सामग्री पर जाएँ

भारतस्य राष्ट्रियचिह्नानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राष्ट्रियचिह्नानि

[सम्पादयतु]
नाम चिह्नम् चित्रम् विशेषम्
राष्ट्रियध्वजः भारतस्य राष्ट्रध्वजः पिङ्गलि वेङ्कय्यद्वारा रचितः (भारतीयः त्रिरङ्गः) भारतीयत्रिरङ्गस्य उपरिभागे केसरवर्णः, मध्यभागे श्वेतवर्णः, अधोभागे हरितवर्णः अस्ति । मध्ये यः श्वेतभागः अस्ति, तस्य मध्यभागे नीलवर्णीयं, चतुर्विंशतिहोरात्मकं चक्रं विद्यते । तस्य चक्रस्य नाम अशोकचक्रम् इति ।
राष्ट्रियचिह्नम् भारतस्य राष्ट्रियचिह्नम् (चतुर्मुखिसिंहः) १९५० तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे (२६/१/१९५०) दिनाङ्के गणतन्त्रोत्सवदिने एतत् चतुर्मुखिसिंहचिह्नं राष्ट्रियचिह्नत्वेन उद्धोषितम् । तस्मिन् राष्ट्रियचिह्ने देवनागरीलिप्या 'सत्यमेव जयते' इति भारतगणराज्यस्य ध्येयवाक्यम् अङ्कितम् अस्ति । तस्य ध्येयवाक्यस्य अर्थः 'सत्यस्य एव जयः भवति' इति ।[]
राष्ट्रियपञ्चाङ्गम् भारतस्य राष्ट्रियपञ्चाङ्गम् (शकपञ्चाङ्गम्) शकपञ्चाङ्गं राष्ट्रियपञ्चाङ्गं भवतु इति विचारः Calendar Reform Committee द्वारा १९५७ तमे वर्षे उपस्थापितः आसीत् । भारतस्य अन्यभागेषु सूर्यसिद्धान्ताधारेण अन्यप्रकारकाणि पञ्चाङ्गानि भवेयुः । परन्तु चैत्रमासात् यस्मिन् पञ्चाङ्गे नूतनवर्षः आरभ्यते, तत् पञ्चाङ्गमेव भारतस्य राष्ट्रियपञ्चाङ्गत्वेन अत्र स्वीकृतमस्ति । १८७९ शकस्य चैत्रमासस्य प्रतिपदातः (१९५७ तमस्य वर्षस्य मार्च-मासस्य द्वाविंशतितमात् दिनाङ्कात् (२२/३/१९५७)) अस्य पञ्चाङ्गस्य औपचारिकोपयोगः प्रारभत । []
राष्ट्रगानम् "जन गण मन" रवीन्द्रनाथ ठाकुरद्वारा रचितम् १९५० तमस्य वर्षस्य जनवरी-मासस्य चतुर्विंशतितमे (२४/१/१९५०) दिनाङ्के भारतीयसंविधानपरिषदा "जन गण मन" इति राष्ट्रगीतत्वेन उद्घोषितम् । []
राष्ट्रगीतम् वन्दे मातरम् बङ्किमचन्द्र चट्टोपाध्यायद्वारा रचितम् १८९६ तमे वर्षे प्रप्रथमवारं राष्ट्रिय-नेशनल-कोङ्गेस-पक्षस्य राजैनतिकसमारम्भे अस्य गीतस्य गायनम् अभवत् । []
राष्ट्रियपुष्पम् भारतीयकमलम् (कमलम्) भारतीयसंस्कृत्यां कमलस्य अति उच्चस्थानमस्ति । हिन्दुमान्यतायां कमलं पवित्रं, सांस्कृतिकप्रतीकं, कलाप्रतीकम्, ईश्वरप्रतीकं च मन्यते । []
राष्ट्रियफलम् आम्रम् भारतवर्षे शतं भिन्नाकार-रङ्ग-प्रकारकाणि आम्रफलानि उपलभ्यन्ते । आम्रफलस्य उत्पादनं भारते आदिकालात् चलदस्ति । महाकविकालिदासेन आम्रफलस्य स्तुतिः कृता आसीत् । []
राष्ट्रियनदी गङ्गा विश्वस्मिन् न कस्यापि नद्याः तीरे तावन्तः मानवाः निवसन्ति, यावन्तः भारतस्य बहत्तमायाः गङ्गानद्याः तीरे निवसन्ति । भूमौ पवित्रतमा नदी गङ्गा इति हिन्दुसंस्कृत्यां मन्यते । []
राष्ट्रियवृक्षः भारतीयवटवृक्षः भारतीयवटवृक्षस्य शाखाः स्वयं वृक्षस्य मूलत्वेन परिवर्तन्ते । मूलरूपिशाखाभिः सह वटवृक्षः अतिविशालक्षेत्रे विकसति । वटवृक्षस्य एषा विशेषता तं दीर्घायुं करोति । भारतीयकिंवदन्तीनाम् अभिन्नाङ्गमस्ति वटवृक्षः । []
राष्ट्रियप्राणी वङ्गप्रदेशीयः व्याघ्रः आभारते वङ्गप्रदेशीयः व्याघ्रः प्राप्यते । केवलं भारतस्य ईशानकोणे एव न प्राप्यते ।[]
राष्ट्रियः जलचरप्राणी गङ्गानद्याः डॉल्फिन् गङ्गानद्याः डॉल्फिन् गङ्गायाः पवित्रतायाः प्रतीकत्वेन परिगण्यते । कारणं सः मत्स्यः शुद्धजले एव जीवितुं शक्नोति । [१०]
राष्ट्रियकविः रवीन्द्रनाथ ठाकुर,
बङ्किमचन्द्र चट्टोपाध्याय
भारतस्य राष्ट्रगीतस्य रचयिता रवीन्द्रनाथ ठाकुर, भारतस्य राष्ट्रगानस्य रचयिता बङ्किमचन्द्र चट्टोपाध्यायभारतस्य राष्ट्रियकविः अस्ति । [उद्धरणं वाञ्छितम्]
राष्ट्रियपक्षी भारतीयमयूरः भारतीयमयूरः भारतगणराज्यस्य राष्ट्रियपक्षित्वेन परिगण्यते । [११]
राष्ट्रियनाणकचिह्नम् भारतीयरूप्यकम् भारतीयनाणकचिह्नम् अन्ताराष्ट्रियस्तरे भारतस्य धनस्य आदन-प्रदानयोः, आर्थिकशक्तेः प्रतीकः अस्ति । भारतीयनाणकचिह्नं भारतस्य आदिसंस्कृतेः बोधं कारयति । भारतीयनाणकचिह्नं देवनागरीलिप्याः 'र', रोमनलिप्याः 'R' इत्यनयोः मिश्रणमस्ति । चिह्नस्य शिरस्थाने ये तिर्यकरेखे स्तः, ते रेखे "सम"स्य (equal to, =), राष्ट्रियध्वजस्य च बोधं कारयतः । २०१० तमस्य वर्षस्य जुलाई-मासस्य पञ्चविंशतितमे दिनाङ्के (२५/७/२०१०) भारतीयसर्वकारेण भारतीयनाणकचिह्नत्वेन अस्य चिह्नस्य चयनं कृतम् आसीत् ।

