सदस्यः:Khitishwarnath Pandey/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इतिहासः[सम्पादयतु]

राजस्थान-राज्यस्य प्राचीनं नाम ऋग्वेदे अपि प्राप्यते । ई. स. ७०० वर्षाणि पूर्वं वर्तमानकालिकस्य राजस्थान-राज्यस्य भूमौ बहूभिः राजवंशजैः शासनं कृतम् आसीत् । मौर्य-वंशः, मालवा-वंशः, कुषाण-वंशः, शक-वंशः, गुप्त-वंशः, हूण-वंश इत्यादयः वंशजाः अस्मिन् राज्ये शासनं कृतवन्तः । अष्टमशताबदीतः द्वादशशताब्दीपर्यन्तं अस्मिन् राज्ये बहुभिः राजपूत-वंशजैः शासनं कृतम् । तेषु प्रतिहार-वंशः, चालुक्य-वंशः, परमार-वंशः, चौहान-वंशः इत्यादयः प्रमुखाः आसन् । द्वादशशताब्द्यां राजस्थान-राज्यस्य बृहत्तमः भागः मुस्लिम-शासनाधीनः जातः आसीत् । तदा अजमेर-राज्यं शासनस्य प्रमुखं केन्द्रम् आसीत् । ई. स. ११९१ तमे वर्षे “मुहम्मद गोरी” इत्याख्येन मुस्लिम-शासकेन सर्वप्रथमं राजस्थानराज्ये आक्रमणं कृतम् आसीत् । तेन “पृथ्वीराज चौहान” इत्याख्यः राजा तराईन-युद्धे पराजितः । अनन्तरं तेन अजमेर-राज्ये स्वस्य आधिपत्यं स्थापितम् । ततः परम् “अलाउद्दीन खिलजी” इत्याख्येन मुस्लिम-शासकेन अस्मिन् राज्ये आक्रमणं कृतम् । ई. स. १३०१ तमे वर्षे “अलाउद्दीन खिलजी” इत्याख्येन मुस्लिम-शासकेन “हम्मीर” इत्याख्यः राजा पराजितः । ई. स. १५२७ तमे वर्षे “बाबर” इत्याख्येन मुस्लिम-शासकेन खानवा-युद्धे “राणा साङ्गा” पराजितः । ई. स. १५६७ तमे वर्षे अकबर-राज्ञा मेवाड-क्षेत्रे आक्रमणं कृत्वा चितौड-राज्यं जितम् । ई. स. १७०७ तमे वर्षे मुगल-शासकानां पतनानन्तरं राजस्थान-राज्ये मराठा-शासकैः, पिण्डारी-जनैः आक्रमणं कृतम् । ई. स. १८१७ तमे वर्षे राजस्थान-राज्यस्य शासकैः आङ्ग्ल-सर्वकारेण सह सन्धिः कृता । ततः परं राजस्थान-राज्यस्य सर्वाणि क्षेत्राणि आङ्ग्ल-सर्वकाराधीनानि जातानि [१]

भौगोलिकम्[सम्पादयतु]

राजस्थान-राज्यं भौगोलिकदृष्ट्या भारतस्य बृहत्तमं राज्यम् अस्ति । इदं राज्यं ३,४२,२३९ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । अस्य राज्यस्य अधिकतमं क्षेत्रं मरुस्थले स्थितम् अस्ति । तत् थार-मरुस्थलम् इति कथ्यते । राजस्थान-राज्ये विभिन्नक्षेत्राणां जलवायुः अपि भिन्नः भवति । अस्य राज्यस्य दक्षिण-पूर्वक्षेत्रे अत्यधिकं वृष्टिः भवति । किन्तु पश्चिमक्षेत्राणि शुष्कानि एव भवन्ति । शीतर्तौ केषाञ्चित् स्थानानां न्यूनतमतापमानं २ डिग्रीसेल्सियसमात्रात्मकं भवति । किन्तु ग्रीष्मर्तौ तत्र अधिकतमतापमानं ५० डिग्रीसेल्सियसमात्रात्मकं च भवति । विश्वस्य प्राचीनतमा अरावली-पर्वशृङ्खला राजस्थान-राज्ये एव स्थिता अस्ति [२]

