सामग्री पर जाएँ

कौशिकी नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सप्तकाैशिकी नदी इत्यस्मात् पुनर्निर्दिष्टम्)
कौशिकी नदी
River
Countries चीन, नेपाल, भारत
States शिगात्से, जनकपुर, बिहार
Regions Tibet Autonomous Region, Eastern Development Region, Nepal, North-Central India
Cities Biratnagar, Purnia, Katihar
Source इन्द्रावती, सुनकोशी, तामाकोशी, भोटेकोशी, लिखु, अरुण and तमोर form Saptakoshi
 - coordinates २६°५४′४७″ उत्तरदिक् ८७°०९′२५″ पूर्वदिक् / 26.91306°उत्तरदिक् 87.15694°पूर्वदिक् / २६.९१३०६; ८७.१५६९४
Mouth Ganges
 - coordinates २५°२४′४३″ उत्तरदिक् ८७°१५′३२″ पूर्वदिक् / 25.41194°उत्तरदिक् 87.25889°पूर्वदिक् / २५.४११९४; ८७.२५८८९
Length ७२० km (४४७ mi)
Basin ६१,००० km2 (२३,५५२ sq mi)
Discharge
 - average फलकम्:Unit discharge monthly[]
कौशिकीजलावसेचनम्

कौशिकी नदी चिनदेशस्य स्वशासित तिब्बत प्रदेशात् निसृत्य नेपालदेशस्य उत्तरतः दक्षिणस्यां वहति । विहारस्य कटिहारमण्डलान्तर्गते कुर्सेलास्थानसमीपे इयं गङ्गायां मिलति । सप्तनद्याः समागमेन सप्तकौशिकीति नाम्ना इयं विख्याता विद्यते । सप्तकौशिक्यां अभिव्यापका सप्तनद्यः - अरुणः, वरुणः, तमोरः, सुनकोशी, दुधकोशी, तामाकोशी (भोटेकोशी) इन्द्रावती []

पूर्वीय हिन्दूवैदिकधर्मसंस्कृतौ नद्याः अतीव महत्वपूर्णस्थानमस्ति । प्रातरुत्थाय भूमौ पादन्यासात् पूर्वं धरणीदेव्याः एतादृशवाक्येन क्षमां प्रार्थयन्ति हैन्दवाः ।

समुद्रवसने देवि पर्वतस्तनमण्डले ।

विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।।

पूर्वीयसंस्कृतौ पर्वतानां नदीनाञ्च तादृशं स्थानं कल्पितम् । नद्यः तु मातृस्थाने विराजन्ते नेपालीयहृन्मन्दिरेषु । तासां नामानि अपि स्त्रीप्रत्ययान्तानि भवन्ति एव । नद्यस्तु नेपालवासिनां जनानाम् जीवनस्य अविभाज्यानि अङ्गानि सन्ति । अस्मिन् देवभूमौ सहस्राधिकाः नद्यः वहन्ति । इत्येव अस्या भूम्याः सौभाग्यम् ।

नदीपरिचयम् उद्भवञ्च

[सम्पादयतु]

पौराणिकमहत्त्वम्

[सम्पादयतु]

सप्तकाैशिक्याः तीरे वराहक्षेत्र नामधेयं अतीव पवित्रं प्रसिद्धञ्च हिन्दूतीर्थस्थलं वर्तते । इदं स्थानं धरानतः २५ किलाेमिटर पश्चिमाेत्तरस्यां दिशि स्थिताेस्ति । वराहपुराणे एतत्क्षेत्रस्य महत्त्वपूर्णवर्णनं वर्तते । अष्टादशपुराणेषु अन्यतमं वर्तते इदं पुराणम् । इदं किञ्चन प्राचीनं पुराणम्

सप्तकौशिक्याः प्राकृतस्थिति

[सम्पादयतु]

अस्माकम् देशस्य प्रकृतिसम्पदा समृद्धोsस्ति । पूर्वीयवाङ्मये पृथ्वी, जलम्, वायुः, अग्निः, आकाशेति पञ्चमहाभूतात्मकानि प्रकृतिः । पञ्चमहाभूते जलस्य सर्वाेपरि स्थानम् वर्तते । सप्तकाैशिक्याः जलं शुद्धं निर्मलञ्च । अस्माकं परमपावनी सप्तकाैशिकी गङ्गा पुण्यनदीरूपेण तिष्ठेत् सदैव ।

सन्दर्भ सामग्रयः

[सम्पादयतु]
  1. १.० १.१ Nayak, J. (1996). Sediment management of the Kosi River basin in Nepal. In: Walling, D. E. and B. W. Webb (eds.) Erosion and Sediment Yield: Global and Regional Perspectives. Proceedings of the Exeter Symposium July 1996. IAHS Publishing no. 236. Pp. 583–586.

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कौशिकी_नदी&oldid=472400" इत्यस्माद् प्रतिप्राप्तम्