सामग्री पर जाएँ

संस्कृतव्याकरणपरम्परा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सुसमृद्धा विद्याशाखा। वेदाङ्गेषु अन्यतमम्। संस्कृतव्याकरणस्य अयं विशेषःयद् इदं व्याकरणं दर्शनात्मकमपि। अन्यासु भाषासु व्याकरणं दर्शनात्मकं नास्ति। भारतीयानां व्याकरणविषये प्रगाढं चिन्तनमनेन सूच्यते।

पाणिनिपूर्वं व्याकरणम्

[सम्पादयतु]

पाणिनिग्रन्थेन पूर्वतनग्रन्थाः गतार्थाः अतः लुप्ताः। तेषामस्तित्वं पाणिनिग्रन्थादेव अनुमीयते। चतुःषष्ट्यधिकानां वैयाकरणानाम् उल्लेखाः पाणिनिना कृताः। तत्र एते मुख्याः -

1) काश्यपः 2) अपिशालिः 3) गार्ग्यः 4) गालवः 5) शाकटायनः 6) सेनकः 7) स्फोटायनः।

1) पाणिनिः (अष्टाध्यायी।) (ख्रि.पू. चतुर्थं शतकम्।)
2) कात्यायनः- (ख्रि.पू.300-400)
3) पतञ्जलिः - (ख्रि.पू. 150) पुष्यमित्रस्य समकालिकः। अतः अस्य कालस्य अवधारणं शक्यम्। व्याकरणे सर्वमान्यः अयं भाष्यकारः। अनेन काश्चित् परिभाषाः कृताः, याभिः पाणिनिसूत्राणां व्याप्तिः वर्धिता। अतः एव तत्र तत्र कात्यायनकृतानां वार्तिकानामनवसरः प्रतिपादितः। क्वचित् पाणिनिसूत्राणि अपि अनेन आक्षिप्तानि। अस्य गद्यशैली प्रभावपूर्णा अनुकरणीया च।
4) भर्तृहरिः (ख्रि.पू. 650) (वाक्यपदीयम्। प्रकीर्णम् महाभाष्यटीका।) – वाक्यपदीये व्याकरणस्य दार्शनिकः विचारः प्रकटितः। प्रकीर्णे व्याकरणान्तर्गताः विविधाः विषयाः चर्चिताः। महाभाष्यटीका त्रुटिता उपलभ्यते।
5) वामनजयादित्यौ (ख्रि.पू. 600- 660) (काशिकावृत्तिः।)- एतौ बौद्धवैयाकरणौ। पाणिनिसूत्रेषु इयं वृत्तिः। चन्द्रगोमिना यः अंशः अन्यत्र उक्तः तस्य पाणिनिव्याकरणे समावेशाय ग्रन्थारम्भः।
6) जिनेन्द्रबुद्धिः (काशिकाविवरणपञ्जिका।)- वङ्गदेशीयः अयं बौद्धः वैयाकरणः। विस्तृता टीका कृता।
7) कैय्यटः (प्रदीपः) (ख्रि.प. 1200) – बहुमूल्या टीका। पाणिनिसम्प्रदाये प्रमाणग्रन्थः।
8) हरदत्तः (पदमञ्जरी) (ख्रि.प. 1100-1200) काशिकायां टीका। स्वतन्त्रमतानि प्रतिपादितानि। क्वचित् पतञ्जलिना सह विरोधः अपि स्वीकृतः।
9) रामचन्द्रः (प्रक्रियाकौमुदी ) (ख्रि.प. 1400-1450) प्रक्रियाग्रन्थानामयमारम्भः।विठ्ठलाचार्येण अत्र प्रसादनाम्नी टीका कृता।
10) भट्टोजिदीक्षितः (सिद्धान्तकौमुदी। प्रौढमनोरमा। शब्दकौस्तुभः।)(ख्रि.प. 1604-1704)- प्रक्रिया-ग्रन्थेषु श्रेष्ठः ग्रन्थः सिद्धान्तकौमुदी। तत्र स्वेन एव प्रौढमनोरमा टीका कृता। शब्दकौस्तुभः अष्टाध्यायीटीकाग्रन्थः।
11) नागेशभट्टः (ख्रि.प. 1700-1800)-व्याकरणे अस्य प्रभुत्वं सर्वसंमतम्। योगशास्त्रे अलङ्कारशास्त्रे अपि अस्य अधिकारः वादातीतः। व्याकरणे अस्य कार्यमित्थम्-
उद्योतटीका – प्रदीपे।
बृहच्छब्देन्दुशेखरः- सिद्धान्तकौमुद्याम्
लघुशब्देन्दुशेखरः - सिद्धान्तकौमुद्याम्
परिभाषेन्दुशेखरः - परिभाषाणां सङ्ग्रहः।
बृहद्वैय्याकरणसिद्धान्तमञ्जूषा
लघुवैय्याकरणसिद्धान्तमञ्जूषा ।
12) वरदराजः - लघुसिद्धान्तकौमुदी, मध्यसिद्धान्तकौमुदी।