जलवायुः[सम्पादयतु]

राजस्थान-राज्यस्य जलवायुः शुष्कमरुस्थलीयः अस्ति । अस्य राज्यस्य पश्चिमभागे ग्रीष्मर्तौ प्रायः ४९ डिग्रीसेल्सियसमात्रात्मकं तापमानं भवति । अस्मिन् राज्ये जनवरी-मासः सम्पूर्णवर्षस्य शीतलः मासः भवति । तस्मिन् काले न्यूनतमतापमानं प्रायः २ डिग्रीसेल्सियसमात्रात्मकं भवति [३]

नद्यः[सम्पादयतु]

राजस्थान-राज्ये चम्बल-नदी सर्वदा प्रवहति । सम्पूर्णराज्यस्य जलापूर्तिः अपि अनया नद्या एव भवति । बनास-नदी चम्बल-नद्याः सहायिका नदी अस्ति । अस्याः नद्याः उद्भवः, अन्तश्च अस्मिन् राज्ये एव भवति । लूनी-नदी, सोम-नदी, घग्घर-नदी, कालीसिन्ध-नदी, मादी-नदी, पार्वती-नदी, बाणगङ्गा-नदी, साबरमती-नदी इत्यादयः राजस्थान-राज्यस्य प्रमुखाः नद्यः सन्ति । अस्मिन् राज्ये इन्दिरागान्धी-कुल्या अपि अस्ति । इयं कुल्या अस्य राज्यस्य दीर्घतमा कुल्या अस्ति [४]

तडागाः[सम्पादयतु]

राजस्थान-राज्ये बहवः तडागाः सन्ति । अजमेर-नगरे पुष्कर-तडागः, उदयपुर-नगरे जयसमन्द-तडागः, पछौला-तडागः च, सिरोही-नगरे नक्की-तडागः, उदयपुर-नगरे फतेहसागर-तडागः, देबर-तडागः इत्यादयः मधुरजलस्य तडागाः सन्ति । एतेषु तडागेषु देबर-तडागः बृहत्तमः अस्ति । राज्येस्मिन् लवणजलतडागाः अपि सन्ति । जयपुर-नगरे साँभर-तडागः, बाडमेर-नगरे पञ्चभद्रा-तडागः, बीकानेर-नगरे लूणकरणस-तडागः, नागौर-मण्डलस्य डीडवाना-तडागः, जैसलमेर-नगरस्य कावोद-तडागः, जोधपुर-नगरस्य फलौदी-तडागः इत्यादयः राजस्थान-राज्यस्य लावणजलतडागाः सन्ति । तेषु लावणतडागेषु जयपुर-नगरस्थः साँभर-तडागः भारतस्य बृहत्तमः लावणतडागः अस्ति । राजस्थान-राज्यस्य अजमेर-नगरस्थः पुष्कर-तडागः भारतस्य पवित्रतमः तडागः अस्ति । पुष्कर-तडागः राजस्थान-राज्यस्य प्राचीनतमः तडागः मन्यते । उदयपुर-नगरस्य जयसमन्द-तडागः विश्वस्य बृहत्तमेषु कृत्रिममानवनिर्मितेषु तडागेषु द्वितीयः अस्ति [५]

पर्वताः[सम्पादयतु]

