सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/अपिशलिः
अपिशलिः पाणिनेः पूर्वं जातेषु संस्कृतवैयाकरणेषु अन्यतमः। पाणिनिना उल्लिखितेषु नवसु पूर्वाचार्येषु अपिशलिः अपि विद्यते। वा सुप्यपिशलेः(६/१/९२) इत्यस्मिन् सूत्रे पाणिनिः अपिशलेः नामग्रहणम् अकरोत्।
वंशः
[सम्पादयतु]अपिशलेः ग्रन्थः न उपलब्धः इत्यस्माद् तस्य वंशविषये अधिकं विवरणं न ज्ञायते। काशिकाकारः वामनः अपिशलस्य अपत्यं पुमान् इत्यापिशलिः इति व्युत्पत्तिं दर्शितवान्। गणेशरत्नमहोदधिकारः वर्धमानः अपिशलिशब्दस्य व्युत्पत्तिम् उणादिसूत्रबलेन साधयति। पिंशतीत्यौणादिककलप्रत्यये पिशलः। न पिशलो अपिशलः इति तस्य मतम्। वाचस्पत्यकोषे अपि पूर्वपदयुक्तः शल धातोः अच् प्रत्ययेअपिशलः इति शब्दं साधयति। अपिशलः इति अपिशलेः नामान्तरम् इति केचन वदन्ति। युधिष्ठिरमीमांसकः अमुं अपिशलिं भृगुवंशीयं मनुते।
देशः कालश्च
[सम्पादयतु]काशीनाथवासुदेव अभ्यङ्करस्य मतानुसारं अपिशलिः वङ्गदेशीयः। वबयोः उच्चारणविषयकाः शिक्षाग्रन्थेषु विद्यमानाः आधाराः अत्र प्रमाणम्। पाणिनेः अपेक्षया १०० वर्षेभ्यः पूर्वम् अपिशलिः आसीदिति विदुषामभिप्रायः। पाणिनेः कालपर्यन्तम् अपिशलिशाला इति काचित् विद्यासंस्था आसीत्। अत्र मुण्डकोपनिषदि अपि महाशालशब्दस्य प्रयोगः दृश्यते। एतेन व्याकरणाध्ययनार्थम् अपिशलेः पाठशाला आसीदिति ज्ञातुं शक्नुमः।
व्याकरणम्
[सम्पादयतु]अपिशलव्याकरणम् अष्टसु अध्यायेषु विभक्तम् आसीत् इति पाल्यकीर्तिः शाकटायनव्याकरणस्य अमोघावृत्तौ वदति। अपिशलिविरचितशिक्षायामपि अष्टौ अध्ययाः विद्यन्ते। पाणिनिना वा सुप्यपिशिलेः इत्यत्र एकत्रैव अपिशलेः उल्लेखः कृतः। कात्यायनपतञ्जल्योः काले अपि अपिशलव्याकरणस्य महती प्रसिद्धिः आसीत्। कन्याः अपि अपिशलव्याकरणस्य अध्ययनं कुर्वन्ति स्म। अभिनवशाकटायनस्य अमोघावृत्त्याम् अष्टकापिशलपाणिनीयाः इति उल्लेखः विद्यते।
- उभयस्योङ्द्विवचनटापोः।
- विभक्त्यन्तं पदम्।
- मन्यकर्मण्यनादरे उपमाने विभाषाऽप्राणिषु ।
- चिरसाययोर्मश्च प्रगप्रावयोरेत्वम्।
- धेनोरजः।
इत्यादीनि अपिशलिसूत्राणाम् उल्लेखः उत्तरकालिकेषु व्याकरणग्रन्थेषु उपलभ्यते।
वैशिष्ट्यम्
[सम्पादयतु]- अपिशलमतानुसारं लृकारस्य दीर्घभेदः भवति।
- वबयोः स्पष्टः भेदः दर्शितः।
- आगमः, आदेशः, विकारः इत्यादीनां परिभाषा प्रस्तुता।
- विभक्त्यन्तं पदम् इति पदसंज्ञाविधायकं सूत्रं रचितम्।
- समूहार्थकतद्धिते तदन्तविधित्वाङ्गीकारः।
- पाणिनिना निपातितानां केषाञ्चन शब्दानां सिद्धिक्रमः।
प्रभावः
[सम्पादयतु]पाणिनेः अष्टाध्याय्याः रचना अपिशलव्याकरणाद् प्रभाविता। तत्रापि अष्टौ एव अध्यायाः विरचिताः। टाप्, ठन्, शप् इत्यादिषु प्रत्ययेषु अपि अपिशलेः प्रभावः दृश्यते। अपिशलिना एव भष् प्रत्याहारः आदौ रचितः। एतेन महेश्वरसूत्रेषु प्रत्याहाररचने अपिशलेः प्रभावः दृश्यते इति विदुषामभिप्रायः।
अपिशलिशिक्षा
[सम्पादयतु]अपिशलिना न केवलं व्याकरणसूत्राणि अपि तु शिक्षाग्रन्थः अपि विरचितः। अपिशलशिक्षायाः उल्लेखः राजशेखरेण काव्यमीमांसायाः द्वितीयाध्याये तत्र वर्णानां स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा अपिशलीयादिका इति कृतः। भर्तृहरेः वाक्यपदीये नाभिप्रदेशात् इति उक्तम् वर्तते। वृषभदेवः तस्य मूलम् अपिशलीयशिक्षा इति उल्लिखति। हैमशब्दानुशासने अपि अपिशलेः उल्लेखः दृश्यते। तैत्तरीयप्रातिशाख्यस्य गार्ग्यगोपालय् वैदिकाभरणटीकायामपि अपिशलिः उल्लिखितः। शब्दभाष्यनामके ग्रन्थे अपि केषाञ्चन शिक्षासूत्राणाम् उल्लेखः दृश्यते। यद्यपि पाणिनीयशिक्षास्थसूत्राण्येव सन्ति, तथापि क्वचित् प्रागुक्तं तु मतान्तरं न पाणिनीयम् इत्युक्तम्। एतेन अपिशलिशिक्षायाः ऊहा क्रियते।[१]
ग्रन्थोपलब्धिः
[सम्पादयतु]अपिशलेः ग्रन्थानाम् उपलब्धिः नास्ति। परन्तु अनेकेषु व्याकरणग्रन्थेषु अपिशलिनाम्ना कारिकाः प्रसिद्धाः विद्यन्ते। अपिशलिना शिक्षाग्रन्थः धातुपाठश्च विरचितः इति ज्ञायते। परन्तु समग्रग्रन्थरूपेण अपिशलेः कृतिः साम्प्रतम् नोपलभ्यते। अपिशलिशिक्षानाम्ना कश्चन ग्रन्थः क्वचित् प्रकाशितः अपि दृश्यते।[२]