सदस्यः:Shwesmile/प्रयोगपृष्ठम्9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:Infobox food



इक्षुरसः
इक्षुरसनिर्माणम्

अयम् इक्षुरसः भारते अपि पीयमनं किञ्चित् प्रसिद्धं पेयम् । एतम् इक्षुरसम् आङ्ग्लभाषायां Sugarcane Juice इति वदन्ति । अयम् इक्षुरसः अपि सस्यजन्यः आहारः । अस्य इक्षुरसस्य सज्जीकरणावसरे एव अपेक्षानुसारं निम्बूकरसः, शुण्ठी, हिमम्, एला इत्यादिकं योज्यते । कदाचित् तथैव केवलम् इक्षुरसः एव पीयते । अयम् इक्षुरसः आरोग्यार्थम् अपि अत्यन्तम् उत्तमः । सिद्धपेयानां स्थाने इक्षुरसस्य उपयोगः अत्युत्तमः ।


भारते प्रायः सर्वेषु अपि प्रदेशेषु इक्षुरसस्य उपयोगः अस्ति एव । तत्रापि महाराष्ट्रम्, आन्ध्रप्रदेशः, तमिळ्नाडु, पञ्जाब्, हरियाणा, हिमाचलप्रदेशः, राजास्थानम्, उत्तरप्रदेशः इत्यादिषु राज्येषु अत्यन्तं प्रसिद्धं पेयम् अस्ति । विश्वे भारतं विहाय पाकिस्तानं, हाङ्ग्काङ्ग्, वियेट्नां, ब्रेज़िल्, ईजिप्त्, पूर्व-आफ्रिका, बाङ्ग्लादेशः, कीन्या, सिङ्गपुरं, मलेष्या, इण्डोनेष्या इत्यादिषु देशेषु अपि इक्षुरसः पेयत्वेन उपयुज्यते । पाकिस्ताने तु अयम् इक्षुरसः राष्ट्रियं पेयम् अस्ति ।


इदानीं सर्वत्र इक्षुरसनिर्माणं वाणिज्यरूपेण प्रवृद्धम् अस्ति । इक्षुरसस्य एव आपणाः अपि सन्ति । मार्गस्य पार्श्वे अपि यन्त्रं संस्थाप्य इक्षुरसं निर्माय विक्रयणं कुर्वन्ति । केषाञ्चन जीवनाधारः उद्योगः एव इक्षुरसस्य निर्माणम् ।

can't use in sandboxपेयानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]]‎ can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]]