अस्य चिह्नस्य परिकल्पना (design) उदय कुमार धर्मलिङ्गम्-नामकेन यूना कृता । उदयः इण्डियन् इस्टिट्यूट् ऑफ् टेकनॉलजि बॉम्बे-तः परिकल्पनाविषये स्नातकपदवीधरः अस्ति । चिह्नस्य परिकल्पनां प्राप्तुम् एकस्याः स्पर्धायाः आयोजनं वित्तमन्त्रालयेन कृतमासीत् । तस्यां स्पर्धायां सहस्राधिकाः स्पर्धालवः स्वपरिकल्पनाम् अयच्छन् । तासु उदयस्य परिकल्पनायाः चयनं वित्तमन्त्रालयेन कृतम् । अस्य नवीनचिह्नस्य राष्ट्रियनाणकचिह्नत्वेन तन्त्रांशेषु, अन्यतान्त्रिकक्षेत्रेषु च प्रयोगानुगुणं प्रारूपार्थं कार्यं चलदस्ति । [१२]

अनौपचारिकचिह्नानि

[सम्पादयतु]
नाम चिह्नम् चित्रम् विशेषम्
राष्ट्रियक्रीडा हॉकी क्रीडामन्त्रालयेन उद्घोषितमस्ति यत्, "औपचारकरीत्या भारतगणराज्यस्य राष्ट्रियक्रीडा न काऽपि विद्यते" इति । अतः औपचारिकरीत्या तु हॉकी भारतस्य राष्ट्रियक्रीडा नास्ति । परन्तु भारतीयहॉकी-दलस्य प्रदर्शनस्य आधारेण हॉकी अनौपचारिकरीत्या राष्ट्रियक्रीडात्वेन मन्यते ।

[१३] कुत्रचित् भारतस्य "राष्ट्रियक्रीडात्वेन" होकीक्रीडायाः उल्लेखः प्राप्यते ।[१४]

भारतीयहॉकी-दलः अष्टवारं स्वर्णपदकं प्रापत् । १९२८-५६ भारतीयहॉकी-दलस्य स्वर्णकालत्वेन परिगण्यते । १९७५ तमे वर्षे विश्वपारितोषकम् (world cup) अजयत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]

टिप्पणी

[सम्पादयतु]
  1. "State Emblem". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  2. "National Calendar". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  3. "National Anthem". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  4. "National Song". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  5. "National Flower". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  6. "National Fruit". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  7. "National River". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  8. "National Tree". Government of India. Archived from the original on 2018-12-25. आह्रियत 2014-04-03. 
  9. "National Animal". Government of India. Archived from the original on 2018-12-26. आह्रियत 2014-04-03. 
  10. "National Aquatic Animal". Government of India. Archived from the original on 2013-01-22. आह्रियत 2014-04-03. 
  11. "National Bird". Government of India. Archived from the original on 2013-01-15. आह्रियत 2014-04-03. 
  12. "Currency Symbol". Government of India. Archived from the original on 2013-01-22. आह्रियत 2014-04-03. 
  13. "Hockey is not our national game: Ministry". Times of India. 
  14. "National Game". Government of India. Archived from the original on 11 May 2012. आह्रियत 3 April 2012.