अन्ये व्याकरणसम्प्रदायाः

[सम्पादयतु]

1 चान्द्रव्याकरणम्
चन्द्रगोमी (ख्रि.प. 450) अस्य रचयिता। पाणिनिसूत्राणां पुना रचना अनेन कृता। लोकेषु प्रसिद्धमासीदेतद्व्याकरणम्। तिबेटभाषया अनुवादिताः अस्य नैकाः टीकाः सन्ति।जैनेन्द्रव्याकरणम् - (ख्रि.प. 450-500) मौलिकता नास्ति। पाणिनिसूत्राणां वार्तिकानां च सङ्क्षेपः अत्र विद्यते।

2 शाकटायनव्याकरणम् - (ख्रि.प. 800-825) पाणिनिना उल्लिखितः शाकटायनः अस्माद् भिन्नः। 1) शब्दानुशासनम् 2) अमोघवृत्तिः 3) परिभाषासूत्रम् 4) गणपाठः 5) धातुपाठः 6) उणादिसूत्रम् 7) लिङ्गानुशासनम्। पाणिनि-कात्यायन-जिनेन्द्राणां मेलनेन अयं सम्प्रदायः शाकटायनेन स्थापितः।

3 हेमचन्द्रव्याकरणम् (ख्रि.प. 1000-1100) शब्दानुशासनम्। तत्र 4000 सूत्राणि।सङ्ग्रहरूपः ग्रथः, नतु मूलरूपः। शब्दानुशासनबृहद्विवृतिः नाम टीका स्वयमेव लिखिता।

4 कातन्त्रव्याकरणम्=कातन्त्रसूत्राणि=कौमारव्याकरणम्=कालापव्याकरणम् (ख्रिस्ताब्दारम्भः) सर्ववर्मा अस्य प्रणेता।पाणिनिमतेभ्यः अस्य मतानि बहुषु स्थलेषु भिन्नानि।वङ्ग-काश्मीरदेशयोः अस्य प्रचारः आसीत्।

5 सारस्वतव्याकरणम् (ख्रि.प. 1350) अनुभूतिस्वरूपाचार्येण लिखिता सारस्वतप्रक्रिया अस्य ग्रन्थः।प्रतिपादनं धृष्टतायुक्तम्।

6 मुग्धबोधव्याकरणम् बोपदेवः।(ख्रि.प. 1200-1300) सङ्क्षिप्ता सरला च शैली।अस्य संज्ञाः बहुषु स्थलेषु पाणिनिकृताभ्यः संज्ञाभ्यः भिन्नाः।

7 जौमरव्याकरणम् (ख्रि.प. 1200-1300) क्रमदीश्वरकृतः सक्षिङ्प्तसारः अस्य ग्रन्थः। भट्टिकाव्याद् उदाहरणानि स्वीकृतानि।जुमरनन्दिना अस्य रसवती नाम टीका रचिता।पश्चिमवङ्गदेशे अस्य प्रचारः।

8 सौपद्मव्याकरणम्। पद्मनाभेन लिखितः सुपद्म नाम ग्रन्थः अस्य आधारः। वस्तुतः पाणिनिमतमेव अत्र अवलम्बितम्। स्वयं ग्रन्थकृता सुपद्ममञ्जिका नाम टीका अत्र कृता।

दर्शनविशिष्टानि व्याकरणानि

[सम्पादयतु]

स्वमतप्रसारार्थं व्याकरणस्य अधारः स्वीकृतः कैश्चित्। बोपदेवेन अस्य आरम्भः कृतः। अनन्तरं रूपगोस्वामिना (ख्रि.प. 1400-1500) हरिनामृतं लिखितं यत्र कृष्णः तथा राधा इति व्याकरणस्य पारिभाषिके संज्ञे! जीवगोस्वामिना अपि हरिनामामृतं नाम व्याकरणं लिखितम्। चैतन्यामृतं नाम किमपि वैष्णवं व्याकरणम् उल्लिखितं सोलब्रुकमहोदयेन।