सामग्री पर जाएँ

सदस्यः:SiBr4/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिपीडिया

स्वतन्त्रविश्वकोशः

२००३ तमवर्षस्य डिसेम्बरमासे अस्याः आरम्भः जातः । सम्प्रति संस्कृतविकिपीडियायां १०,१८१ लेखाः सन्ति ।

बुधवासरः, सितम्बर २१, २०१६; समयः- ०९:३३ UTC
वसुधा
वसुधा

अग्ने नय सुपथा राये ॥

हे जगदग्रणीः ! सौभाग्यप्राप्तये सन्मार्गे नीयताम् । -यजुर्वेदः ५-३६

शास्त्रीयलेखः

न्यायशास्त्रपण्डितः चैतन्यमहाप्रभुः

न्यायदर्शनम्

भारतीयदर्शनेषु अन्यतमम् । वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपदितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगी अस्ति । प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते ।

(अधिकवाचनाय »)

वार्ताः

नीरज चोपडा

अद्यतनं चित्रम्

कोट्टराम-प्रासादः

आधुनिकलेखः

योगः कर्मसु कौशलम्
योगः कर्मसु कौशलम्

अन्ताराष्ट्रिययोगदिवसः जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते । योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते ।

(अधिकवाचनाय »)

ज्ञायते किं भवता...

सुभाषितम्

अनेकशास्त्रं बहु वेदितव्यम्
       अल्पश्च कालो बहवश्च विघ्नाः ।
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ॥
सु.भा. - सामान्यनीतिः (१८०/८७८)

जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः । अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं - ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव विषयं ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः ।

भारतविषये विशेषपरियोजना



अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9


सहपरियोजनाः