मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Main page इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
शास्त्रसम्बद्धाः लेखाः
शास्त्रीयलेखाः
साहित्यदर्पणम् विश्वनाथेन रचितः ग्रन्थः। पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते। सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः। अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः। साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे। तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत्।

श्री चन्द्रशेखरमहाकविचन्द्रसूनु
श्रीविश्वनाथकविराजकृतं प्रबन्धम्।
साहित्यदर्पणममुं सुधियो विलोक्य
साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ (सा. दर्पण- १०-१००)

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति। दशपरिच्छेदात्मकोऽयं ग्रन्थः। (अधिकवाचनाय »)



অবদানকারীর জন্য পাঠ্য
अद्यतनं चित्रम्

बकः

Weißstorch Walsrode 2014 01.jpg



आधुनिकलेखः
आधुनिकाः लेखाः
दौलतसिंह कोठारी.gif

दौलतसिंहः भारतस्य प्रसिद्धः वैज्ञानिकः। १९६१ तमात् वर्षात् दशवर्षाणि यावत् सः विश्वविद्यालयानुदानायोगस्य अध्यक्षपदं व्यभूषयत्। १९६४ तमे वर्षे सः राष्ट्रियशिक्षायोगस्यापि अध्यक्षः आसीत्। प्रशासकीयसेवायै १९६२ तमे वर्षे सः पद्मभूषणं, १९७३ तमे वर्षे च पद्मविभूषणं प्राप्नोत्। १९०६ तमस्य वर्षस्य जुलाई-मासस्य सप्तमे (६/७/१९०६) दिनाङ्के राजस्थानराज्यस्य उदयपुरे दौलतसिंहस्य जन्म अभवत्। तस्मिन् काले उदयपुरं मेवाडराज्यस्य अङ्गभूतम् आसीत्। दौलतसिंहस्य पिता फतेहलाल कोठारी शिक्षकः आसीत्। तस्य ज्येष्ठः पुत्रः दौलतसिंहः। दौलतसिंहस्य अन्ये त्रयः भ्रातरः, एका भगिनी च आसन्। १९१८ तमे वर्षे अष्टात्रिंशत् (३८) वर्षीयः फतेहलाल-महोदयः दिवङ्गतः। तस्मिन् काले दौलतसिंहः द्वादशदेशीयः (१२) आसीत्। ज्येष्ठपुत्रे सति पितुः निधनोत्तरं गृहदायित्वं दौलतसिहंस्योपरि आपतितम्। दौलतसिंहस्य माता जैनमतानुयायिनी आसीत्। सा सर्वदा अन्येषां साहाय्यार्थं तत्परा भवति स्म। दौलतसिंहस्य जीवने तस्य मातुः प्रभावः प्रत्यक्षः आसीत्। (अधिकवाचनाय »)




प्रश्नस्य उत्तरं जानासि?
ज्ञायते किं भवता?
भगवद्गीतायां कति अध्यायाः सन्ति ? ते के ?
भगवद्गीतायाम् अष्टादश अध्यायाः सन्ति –



वर्तमानघटनाः
अद्यतनं सुभाषितम्

वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः। भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति। भवतः मम च सन्तोषः समानः एव। तत्र न कोपि भेदः। यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः। मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=425470" इत्यस्माद् पुनः प्राप्तिः