सामग्री पर जाएँ

गिरीश कार्नाड

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गिरीश रघुनाथ कार्नाडः
ಗಿರೀಶ ಕಾರ್ನಾಡ
जननम् (१९३८-२-२) १९ १९३८ (आयुः ८६)
माथेरान्, महाराष्ट्रम्
मरणम् १० २०१९(२०१९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१०) (आयुः ८१)
बेङ्गलूरु, कर्णाटकराज्यम्, भारतम्
वृत्तिः नाटककारः, चलच्चित्रनिर्देशकः, नटः, कविः
राष्ट्रीयता भारतीयः
उच्चशिक्षा आक्स्फर्ड् विश्वविद्यालयः
कर्णाटकविश्वविद्यालयः
प्रकारः काल्पनिककथाः
साहित्यकान्दोलनम् कन्नडसाहित्यम्, नव्यसाहित्यम्
प्रमुखकृतयः तुघलक्
तलेदण्ड

गिरीशरघुनाथकार्नाडः (मे मासस्य १९, १९३८ तः जून् १० २०१९) कर्णाटकस्य सप्तमः ज्ञानपीठप्रशस्तिविजेता । सः कन्नडसाहित्यस्य नाटकक्षेत्रे लेखकः । भारते दृश्यकाव्यरचनायां ज्ञानपीठप्रशस्तिविजेतृषु कार्नाडः एव प्रथमः ।

ज्ञानपीठप्रशस्तिस्वीकरणसमये कार्नाडः सौजन्येन अवदत् - "प्रशस्तिं स्वीकर्तुं मराठीलेखकः विजयतेण्डूल्करः एव अर्हः" इति । एतत् तस्य उन्नतव्यक्तित्वं दर्शयति । इतरासां भारतीयभाषाणां सम्पर्कः तस्य सम्यक् आसीत् इत्यतः तं सांस्कृतिकवक्ता इति वक्तुं शक्नुमः। प्रारम्भे रङ्गभूमिनटः आसीत् । नूतनान् आयामान् चिन्तयन् दृश्यकाव्यं(नाटकम्) रचनीयम् इति चिन्तितवान् । अतः पुराणेतिहासयोः वास्तवाधारितरूपं तस्य नाटकेषु प्रकटितम् अभवत् ।

जीवनम्

[सम्पादयतु]

गिरीशकार्नाडः महाराष्ट्रस्य माथेरान्ग्रामे जन्म प्राप्तवान् । तस्य मातापितरौ कृष्णाबाई, डा. रघुनाथः । रघुनाथस्य विवाहानन्तरम् अल्पकाले तस्य भार्या दिवङ्गता । अनन्तरं कृष्णाबायी नामिकां विधवाकन्याम् ऊढ्वा विरोधिनां सम्मुखीकरणं कुर्वन् धैर्येण जीवनं कृतवान् । लोके आदर्शम् अनुसरन् प्रगतिपरं जीवनम् अयापयत् । एवमेव गिरीशकार्नाडः अपि प्रगतिपरवातावरणे प्रवृद्धः ।

गिरीशस्य प्राथमिकशिक्षणम् उत्तरकन्नडमण्डले, शिरसिग्रामे अभवत् । प्रौढशिक्षणं धारवाडस्य बासेल्-मिशन्-प्रौढशालायां, तथा पदविशिक्षणं कर्णाटकमहाविद्यालये अभवत् । अनन्तरं "रोडिस् स्कालर्शिप्" नामकं छात्रवृत्तिं प्राप्य आक्स्फर्डविश्वविद्यालये उन्नतशिक्षणं प्राप्तवान् । कार्नाडः आक्स्फर्डचर्चागोष्ठ्याः अध्यक्षरूपेण चितः प्रथमः एषियाखण्डीयः।

तस्य अध्ययनं, चर्चाशैलीं च ज्ञात्वा देशीयाः विदेशीयाः च कार्नाडमहोदयं 'बुद्धिजीवी' इति घोषितवन्त: । बहुभाषापण्डितः सः शिकागो विश्वविद्यालये अतिथिप्राध्यापकः इति सेवां कृतवान् । विदेशे स्थित्वा कन्नडनाटकानां पठनं, प्रदर्शनं कर्तुं साहाय्यम् अकरोत् । कन्नडं विहाय हिन्दी-पञ्जाबी-मराठीभाषया तस्य नाटकानि भाषान्तरितानि प्रदर्शितानि च सन्ति । इतरभाषासु प्रसिद्धिं प्राप्तवत्सु नाटककारेषु कन्नडस्य एषः नाटककारः एव प्रथमः । आक्स्फर्डतः आगमनानन्तरं मद्रास्-नगरे उद्योगम् अकरोत् । ततः धारवाडम् आगत्य तेन नाटकक्षेत्रे कार्यम् अनुवर्तितम् ।

नाटकरचनाः

[सम्पादयतु]

