सामग्री पर जाएँ

प्राचीनभूगर्भशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भूमेः गोलाकृतिम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? धिक् मेकालेपुत्राणां विशेषबुध्दिम् । अपि च गोलपरिभाषायाम् उच्यते –

मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः ।
कपित्थफलवद्वृत्तः सर्वकेन्द्रेखिलाश्रयः ॥
स्थिरः परेशशक्त्येव सर्वगोळादधः स्थितः ।
मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥

भूमिः पञ्चभूतात्मिका, कपित्थफलाकारिका च इति अत्र स्पष्टतया निरुपितम् अस्ति । कपित्थफलाकाराकत्वं नाम दैर्ध्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृष्टं भवति । अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्या (परेशशक्त्या) निरालम्बा भूमिः व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ॥

आर्यभटः भूव्यासम् अधिकृत्य वदति-ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति । (१०५० =१२=१२६०० किलोमीट्टर् ।) आधुनिकाः अपि एतत एव परिमाणं प्रतिपादयन्ति ॥

भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मत्पूर्वजैः सिध्दान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति मेघदूतस्य पठनात् स्फुटीभवति ॥

भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङ्गीकुर्वन्ति । श्रीकृष्णविलासकाव्ये भूमिब्रह्मसंवादे भूस्थितिः,भुकम्पनम् सूर्यरश्मिमहिमा इत्यादयः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणाविषये भास्कराचार्येण विशदतया प्रतिपादितम् ॥

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

124-132, [४] Archived २०११-०७-२१ at the Wayback Machine