शाङ्ख्यायनारण्यकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

शाङ्ख्यायनारण्यकम् ऋग्वेदस्य द्वितीयमारण्यकमस्ति । एतस्मिन् कौषीतकि-उपनिषद्, संहितोपनिषद् च अन्तर्भवतः।

स्वरूपम्[सम्पादयतु]

एतस्मिन् पञ्चदशाध्यायाः सन्ति । आतृतीयाध्यायम् अत्र षष्ठाध्यायपर्यन्तं कौषीतकि-उपनिषदिति कथ्यते, तथा सप्तमाष्टमावध्यायौ संहितोपनिषदिति कथ्येते । एतद्भिन्नाध्यायेषु अारण्यकस्य मुख्याविषयाणां प्रतिपादनमस्ति ।

विषयवस्तु[सम्पादयतु]

प्रथम-द्वितीयाऽध्याययोः महाव्रतस्य वर्णनमुपलब्धमस्ति । वर्षावधी सम्पाद्यमानस्य गवामयन-नामकयज्ञस्य उपान्त्यदिने महाव्रतस्य अनुष्ठानं भवति । तस्मिन्नेव दिने सवनत्रयमपि भवति । अस्मिन्नारण्यके होतृनामकेन ऋत्विजा प्रयुक्तशस्त्राणां वर्णनमस्ति । महाव्रतस्य समग्राऽनुष्ठानिकविधानानां विवरणं शाङ्खायनश्रौतसूत्रे समुपलब्धमस्ति। अस्यानुष्ठानस्य सर्वाधिकमहत्त्वपूर्णमङ्गं महदुक्थस्य अथवा निष्केवल्यशस्त्रस्य सविस्तृतं वर्णनं तत्रैवान्याध्यायेषु[१] उपलब्धो भवति ।

कौषीतकिब्राह्मणोपनिषद् चतुर्षु अध्यायेषु विभक्तो भूत्वा ( तृती०-षष्ठ० अध्या० ) अस्य एवारण्यकस्य अंशोऽस्ति तथा संहितोपनिषद् पुरोभागस्य द्वयोरध्याययोः विद्यमानमस्ति । इमे द्वे उपनिषदौ शाङ्खायनारण्यकस्य अविभाज्यमङ्गमस्ति । नवमाध्याये प्राणस्य श्रेष्ठतायाः वर्णनमस्ति । दशमाध्याये अान्तराग्निहोत्रस्य साङ्गोपाङ्गं वर्णनमस्ति । अस्य अध्यायस्य कथनमस्ति यद् अग्निहोत्रेण सन्तृप्तस्तथा आप्यायितो देवः जीवस्य आभ्यन्तरे एव विद्यमानोऽस्ति । बाह्याग्निहोत्रेण अस्य तृप्तिर्भवति । यो हि साधकः अज्ञात्वैव तत्त्वमिदं केवलं बाह्यहवने एवासक्तो भवति, सः भस्मचये एव जुहोति । मृत्योः अपसारणाय एकस्य विशिष्टयागस्य एकादशतमाध्याये विस्तृतं विवरणं प्रदत्तमस्ति । द्वादशतमाध्याये बिल्वफलेन मणिनिर्माणस्य प्रक्रियायाः, कालस्य तथा स्वरूपस्य च वर्णनमस्ति । यं धृत्वा साधकः शत्रूणामुपरि विजयं लभते । त्रयोदश-चतुर्दशतमाध्याययोः सङ्क्षिप्तेन आत्मनः ब्रह्मणा सहैकत्वस्य प्राप्तेः प्रतिपादनं जीवस्य सर्वोत्तमोपलब्धिः कथ्यते । ‘अात्मावगम्योऽहं ब्रह्मास्मीति' इयमेवोक्तिः अस्यारण्यकस्य सर्वोच्चोपदेशत्वेन स्वीक्रियते।

'ऋचां मूर्धानं यजुषामुत्तमाङ्गम्,

साम्नां शिरोऽथर्वणां मुण्डमुण्डम्।

नाधीतेऽधीत वेदमाहुस्तमज्ञं

शिरस् द्वित्वासौ कुरुते कबन्धम्।।'

पञ्चदशतमाध्याये अाचार्यस्य वंशवर्णनमस्ति । अनेनाध्ययनेन स्पष्टरूपेण प्रतीतो भवति यद् अस्य आरण्यकस्य द्रष्टुः ऋषेः नाम गुणाख्यशाङ्ख्यायनः आसीत्। तस्य गुरोः नाम कहौलः कौषीतकिः इति अासीत् । उभावेतौ अन्तिमाचार्यौ स्तः । अनेनैव कारणेनास्य शाङ्ख्यायनारेण्यकस्य अन्तर्गतोपनिषद् कौषीतकि-नाम्ना ख्याताऽस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. १॥४॥५,२=१-१७
"https://sa.wikipedia.org/w/index.php?title=शाङ्ख्यायनारण्यकम्&oldid=425142" इत्यस्माद् पुनः प्राप्तिः