कार्नाडस्य प्रथमा कृतिः "ययाति"नाटकम्। एतत् नाटकं धारवाडस्य मनोहर ग्रन्थमालया प्रकाशितम् । अनन्तरं "तुघलक्", "हयवदन" इत्येते नाटके च प्रकटितौ । एतन्मध्ये सः पुणे-फिल्म्-इन्स्टिट्यूट्- निर्देशकः आसीत् । पुनः तत् त्यक्त्वा मुम्बयीनगरम् आगत्य सः चलनचित्रे अभिनयम् अकरोत् । तदपि त्यक्त्वा पुनः बेङ्गलूरुनगरम् आगतवान् । अग्रे तेन रचितानि नाटकानि "अञ्जुमल्लिगे", "नागमण्डल", "तलेदण्ड", "अग्नि मत्तु मळे" इति । तेन ब्रिटिश्- ब्राड्कास्टिंग् कृते लिखितं नाटकं "टिप्पुविन कनसुगळु" ।

चलच्चित्ररङ्गम्

[सम्पादयतु]

"संस्कार"नामकं चलनचित्रं कन्नडस्य प्रथमं कलाचित्रम् इति प्रसिद्धम्। यु. आर्. अनन्तमूर्तीमहोदयस्य कादम्बर्याः आधारेण निर्मिते एतस्मिन् चलनचित्रे कार्नाडस्य प्रमुखपात्रं "प्राणेशाचार्य" इति । पि. लङ्केशस्य विरुद्धव्यक्तित्वम् । चित्रस्य निर्देशकः पट्टाभिरामरेड्डी इति । एतत् चित्रं कन्नडस्य कृते प्रथमं स्वर्णकमलम् अदापयत् । तदनन्तरं एस्. एल्. भैरप्पमहोदयस्य 'वंशवृक्ष'कादम्बरीम् अधारीकृत्य बि.वि. कारन्तस्य सहयोगेन 'वंशवृक्ष'चित्रं निर्देशितवान् । एतेन चित्रेण राष्ट्रिय-अन्ताराष्ट्रियस्तरे च पुरस्कारः प्राप्तः । अग्रे "तब्बलियु नीनादे मगने", "काडु", "ओन्दानोन्दु कालदल्लि" चित्राणि निर्देशितवान्। अनन्तरम् "उत्सव", "गोधूळी" इति हिन्दी चित्रे निर्देशितवान् ।

राष्ट्रकवेः कुवेम्पुमहोदयस्य 'कानूरू सुब्बम्म हेग्गडति' कादम्बरीम् अधारीकृत्य "कानूरू हेग्गडति" चित्रं निर्देशितवान् । एतेन चित्रेण राज्यप्रशस्तिः राष्ट्रियः पुरस्कारः च प्राप्तः । पनोरमापुरस्कारार्थम् अपि एतस्य चयनम् आसीत् ।

एतदतिरिच्य "कनक-पुरन्दर", "द. रा. बेन्द्रे", "सूफिपन्थ" नामकानि साक्ष्यचित्राणि निर्देशितवान् । परिसरविनाशविषये "चेलुवि" नामकं लघुचित्रं निर्देशितवान् । २००७ तमे वर्षे "आ दिनगळु" चलनचित्राय अग्निश्रीधरस्य सहयोगेन चित्रकथां लिखितवान् ।

गौरवं प्रशस्तिः च

[सम्पादयतु]

कर्नाटकविश्वविद्यालयः कार्नाडस्य साहित्यचलनचित्रसेवां परिगणय्य 'गौरवडाक्ट्रेट्'पदवीं दत्त्वा सम्मानम् अकरोत् । "कार्नाडस्य वस्तुग्राह्यक्रमे एव अनन्यता अस्ति। अस्याः ग्राहिकायाः पूरकरचनाक्रमं सः चिन्तितवान् । कामपि समस्यां स्वीकृत्य नाटकरूपेण दर्शने एव नाटककारस्य यशः, अपयशः च अवलम्बेते" इति निर्देशकः बि. वि. कारन्तः वदति स्म । कार्नाडस्य कर्नाटकराज्यप्रशस्तिः गुब्बिवीरण्णा प्रशस्तिः, केन्द्र-सङ्गीत-नाटकाकादेमी-प्रशस्तिः, प्रतिष्ठिता पद्मश्रीप्रशस्तिः, पद्मभूषणप्रशस्तिः, ज्ञानपीठप्रशस्तिः च प्राप्ताः सन्ति । सद्य कार्नाडः केन्द्र-सङ्गीत-नाटक-अकाडेमीसंस्थायाः अध्यक्षरूपेण कार्यनिर्वहणं करोति । "इंग्लेन्ड्देशे नेहरू- सेंटर"इत्येतस्याः संस्थायः निर्देशकरूपेण कार्यनिर्वहणम् अकरोत् ।


गिरीशकार्नाडस्य मरणं बेङ्गलूरुनगरे १०-०६-२०१९ तमे दिने बेङ्गलूरुनगरे अभवत्।[]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. https://www.thenewsminute.com/article/girish-karnad-passes-away-end-era-indian-theatre-and-cinema-103327
"https://sa.wikipedia.org/w/index.php?title=गिरीश_कार्नाड&oldid=480231" इत्यस्माद् प्रतिप्राप्तम्