सामग्री पर जाएँ

शरीरं च रक्तवाः स्रोत

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Circulatory System en

एतत् शरीरम् | इदं सर्वेषां भगानाम् आयतनम् | सुखस्य दुःखस्य चानुभवः भोगः | अस्य देहस्येशः जीवः | अस्मिन् देहे अनेकानि अङ्गानि सन्ति | एतैः अङ्गैः जीवः सुखं दुखं चानुभवति | वयं शीर्षेण देवं प्रमामः | रसनया देवस्य गुणान् गायामः | तथा तया रसम् आस्वदयमः | नेत्राभ्यां देवस्य सुन्दरं रूपं पश्यामः | घ्राणेन गन्धं जिघ्रामः | सज्जनाः चित्तेन सत्कार्याणी संकल्पायन्ति | दुष्टाः कुकार्याणि संकल्पयन्ति | वयं कराभ्यां देवं साज्जनम् चार्चामः | पादाभ्यां देवालयं गच्छामः |

हस्तौ चरणौ च

[सम्पादयतु]

इमौ हस्तौ | प्रतिहस्तं पञ्च अङ्गोल्यः सन्ति | ताः अङ्गुष्ठः, तार्जनी, मध्यमा, अनामिका, कनिष्ठिका च | सर्वेषु कार्येषु येताः उपयुज्यन्ते | एतौ चरणौ | पादाभ्यां चलामः, धावामः, तिष्ठामः, गच्छामः, आगच्छामः च | जनाः एतैः सर्वैः अङ्गैः सत्कार्याणि कुकार्याणी च कुर्वन्ति | असत्कार्यैः तात्कालिकं सुखं भवति | सत्कार्यैः शाश्वतं सुखं भवति | असत्कार्यम् अयशस्करम् | परिणामे अपारं दुखं भवति | सत्कार्येण चित्तं प्रसन्नं शान्तं च भवति |

ज्ञनेन्द्रियाणि

[सम्पादयतु]
Five senses

पञ्च ज्ञनेन्द्रियाणि नेत्रं, कर्णं, नासिकां, जिव्हा, त्वक् इति | नासिकायाः कार्यं श्वास - निष्वसं गन्धं ग्रहणं च | श्वास - निष्वसं अस्माकं जीवनं | अतः नासिका अतीव मुख्यम् इन्द्रं | द्वे भागानि सन्ति | शीतल वायोः आगमनं सोष्मवायोः निर्गमनस्य अनुभवं नासिकायाः अग्रे एव भवति | अपरं इन्द्रियं अस्ति कर्णः | ते द्वे स्तः | कर्णस्य कार्यं अस्ति श्रवणं | मधुरं कर्कषं मृदुलं इति विविधाः स्वराः अस्माभिः कर्णेन श्राव्यते | केचन मुदं ददाति केचन खेदं च ददाति | अति सूक्ष्मं शब्दं यथा हृदयं परिचालन अपि अस्माभिः आकर्ण्यते | अत एव अतीव मुख्याः इन्द्रियाः कर्णः | जिव्हा एका भवति | जिभायाः सहायेन वयं वक्तुं शकमः | अस्माकं मनोभावानि व्यक्तं कर्तुं शकमः |भोजनस्य रुचिं अपि जिभायाः सहायेन वयं अनुभवामः | षट् रुचीनां आम्ल, ताक्त, लवण, कटु, मधुर, कशाय परिचयं ददाति जिव्हा | एषा जिव्हा अस्माकं मुखस्य अन्तः दन्तानां पृष्टे स्थिता भवति | आश्चर्यकरम् यत् एषे जिव्हा दन्तानां मध्ये न आगच्छति ! नेत्रे द्वे | प्रपञ्च दर्शनं ददाति नेत्रं | सप्त वर्णानां सौन्दर्यस्य अनुभवं प्राप्तुं नेत्रं आवश्यकम् | अन्यस्य मनः नेत्रं दर्शयति | यदा मनसि दुखः भवति तदा नेत्रे अश्रूणि आगच्छति | अत एव अतीव मुख्यः इन्द्रयः नेत्रः | अतीव विशालः इन्द्रः त्वक् | शीत उष्णयोः अनुभवः त्व च एव ददाति | मनुष्यस्य बाह्य सौन्दर्यं त्वक् एव परीचयति | देशस्य बाह्य रक्ष्ण कार्यं त्वचा करोति | किन्तु मनुष्यस्य सौन्दर्यं त्वचायः अन्तः मनसि एव भवति |

रक्तवाः स्रोत

[सम्पादयतु]
Circulation of blood through the heart

हृदो रसो निस्सरति तस्मादेति च सर्वशः | सिराभिर्हृदयं वैति तास्मात्त त्प्रभवाः सिराः || शरीर जीवानार्थं रक्तस्य प्रवहणं सदा अपि आवश्यकं भवति | एतत् कार्यं कर्तुं हृदयस्य, द्मनीनां सिराणाम् च आवश्यकम् अस्ति | रक्तावाहिन्यौ रक्तं हृदयात् प्राणवायुं तथा येव रसान् अपि सर्वान् अङ्गान् प्रति नयति | एतत् विषये अस्माकं पूर्व जनाः विलियाम् हार्वे महोदयात् पूर्वं एव बहु सम्यक् जानन्ति स्म | अथर्ववेदात् स्वीकृत आयुर्वेदे अस्य विषयस्य सूक्ष्मतेया विवरणं दत्त्मस्ति | आयुर्वेदः साक्षात् अथर्व वेदस्य उपवेदः एव तत् अर्थम् आयुर्वेदस्य पञ्च्मवेदः इत्यपी कथ्यते | रक्तवाह स्रोतस्य विषये हृदयं, प्रमुखम् अङ्गं भवति | हृदयस्य विवरणं एवं कृतमस्ति | पुण्डरीकं नवद्वारं त्रिभिर्गुणौरभिरव्रतम् | तस्मिन् यत् यक्षा मात्मत्व तद्वैब्रङ्ग्विदोविदुः || हृदयस्य दक्षिण भागे त्रीणि उद्धतनानि,वामा भागे चत्वारि उद्धातनानि च भवन्ति |

वर्णस्य भग्नः

[सम्पादयतु]

हृ अक्षरं हरति शब्दात्, द ददाति शब्दात्, य इति वर्णं अयति इति शब्दात् उदृतं अस्ति | अस्माकं शरीरे रसस्य प्रमुख स्थानं हृदयं एव अस्ति | शुशृत महोदयः तस्य पुस्तकं "शुभृत संहितायां" चतुविशति धमन्यः हृदयात् बहः आगच्छति |

"https://sa.wikipedia.org/w/index.php?title=शरीरं_च_रक्तवाः_स्रोत&oldid=459562" इत्यस्माद् प्रतिप्राप्तम्