अदितिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अदितिः
देवमाता
ब्रह्मणा सह अदितिः (दक्षिणतः)
सम्बन्धः सरस्वत्याः अवतारः[उद्धरणं वाञ्छितम्]
शस्त्राणि असिः, त्रिशूलः
पर्वतः कुक्कुटः
साहित्यम् ऋग्वेदः
व्यक्तिगतविवरणम्
सहचारी कश्यपः
अपत्यानि आदित्याः, वामनः

अदितिः (; हिन्दी: अदिति,आङ्ग्ल: Aditi) देवमाता कथ्यते । इयं कश्यपर्षेः अपरा पत्नी आसीत् । अदितेः अपत्यं पुमान् आदित्यः कथ्यते । अतः द्वादशः आदित्याः अदितेः पुत्राः सन्ति । अदितिः संस्कृतशब्दः वर्तते । अमर्यादिता (Unlimited) इति तस्यार्थः भवति ।

परिचयः[सम्पादयतु]

अदितिः दक्षप्रजापतेः पुत्री आसीत् । अस्य विवाहः कश्यपर्षिणा सह अभवत् । कश्यपर्षेः द्वे पत्न्यौ आस्ताम् । एका दितिः, अपरा अदितिश्च । दितेः पुत्राः दैत्याः, अदितेः पुत्राः आदित्याः च कथ्यन्ते । मित्रं, वरुणः, धाता, अर्यमा, अंशः, भगः, विवस्वान्, आदित्यः, रुद्रः, इन्द्रः इत्यादयः अदितेः एव पुत्राः आसन् । आधुनिकदृष्ट्या अन्तरिक्षे आदित्याः भ्रमन्ति । अतः एतेषां बोधो भवति । देवाः अदितेः कारणेन एव देवत्वं प्राप्तवन्तः । अदित्या मृतः अण्डः अपि पुनः जीवितः । मार्तण्ड-देवस्य जन्म तथैव अभवत् । गर्भे एव तदण्डस्य जीवः मृतः आसीत् । तथापि अदित्या सः जीवः पुनर्जीवितः । अनन्तरं सः मार्तण्डः अभवत् । मार्तण्डः विश्वकल्याणाय अन्तरिक्षे गतिमान् अस्ति । पितापुत्रयोः, देवीदेवयोः, सर्वेषां वर्णानां प्रजानां च निर्माणं, पोषणं च केवलं माता एव करोति । अतः माता अदितिः ऋग्वेदकालीना माता कथ्यते । ऋग्वेदस्य प्रथममण्डलस्य मन्त्रः अस्ति यत् –

 

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स-पिता स-पुत्रः ।

विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् [१]

पौराणिकी कथा[सम्पादयतु]

सूर्यजन्म[सम्पादयतु]

स्वर्गलोकस्य सत्तायाः लोभेन दैत्यदेवानां शत्रुता जाता । दैत्यदेवाः परस्परं युद्धं कुर्वन्ति स्म । एकदा द्वयोः भयङ्करं युद्धम् अभवत् । बहुवर्षाणि यावत् तद् युद्धम् अभवत् । तस्मिन् युद्धे देवाः दैत्येभ्यः पराजिताः अभवन् । सर्वे देवाः वने विचरन्तः आसन् । तेषां दुर्दशां दृष्ट्वा अदितिकश्यपौ दुःखितौ अभवताम् । अनन्तरं नारदर्षिणा सूर्योपासनायाः उपायः उक्तः । अदित्या बहुवर्षाणि यावत् सूर्यस्य घोरतपस्या कृता । सूर्यदेवः अदित्याः तपस्यया प्रसन्नः अभवत् । तेन साक्षात् दर्शनं प्रदत्तं, वरदानं याचितुम् उक्तं च ।

अदितिः सूर्यस्य स्तुतिं चकार । तत्पश्चात् अदित्या वरदानं याचितं यत् – “भवान् मम पुमपत्यत्वेन आविर्भवतु” । किञ्चिद्दिनानन्तरं सूर्यस्य तेजः अदित्याः गर्भे समतिष्ठत् । किन्तु एकदा अदितिकश्यपौ प्रकोष्ठे आस्ताम्, तदा कश्यपर्षौ क्रुद्धे सति अदित्याः गर्भस्थशिशवे “मृत” इति शब्दस्य प्रयोगः कृतः आसीत् । तेन तस्मिन् समये एव अदित्याः गर्भात् एकं प्रकाशपुञ्जं बहिरागतम् । तं प्रकाशपुञ्जं दृष्ट्वा कश्यपर्षिः भयभीतः जातः । कश्यपर्षिः सूर्याय क्षमां ययाचे । तदैव आकाशवाणी अभवत् यत् – “भवद्भ्याम् अस्य पुञ्जस्य प्रतिदिनं पूजनं करणीयम् । उचितसमये तस्मात् पुञ्जात् एकस्य पुत्रस्य जन्म भविष्यति । सः भवतोः इच्छां पूर्णीकृत्य ब्रह्माण्डे स्थितः भविष्यति ।

