सामग्री पर जाएँ

मुख्यपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शास्त्रीयलेखाः

सांख्यदर्शनम् प्राचीनतमं दर्शनमस्ति। अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः। वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति। यद्यपि तेष्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति। कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान्। शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम्। (अधिकवाचनाय »)



आधुनिकलेखः

महात्मा गान्धी

महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते। महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।(अधिकवाचनाय »)




वार्ताः

मुम्बई
मुम्बई
  • पाकिस्थानस्य किशोरः चेन्नै-नगरे जीवनरक्षकं हृदयप्रत्यारोपणं प्राप्नोति।
  • मुम्बईनगरे प्रथमः तटीयमार्गः प्राप्यते ।
  • बिहारस्य आरामण्डले माहुली-गंगा-नद्याः उपरि अभिनवः प्लवमाना गृहनौका अस्ति ।
  • मोहम्मद शमी, पैरा-आर्चर शीतल देवी च अर्जुनपुरस्कारम् अलभताम्।

अद्यतनं सुभाषितम्

मनसि वचसि काये पुण्यपीयूषपूर्णा:

त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः।
परगुणपरमाणून् पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्त:

नीतिशतकम् (५३/२२१)

सज्जनानां स्वभावं वर्णयति कविः। सत्पुरुषाणां वचांसि मनांसि शरीराणि च अमृतेन पूर्णानि भवन्ति। तादृशेन अमृतपूर्णेन वचनेन, चेतसा, शरीरेण च ते सज्जनाः उपकारसहस्रेण लोके स्थितानां सर्वेषां जीविनामपि हितम् आचरन्ति। अपि च अन्येषु स्थिताः गुणाः अल्पाः चेदपि तान् एव बहु मत्वा, मनसि सन्तोषम् अनुभवन्ति। किन्तु एतादृशाः जनाः जगति कियन्तः सन्ति ?


सहपरियोजनाः

"https://sa.wikipedia.org/w/index.php?title=मुख्यपृष्ठम्&oldid=488437" इत्यस्माद् प्रतिप्राप्तम्