१९०१

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१९०१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

अज्ञाततिथीनां घटनाः[सम्पादयतु]

अस्मिन् वर्षे आस्ट्रियादेशस्य कार्ल् लाण्ड्स्टैनर् नामकः रक्तं "ए", "बी", "सि" तथा "ओ" इति विभक्तवान् ।
अस्मिन् वर्षे जपान्-देशीयः रसायनविज्ञानी जोकिचि टकमीन् नामकः "अड्रिनलीन्" नामकं "हार्मोन्" संशोधितवान् ।
अस्मिन् वर्षे अमेरिकादेशीयः जीवविज्ञानी क्लारेन्स् मेक्क्लुङ्ग् नामकः लिङ्गसम्बद्धान् वर्णतन्तून् संशोधितवान् ।
अस्मिन् वर्षे जर्मनीदेशीयः एमिल् अडाल्फ् वान् बेह्रिङ्ग् नामकः "डिप्तीरिय आण्टीटाक्सिन्" इत्यस्य प्रतिविषस्य संशोधनस्य निमित्तं "नोबेल्"पुरस्कारं प्राप्नोत् ।
अस्मिन् वर्षे रवीन्द्रनाथ ठाकुरः शान्तिनिकेतने विश्वभारतिविद्यापीठस्य स्थापनम् अकरोत् ।
अस्मिन् वर्षे कन्नडभाषायाः प्रसिद्धः लेखकः फ.गु. हलकट्टिः बि ए परीक्षायाम् उत्तीर्णः जातः ।
अस्मिन् वर्षे भारतस्य महान् दार्शनिकः श्री अरविन्दः भूपालचन्द्रबोसस्य पुत्रीं मृणाळिनीं परिणीतवान् ।
अस्मिन् वर्षे प्रवृत्ते लण्डन्–नगरस्थायाः रायल्–सोसैट्याः अन्ताराष्ट्रिय–विज्ञानसम्मेलने प्रसिद्धः भारतीयः जीवविज्ञानी जगदीशचन्द्रबोसः "रासायनिकानां प्रयोगेण सस्यानि अपि प्रज्ञाहीनानि कर्तुं शक्यन्ते" इति प्रत्यपादयत् ।
अस्मिन् वर्षे भारतदेशस्य कर्णाटकराज्यस्य सिद्धगङ्गाक्षेत्रे यात्रामहोत्सवः आरब्धः ।
अस्मिन् वर्षे वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् भौतशास्त्रस्य निमित्तम् एव आरक्षितेन "नोबेल्”पुरस्कारेण भौतशास्त्रस्य क्षेत्रे एव प्रथमवारं सम्मानितः ।
अस्मिन् वर्षे निवेदिता भारतम् आगतवती ।
अस्मिन् वर्षे भारतस्य क्रान्तिकारिणः विनायकदामोदरसावरकरस्य विवाहः सम्पन्नः ।

जन्मानि[सम्पादयतु]

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

निधनानि[सम्पादयतु]

अस्मिन् वर्षे सुप्रसिद्धः कन्नडकविः मुद्दणः इहलोकम् अत्यजत् ।

जनवरी-मार्च्[सम्पादयतु]

एप्रिल्-जून्[सम्पादयतु]

जुलै-सेप्टेम्बर्[सम्पादयतु]

अक्टोबर्-डिसेम्बर्[सम्पादयतु]

बाह्य-सूत्राणि[सम्पादयतु]

Calendopedia


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=१९०१&oldid=432010" इत्यस्माद् प्रतिप्राप्तम्