समयान्तरे तस्मात् पुञ्जात् तेजस्वी बालकः उद्भूतः । अयम् एव “आदित्यः”, “मार्तण्डः” वा इति नाम्ना विख्यातः अस्ति । आदित्यस्य तेजः असहनीयम् आसीत् । अतः युद्धे दैत्याः आदित्यस्य तेजसं दृष्ट्वा एव पलायन्तः । सर्वे दैत्याः पाताललोके गतवन्तः आसन् । अन्ते आदित्यः सूर्यदेवस्वरूपेण ब्रह्माण्डस्य मध्यभागे स्थितः । ततः एव ब्रह्माण्डस्य सञ्चालनं कुर्वन् अस्ति [२]

दित्याः शापः[सम्पादयतु]

दक्षप्रजापतेः दितिः, अदितिः इत्याख्ये द्वे पुत्र्यौ आस्ताम् । कश्पर्षिः ताभ्यां सह विवाहम् अकरोत् । अदितिः इन्द्रम् अजीजनत् । सः तेजस्वी आसीत् । अतः दित्या अपि कश्पर्षेः एकः तेजस्वी पुत्रः याचितः । तदा महर्षिणा पयोव्रतं नामकम् उत्तमं व्रतं कर्तुम् उपायः प्रदत्तः । महर्षेः आज्ञानुसारं दित्या तद्व्रतं कृतम् । समयान्तरे दित्याः शरीरं दुर्बलम् अभवत् ।

एकदा अदित्याः आज्ञानुसारम् इन्द्रः दित्याः सेवां कर्तुं गतवान् । इन्द्रेण छलपूर्वकं दित्याः गर्भस्य सप्त भागाः कृताः । यदा ते शिशवः रुदन्तः आसन्, तदा इन्द्रेण उक्तं – “मा रुदन्तु” इति । अनन्तरं पुनः प्रत्येकस्य गर्भस्य सप्त विभागाः कृताः । तेन एकोनपञ्चाशत् पुत्राः समुद्भूताः । ते एकोनपञ्चाशत्मरुद्गणाः कथ्यन्ते । इन्द्रस्य अभद्रकार्येण क्रुद्धा दितिः अदित्यै शापम् अयच्छत् यत् – “इन्द्रस्य राज्यं शीघ्रमेव नक्ष्यति । यथा अदित्या मे गर्भः पातितः, तथैव तस्याः अपि पुत्राः जन्मसमये एव नशिष्यन्ति” इति ।

शापानां प्रभावेण एव द्वापरयुगे कश्यपर्षेः वसुदेवस्वरूपे, अदित्याः देवकीस्वरूपे, दित्याः रोहिणीस्वरूपे च जन्म अभवत् । देवक्याः सप्तपुत्राः कारागारे एव कंसेन हताः । अनन्तरम् अष्टमः पुत्रः विष्णोः अवतारः भगवान् कृष्णः अभवत् । अन्ते कृष्णेन स्वस्य मातुलस्य कंसस्य हननं कृतम् आसीत् [३]

वामनस्य जन्म[सम्पादयतु]

राजा बलिः दैत्यराजः आसीत् । सः दैत्येषु सर्वश्रेष्ठः आसीत् । देवानां राज्ञा बलिना सह युद्धः अभवत् । तस्मिन् युद्धे देवाः पराजिताः । देवानां स्थितिः दयनीया जाता । तेषां माता अदितिः अपि दुःखिनी आसीत् । तस्मिन् समये कश्यपर्षिः वने तपस्यां कुर्वन् आसीत् । यदा तस्य तपः समाप्तं जातं, तदा अदितिः देवानां स्थितिं श्रावितवती । देवानां कल्याणाय उपायः अपि तया पृष्टः । पयोव्रतपूर्वकं विष्णुभक्तेः उपायः कश्यपर्षिणा उक्तः ।