राजस्थान-राज्ये बहूनि पर्वतशिखराणि सन्ति । सिरोही-नगरस्य गुरुशिखर-पर्वतशिखरं, सिरोही-नगरस्य सेर-पर्वतशिखरं, उदयपुर-नगरस्य जरगा-पर्वतशिखरं, सीकर-नगरस्य रघुनाथगढ-पर्वतशिखरं, अजमेर-नगरस्य तारागढ-पर्वतशिखरं, जयपुर-नगरस्य बाबई-पर्वतशिखरं, अलवर-नगरस्य बैराठ-पर्वतशिखरम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि पर्वतशिखराणि सन्ति [६]। एतेषु पर्वतेषु सिरोही-नगरस्य पर्वतशिखरे “माउण्ट् आबु” इति नाम्ना विश्वस्मिन् प्रसिद्धे स्तः ।

खानिजाः[सम्पादयतु]

राजस्थान-राज्ये प्रचूरमात्रायां खानिजाः प्राप्यन्ते । अतः एव इदं राज्यं “खनिजों का अजायबघर” इति कथ्यते । अस्मिन् राज्ये प्रायः ५० प्रकाराणां खानिजाः प्राप्यन्ते । तेषु खानिजेषु ४० प्रकाराणां खानिजानां सततम् उत्खननं भवति । एतेषु खानिजेषु जसदं (zinc), रजतः (silver), अभ्रकं (mica), चूर्णपाषाणः, श्वेतशैलः इत्यादयः अस्य राज्यस्य प्रमुखाः खानिजाः सन्ति । “टङ्गस्टन् सान्द्र”. “फायर क्ले”, “सीसा जस्ता”, “जिप्सम्”, “केल्साइट्”, “रॉक् फास्फेट्”, ’बाल क्ले”, “टाल्क्” इत्यादयः अपि राजस्थान-राज्ये प्राप्यन्ते [७]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् राजस्थान-राज्यस्य जनसङ्ख्या ६,८६,२१,०१२ अस्ति । तेषु ३,५६,२०,०८६ पुरुषाः, ३,३०,००,९२६ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २०१ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०१ जनाः । राजस्थान-राज्ये पुरुषस्त्रियोः अनुपातः १०००-९२६ अस्ति [८] । प्रदेशेऽस्मिन् सर्वधर्माणां जनाः निवसन्ति । तेषु हिन्दुधर्मस्य ९०.०५ प्रतिशतं जनाः, इस्लामधर्मस्य ९.०६ प्रतिशतं जनाः, ईसाई-धर्मस्य ०.१४ प्रतिशतं जनाः, सिक्खधर्मस्य १.२७ प्रतिशतं जनाः, बौद्धधर्मस्य ०.०१ प्रतिशतं जनाः, जैनधर्मस्य ०.९० प्रतिशतं जनाः, अन्यधर्माणां ०.००६ प्रतिशतं जनाः, ०.००१ प्रतिशतं नास्तिकाः च निवसन्ति । हिन्दी-भाषा अस्य राज्यस्य आधिकारकी भाषा अस्ति । अस्मिन् राज्ये ९१ प्रतिशतं जनाः हिन्दीभाषां वदन्ति । उर्दु-भाषा, पञ्जाबी-भाषा, भीली-भाषा च व्यवह्रीयते ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं राजस्थान-राज्यस्य साक्षरतामानं ६६.५९ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८०.५१ प्रतिशतं, स्त्रीणां च ५२.६६ प्रतिशतं च अस्ति । जयपुर-नगरस्य “राजस्थान-विश्वविद्यालयः”, “संस्कृतविश्वविद्यालयः” च; जोधपुर-नगरस्य “जयनारायणव्यास-विश्वविद्यालयः”; उदयपुर-नगरस्य “मोहनलाल सुखाडिया विश्वविद्यालयः”, कोटा-नगरस्य “वर्धमान महावीर मुक्त विश्वविद्यालयः”, जोधपुर-नगरस्य “राष्ट्रियविधिविश्वविद्यालयः”, बीकानेर-नगरस्य “राजस्थानकृषिविश्वविद्यालयः”, अजमेर-नगरस्य “महर्षिदयानन्दविश्वविद्यालयः”, लाडनूं-नगरस्य “जैन विश्व भारती”, उदयपुर-नगरस्य “राजस्थान-विद्यापीठम्”, वनस्थली-नगरस्य “वनस्थली-विद्यापीठं”, पिलानी-नगरस्य “बिडला इन्स्टीट्यूट् ऑफ् टेक्नोलॉजी एण्ड् सायन्स्” इत्यादीनि राजस्थान-राज्यस्य प्रमुखाणि शैक्षणिकानि संस्थानानि सन्ति [९]

