्तनपादस्य पुत्रः एव प्रसिद्धः भक्तबालः ध्रुवः । मनोः द्वितीयः पुत्रः प्रियव्रतः एतत् भूमण्डलं सप्त खण्डरुपेण विभज्य उत्तमां प्रशासनव्यवस्थाम् अकल्पयत् । पुत्रिषु प्रथमा आकूतिः रुचिप्रजापतिं पतिम् अभजत । द्वितीया पुत्री प्रसूतिः दक्षप्रजापतिम् ऊढवती । स्वायम्भुमन्वन्तरस्य अयं दक्षः पत्न्या प्रसूत्या २४पुत्रीरत्नानि प्राप्य अग्रे ऋषिसन्तानार्थमपि कारणिकः अभवत् । मनोः तृतीयां पुत्रीं देवहूतिं कर्दममहर्षिः परिणीतवान् । अनयोः धर्मदाम्पत्यफलस्वरूपेण देवहूत्याः गर्भात् साङ्ख्याशास्त्रस्य प्रणेता भगवत्स्वरूपी कपिलमहर्षिः अवतीर्णः । स्वपुत्रिभिः पतिगृहे कथं वर्तनीयम् इति शातरूपा सम्यक् उपदिष्टवती । भर्तृगृहे कर्तव्यपालनम्, नियमानुसरणम्, कार्यनिष्ठा इत्यादयः नीतिसंहिताः बोधितवती । स्वायम्भुमनुः बहुकालं स्वराज्यं धर्मेमार्गेण परिपालितवान् । भगवतः नियमानुसारं शास्त्रोक्तरीत्या राज्यं प्रशासितुं शतरूपा स्वपतेः सर्वविधसहाय्यं कृतवती । अनेकवर्षाणि राज्यं प्रशासति तस्मिन् वैराग्योदयः नाभवत् । एतत् दृष्ट्वा पत्नी शतरूपा पतिं जागरितवती । तदनन्तरं स्वपुत्रम् उत्तानपादं आग्रहपूर्वकं सिंहासने उपावेश्य शतरूपया सह वानप्रस्थं स्वीकृत्य अरण्यम् अगच्छत् । स्वायम्भुमनुः पत्न्या सह सहस्राधिकवर्षाणि उग्रं तपः आचरन् भगवतः दर्शनं प्राप्तवान् । तस्य भगवतः मनोहरं रूपं लीलामोहनकृपाकटाक्षं मणिमयाभूषणं च दृष्ट्वा आत्मानं कृतार्थम् अमन्यत । आनन्दतुन्दिलौ तौ दम्पती तस्य परमात्मनः चरणं संस्पृश्य अनमताम् । तयोः मस्तके स्पृशन् भगवान् वरं वरयताम् इति अवदत् । तदा मनुः. हे प्राणदातः भवतः दर्शनमात्रेणैव अस्माकम् सर्वाभिलाषाः सम्पूरिताः किन्तु हृदयस्य कोणे काचिदेका आशा अस्ति भवतः समानं कञ्चन पुत्रम् अनुगृह्णातु इति प्रार्थयत् । मत्सदृशपुत्रं कुतः अन्विष्य आनयामि अतः अहमेव तव पुत्रत्वेन जनिष्यामि इत्यवदत् । भवत्याः इष्टानुसारं वरं वरय इति भगवान् शतरूपाम् अवदत् । तदा साध्वी सा मम पत्युः अपेक्षा एव मम अतीव प्रिया तथापि कञ्चन अन्यं वरं प्रार्थये। यथाहं पत्या सह पतिव्रताजीवनं यापितवती तथैव भविष्यति काले लोकस्य सर्वाः पतिव्रतानार्यः सुखजीवनं यापयन्तु, बुद्धिमतिषु स्त्रीषु सर्वकालेषु सद्विवेकः तिष्ठतु, तासां भवति उत्तमा भक्तिः भवतु एवं भवान् अनुगृह्णातु इति वरम् अयाचत् । तदा भगवान् तथास्तु मातः इति उक्त्वा तां मातृरूपेण स्वीकृत्य अन्तर्धानमगच्छत् । माता स्वार्थं विहाय परार्थे जीवन्ती कथं जीवनस्य सार्थक्यं पश्येत् इति शातरूपा स्वजीवनम् एव दृष्टन्तीकृतवती । इयं महापतिव्रता शातरूपा भूमण्डलस्य जनानाम् एवम् आदर्शप्राया अभवत् । अलौकिकश्रद्धाभक्तितपोभिः भगवन्तम् एव पुत्ररूपेण प्राप्तवती । भगवतः आज्ञानुसारं कञित्कालम् एतौ दम्पती ऎन्द्रलोके अवसताम् । कालक्रमेण स्वायम्भुमनुः अयोध्यायाः दशरथचक्रवर्ती अभवत् । शतरूपा तस्य पत्न्याः कौसल्यायाः रुपेण आगता परमात्मरूपिणं श्रीरामम् असूत । एवं शतरूपा लोकमाङ्गल्यार्थम् अविरता परिश्रान्ता जगतः प्रथमा महिलेति प्रथिता । मातुः वात्सल्यस्य पत्युः कर्तव्यस्य प्रतीका अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=शतरूपा&oldid=368236" इत्यस्माद् पुनः प्राप्तिः