अदित्या पयोव्रतपूर्वकं भगवतः विष्णोः उपासना कृता । केषाञ्चन दिनानाम् अनन्तरं भगवान् विष्णुः प्रसन्नः अभवत् । भगवान् विष्णुः प्रकटीभूय उक्तवान् यत् – “हे देवि ! भवता श्रद्धापूर्वकं मम उपासना कृता अस्ति । अतः अहं वरं ददामि यत् – “अहं भवत्याः कुक्षौ अवतरिष्यामि । सः मम वामनावतारः भविष्यति । अहं दैत्यानां संहारं, देवानां रक्षणं च करिष्यामि” ।

कश्यपर्षिः भविष्यदर्शी आसीत् । अतः सः पूर्वमेव ज्ञातवान् आसीत् यत् – “विष्णुः अदित्याः कुक्षौ वामनावतारस्वरूपे अवतरिष्यति” । अनन्तरं तेन स्वस्य तेजः अदित्याः गर्भे स्थापितः । समयान्तरे भगवतः विष्णोः वामनावतारः अभवत् ।

राजा बलिः श्रेष्ठादानवीरः आसीत् । सः लोकत्रयस्य स्वामी आसीत् । देवतानां निवासाय अपि समस्या आसीत् । अतः भगवान् वामनस्वरूपेण बलेः राज्यं प्राप्तवान् । तत्र गत्वा वामनः भिक्षां ययाच । बलिः दानवीरः आसीत् । अतः सः दातुं तत्परः अभवत् । भगवता त्रिपादपरिमिता भूमिः याचिता । भगवतः याचनां श्रुत्वा बलिः पादपरिमिता भूमिं दातुं सङ्कल्पं कर्तुम् उद्यतः आसीत् ।

दैत्याचार्यः शुक्राचार्यः अपि तत्रैव आसीत् । सः ज्ञानवान् आसीत् यत् – “वामनस्वरूपेण साक्षात् भगवान् विष्णुः एव अस्ति । अतः शुक्राचार्येण तस्य सङ्कल्पम् अवरोद्धुं प्रयासः कृतः । किन्तु बलिः वचनपालकः आसीत् । अतः तेन संङ्कल्पः कृतः । अनन्तरं भगवता वामनेन स्वस्य विशालस्वरूपं कृत्वा प्रथमे पादे स्वर्गलोकं, द्वितीये पादे मृत्युलोकं च मापितम् । अनन्तरम् एकः पादः अवशिष्टः आसीत् । तदा बलिराज्ञा उक्तं यत् – “तृतीयपादं मे शिरसि स्थापयतु” इति । भगवता तृतीयपादः बलेः शिरसि स्थापितः । तेन बलिः पाताललोकं प्राप्तवान् । पुनः इन्द्रः स्वर्गलोकस्य राजा अभवत् । देवाः अपि सुःखिनः अभवन्[४]

गोस्वरूपा[सम्पादयतु]

गौः अपि अदित्याः स्वरूपम् अस्ति इति ऋग्वेदस्य अष्टममण्डले प्राप्यते यत् –

 

माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।

प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥१५॥

अर्थात् – “गोस्वरूपाम् अदितिं मा अवधीत्” । अनेन स्पष्टं भवति यत् अदितिः गोस्वरूपा आसीत् । अतः आधुनिके काले गोहत्या भवन्ती अस्ति । गोहत्यानिषेधस्य कारणम् अदितिः एव अस्ति । यतः गौः अदित्याः स्वरूपं, जगन्माता च वर्तते । अतः अस्माभिः गोहत्या न करणीया[५]

सर्वश्रेष्ठमातृत्वम्[सम्पादयतु]

इन्द्रः अदितेः पुत्रः मन्यते । अतः एकदा वामदेवेन अदितिः स्मारिता यत् – “हे देवि ! इन्द्रेण भवत्यै बहूनि कष्टानि प्रदत्तानि आसन् । भवता दीर्घकालं यावत् गर्भे इन्द्रस्य पोषणं कृतम् आसीत् । किन्तु गर्भे अपि इन्द्रेण बहूनि कष्टानि प्रदत्तानि” । तदा अदितिः उक्तवती यत् – “ न , एवं नास्ति । मम पुत्रः इन्द्रः भूतकालीनेषु, भविष्यत्कालीनेषु देवेषु, मनुष्येषु च अद्वितीयः वर्तते । अदितेः एतद्वचनं श्रुत्वा वामदेवः प्रभावितः जातः । यतः येन सर्वाधिकानि कष्टानि प्रदत्तानि सन्ति, तस्यै अपि महत्त्वं प्रददाति । तादृशी माता साधारणा न भवति । अदितेः मातृवात्सल्येन, पुत्रप्रेम्णा च वामदेवः अत्यन्तं प्रभावितः अभवत् ।