राजनीतिः[सम्पादयतु]

राजस्थान-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः २०० स्थानानि सन्ति । राज्ये लोकसभायाः २५, राज्यसभायाः १० स्थानानि सन्ति । ”भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “राष्ट्रीय लोकदल”, “जनता दल (यू.)”, “राजस्थान सामाजिक न्याय मञ्च” इत्यादयः राजस्थान-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । भारते प्रप्रथमस्य पञ्चायतशासनस्य आरम्भः ई. स. १९५९ तमस्य वर्षस्य अक्टूबर-मासस्य २ दिनाङ्के राजस्थान-राज्यस्य नागौर-मण्डले कृतः [१०]

अर्थव्यवस्था, कृषिः, उद्योगाः च[सम्पादयतु]

राजस्थान-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । कृषिष्वपि कार्पासं प्रमुखं विद्यते । अस्मिन् राज्ये “लङ्गुरा” (Millet) अपि अधिकमात्रायाम् उद्पाद्यते । सम्पूर्णभारतस्य उत्पादनस्य ३० प्रतिशतं लङ्गुरा-सस्यम् अस्मिन् राज्ये एव उत्पाद्यते । अस्मिन् राज्ये गन्धद्रव्याणि अपि अधिकानि भवन्ति । मरिचं, जीरकं, करम्भा (Fennel), धान्याकं (Coriander), लशुनं (Garlic) इत्यादीनि अस्य राज्यस्य प्रमुखाणि गन्धद्रव्याणि सन्ति । अस्मिन् राज्ये लवेटिकायाः (corn), गोधूमस्य (Wheat), तण्डुलानां (Rice) चापि कृषिः क्रियते । अस्य राज्यस्य अन्ये अपि उद्योगाः सन्ति । वस्त्रस्य, वज्रचूर्णस्य, कीटनाशकस्य, उर्वरकस्य, इष्टिकायाः च उद्योगाः सन्ति [११]

कला, संस्कृतिश्च[सम्पादयतु]

राजस्थानराज्यं कलादृष्ट्या भारतस्य समृद्धराज्येषु अन्यतमम् अस्ति । भारतीयकलायाः क्षेत्रे राजस्थानराज्यस्य चित्रकलाशैली उत्कृष्टा अस्ति । कलाक्षेत्रे राजस्थानराज्यस्य महद्योगदानम् अस्ति । अत्र चित्रकलायाः बह्व्यः शैल्यः प्राप्यन्ते । मारवाडी-शैली, मेवाड-शैली, जयपुर-शैली, बूंदी-शैली, बीकानेर-शैली इत्यादयः चित्रकलायाः विविधाः शैल्यः सन्ति । राजस्थान-राज्यस्य लोकसङ्गीतं, लोकनृत्यं च अपि सम्पूर्णे भारते प्रसिद्धम् अस्ति । लोकसङ्गीतेषु माण्ड-शैली अत्यन्तं मनोहरं, आह्लादकं च भवति । सङ्गीतक्षेत्रे “मीराबाई” इत्याख्या प्रसिद्धा अस्ति । “राणा कुम्भा” अपि सङ्गीतक्षेत्रे विख्यातः वर्तते । राजस्थान-राज्ये स्थापत्यकलायाः जनकः “राणा कुम्भा” एव मन्यते । अस्य राज्यस्य हस्तकला, शिल्पकला च अपि विश्वस्मिन् प्रसिद्धा वर्तते । राजस्थान-राज्यं मुख्यतया राजपूतानां क्षेत्रं विद्यते । यतः अस्मिन् क्षेत्रे सर्वाधिकराजक्षेत्राणि आसन् । अतः एव अस्य राज्यस्य नाम “राजस्थानम्” इति अभवत् ।