वामदेवेन अदितिं परीक्षितुं बहवः प्रयासाः कृताः । तेन इन्द्रस्य अनेकेषां तापदायकानां दुष्कृत्यानां, उपद्रवाणां च वर्णनं कृतम् । तथापि अदितिः पुत्रस्य सहस्राधिकापराधान् अपरिगणय्य केवलं तस्य गुणाः एव पश्यति स्म । यदा इन्द्रः गर्भे आसीत्, तदा तस्य उपद्रवाः अधिकाः आसन् । तेन सर्वत्र अशान्तिः आसीत् । देवाः, जनाः च सर्वे त्रस्ताः आसन् ।

तदा सर्वैः विचारितम् आसीत् यत् – “गर्भे एव इन्द्रस्य हननं करणीयम्” । किन्तु अदित्या इन्द्रः आवृतः । अदित्या मारकेभ्यः तस्य रक्षणम् अपि कृतम् आसीत् । यदा वामदेवेन इयं घटना श्रुता, तदा सः अपि चकितः जातः । अनन्तरं सः अपि इन्द्रस्य स्तुतिं कुर्वन् आसीत् । तस्मात् कारणादेव वामदेवेन इन्द्रविषयकानि बहूनि स्तोत्राणि अपि रचितानि आसन् [६]

अदितिः इन्द्रस्य श्रेष्ठा माता इव पालनं कृतम् आसीत् । तस्य सर्वासाम् आवश्यकतानां पूर्तिः कृता । किन्तु “सः अपमार्गं मा गच्छेत्” इत्यपि तया चिन्तितम् आसीत् । ’अन्यायस्य विरोधे कार्याणि करणीयानि” इति अदित्या इन्द्रः शिक्षितः । अनेन प्रकारेन अदित्या स्वपुत्रः इन्द्रः विश्वकल्याणाय निरन्तरं सङ्घर्षशीलः कारितः । तया स्वपुत्राः कठोरव्यवहारेण, वात्सल्येन च सर्वेषु क्षेत्रेषु उच्चपदेषु स्थापिताः आसन् ।

ऋग्वेदे अपि उक्तं यत् –

 

सं कर्मार इवाधमत् देवानां पूर्व्ये युगे[७]

अदितिः वैदिकी श्रेष्ठा नारी अस्ति । सा मातृवात्सल्येन परिपूर्णा अस्ति । जगद्गुरुणा शङ्कराचार्येण रचिते “देव्यपराधक्षमापनम्” इति स्तोत्रे अपि उक्तम् अस्ति यत् – “कुपुत्रो जायेत क्वचिदपि कुमाता न भवति” इति । स्त्रीणां गुणेषु प्रेम, आत्मीयता, अवर्णनीयं वात्सल्यं च अन्यतमाः भवन्ति । अदितिः एते सर्वे गुणाः धरति स्म ।

अदित्या प्रमाणीकृतं यत् – “सा श्रेष्ठा माता अस्ति” । यथा काचन स्त्री मातृस्वरूपे पुत्रस्य पालनं करोति, तथैव कन्यास्वरूपेण पितुः, पत्नीस्वरूपे पत्युः च चिन्तां करोति । पुत्रस्य अपेक्षा पुत्री एव पित्रे स्वाभाविकस्नेहं, आत्मीयताम्, आधारम्, आश्रयञ्च यच्छति । अदित्या अपि एतावत् एव कृतम् आसीत् । ऋग्वेदे अपि लिखितं यत् –

 

अदितिर्ह्यजनिष्ठ दक्ष या दुहिता तव ।[७]

शतपथब्राह्मणग्रन्थे अपि पितागुर्वोः अपेक्षया माता श्रेष्ठा अस्ति इति कथितम् अस्ति यत् –

 

मातृवान् पितृवान् आचार्यवान पुरुषो वेद ।

माता महत्परिश्रमेण बालकान् संस्करोति । सा समाजस्य मार्गदर्शनं कृत्वा सर्वेभ्यः सुखं यच्छति । अतः अदितिः देवतानां “निर्माणकर्त्री” इति कथ्यते । सा जगन्माता अपि कथ्यते [६]

जगते योगदानम्[सम्पादयतु]