परिवहनम्[सम्पादयतु]

राजस्थान-राज्यस्य परिवहनं समृद्धम् अस्ति । इदं राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धम् सन्ति । अतः जनाः सरलतया राजस्थान-राज्यं प्राप्नुवन्ति ।

भूमार्गाः[सम्पादयतु]

राजस्थान-राज्यस्य सर्वकारेण भूमार्गस्य व्यवस्था दृश्यते । सर्वकारेण सम्पूर्णे राज्ये भ्रमणार्थं बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः राजस्थान-राज्यस्य विभिन्ननगराणां भ्रमणं कर्तुं शक्यते । राजस्थान-राज्यं ८ क्रमाङ्कस्य, ११२ क्रमाङ्कस्य, ११६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अन्याः अपि प्रायः विंशः राष्ट्रियराजमार्गाः अस्मिन् राज्ये सन्ति । एते राष्ट्रियराजमार्गाः राजस्थान-राज्यं भारतस्य प्रमुखनगरैः सह सञ्योजयन्ति । अस्मिन् राज्ये आहत्य १,५८,२५० किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । तेषु राष्ट्रियराजमार्गाः ५,७१२ किलोमीटरमिताः, राज्यराजमार्गाः ११,७१६ किलोमीटरमिताः च दीर्घाः सन्ति । अतः सरलतया भूमार्गेण राजस्थान-राज्यं प्राप्यते ।

धूमशकटमार्गाः[सम्पादयतु]

राजस्थान-राज्यस्य धूमशकटमार्गाः भारतस्य प्रमुखनगरैः सह सम्बद्धाः अस्ति । अस्मिन् राज्ये धूमशकटमार्गाः ५,४५९ किलोमीटरमिताः दीर्घाः सन्ति । भारतस्य प्रमुखेषु रेलस्थानकेषु बहूनि रेलस्थानकानि राजस्थान-राज्ये स्थितानि सन्ति । जयपुर-नगरस्य, उदयपुर-नगरस्य, अजमेर-नगरस्य, बीकानेर-नगरस्य, कोट-नगरस्य इत्यादीनि रेलस्थानकानि राजस्थान-राज्ये स्थितानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, अमृतसर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । अनेन प्रकारेण राजस्थान-राज्यं धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । जनाः धूमशकटमार्गेण राजस्थान-राज्यस्य विभिन्ननगराणि सरलतया गन्तुं शक्नुवन्ति ।

वायुमार्गाः[सम्पादयतु]

राजस्थान-राज्यं वायुमार्गेण अपि सुदृढम् अस्ति । राज्येऽस्मिन् जयपुर-नगरे एकम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । जयपुर-नगरस्य विमानस्थानकं “साङ्गानेर” इति नाम्ना विश्वस्मिन् प्रसिद्धम् अस्ति । जयपुर-विमानस्थानकात् भारतस्य विदेशस्य च नगरेभ्यः वायुयानानि प्राप्यन्ते । अपि च पञ्च राष्ट्रियविमानस्थानकानि सन्ति । उदयपुर-नगरे, जोधपुर-नगरे, कोटा-नगरे, जैसलमेर-नगरे बीकानेर-नगरे च राजस्थान-राज्यस्य राष्ट्रियविमानस्थानकानि सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । एतानि विमानस्थानकानि देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभिः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धानि सन्ति । अनेन प्रकारेण राजस्थान-राज्यं वायुमार्गेण भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धम् अस्ति । जनाः सरलतया राजस्थान-राज्यस्य प्रमुखनगराणि गन्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १११७
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२१
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२२-१२३
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२२
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२३
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२३
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ११४
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२५
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ११८
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १२४