अस्मिन् जगति अदितेः महत्वपूर्णयोगदानम् आसीत् । अदित्या एव अस्य जगतः निर्माणं कृत्वा प्रत्यक्षस्वरूपं प्रदत्तम् आसीत् । अनेन स्पष्टं भवति यत् – “ इयं केवलं स्वस्य पुत्रस्य चिन्तां न करोति स्म, अपितु सर्वेषां हितं समानदृष्ट्या पश्यति स्म । मातुः नेतृत्वेन एव संस्काराणां सिञ्चनं भवति । मानवः समाजश्च सर्वदा सुखी, समृद्धश्च भवेत् । अतः मातुः कार्यं महत्वपूर्णं भवति । तेजसः, ऊर्जायाः च उपयोगः विश्वस्य कल्याणाय, अन्येभ्यः जीवनं प्रदातुं च कर्त्तव्यः । अदित्या अपि एतानि कार्याणि कृतानि आसन् ।

अदितिः बुद्धिमती आसीत् । “विश्वोत्पत्तिः कथं भवति” इत्यस्य ज्ञानमपि आसीत् । तया उक्तं यत् –

 

देवानांपूर्व्ये युगे सतः सदजायत ।

पुरा किमपि नासीत् । यतः तस्मिन् समये इदं विश्वम् अव्यक्तम् आसीत् । समयान्तरे व्यक्तजगतः निर्माणं जातम् । ततः परं वृक्षाः समुद्भूताः । विश्वस्य मूलाधारः वृक्षः एव । वृक्षेभ्यः एव मृत्तिकायाः निर्माणं भवति । यदि वृक्षाः न भवेयुः, तर्हि मरुः इव इदं विश्वं भविष्यति । अतः अदित्या उक्तं यत् – वृक्षेभ्यः एव भुवः निर्माणम् अभवत् । वृक्षैः एव मृत्तिका निर्मिता । यथा ऋग्वेदे प्राप्यते यत् -

 

भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त[७]

अनन्तरं दिशः समुद्भूताः । ततः परं निर्माणशक्त्या अदितिस्वरूपे मातृत्वस्य निर्माणम् जातम् । तदनन्तरम् अदितिः सशक्तान्, नेतृत्वगुणयुतान् देवान् अजीजनत् । ते देवाः जीवनप्रदाः, कल्याणदाः, सुखदाः, समृद्धिदाः च अभवन् । सर्वत्र वन्द्याः, अमृतबन्धवः च सन्ति ते देवाः । पुनश्च ऋग्वेदे –

 

तां देवा अन्वजायन्त भद्रा अमृतबन्धवः । [७]

अदितिः विश्वस्य जीवनाय, कल्याणाय च रक्तमज्जामांसयुतान् सप्तपुत्रान् अजीजनत् । अनन्तरं विश्वस्य सञ्चालनाय मार्गदर्शनाय च अष्टमस्य मार्तण्डस्य जन्म अभवत् । तदा विश्वचक्रम् आरब्धम् । जन्ममरणयोः शृङ्खला निर्मिता । अदितेः ज्ञानं, ध्यानं, कर्त्तव्यं चैव मातृत्वं वर्तते । अतः मातुः अधिकं महत्त्वं वर्तते । मातुः अदितेः सम्पूर्णजीवनेन मातुः महत्त्वम् अवबुद्ध्यते [८]

बाह्यानुबन्धाः[सम्पादयतु]

अदिति

सन्दर्भाः[सम्पादयतु]

  1. https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१.८९
  2. पुराणों की कथाएँ, पृ. – ७६-७७
  3. "संग्रह प्रतिलिपि". Archived from the original on 2017-09-21. आह्रियत 2015-09-09. 
  4. पुराणों की कथाएँ, पृ. – ८०
  5. https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_८.१०१
  6. ६.० ६.१ वेदकालीन स्त्रियाँ, मधुर आष्टीकर, पृ. ७३
  7. ७.० ७.१ ७.२ ७.३ https://sa.wikisource.org/wiki/ऋग्वेद:_सूक्तं_१०.७२
  8. वेदकालीन स्त्रियाँ, मधुर आष्टीकर, पृ. ७६

अधिकवाचनाय[सम्पादयतु]

http://www.gyanvaak.com/researchpapers/rpview?arg=113#_ftn4 Archived २०१५-०२-१३ at the Wayback Machine

"https://sa.wikipedia.org/w/index.php?title=अदितिः&oldid=479871" इत्यस्माद् प्रतिप्राप्तम्