शिवराम कारन्तः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
एतद एकः निर्वाचित लेख अस्ति। अधिक विज्ञप्या टक्टकायन करोतु।
शिवराम कारन्तः
ಶಿವರಾಮ ಕಾರಂತ
जननम् October 10, 1902(1902-10-10)
सालिग्रामः, उडुपीमण्डलम्, कर्णाटकराज्यम्
मरणम् क्रि.श.१९९७, डिसेम्बर् मासस्य ९दिनाङ्कः ।
मणिपालः उडुपीमण्डलम्, कर्णाटकराज्यम्
वृत्तिः साहित्यकारः कविः
राष्ट्रीयता भारतीयः
उच्चशिक्षा आक्स्फर्डविश्वविद्यालयः
कालः क्रि.श.१९०२ तः १९९७
प्रकारः कथाः, पद्यानि, कथाग्रन्थः, रूपकाणि
विषयाः कर्णाटकम्, जीवनम् ।
साहित्यकान्दोलनम् नवोदयः
प्रमुखकृतयः मूकज्जियकनसुगळु

karanth.kannadavedike.net


शिवराम कारन्तः(अक्टोबर् १०, १९०२ - सेप्टम्बर् १२, १९९७)Kota Shivaram Karanth - सागरतीरभार्गवः, चलन् विश्वकोशः इत्येव ख्यातः कन्नडभाषायाः साहित्यसंस्कृतेः वक्ता कविः कथाग्रन्थकर्ता च ।

अन्तर्विषयाः

जीवनम्[सम्पादयतु]

कर्णाटकस्य ज्ञानपीठप्रशस्तिभाक् डा.शिवराम कारन्तः उडुपीमण्डलस्य कोट इति ग्रामे क्रि.श.१९०२तमे वर्षे अक्टोबर् मासस्य दशमे दिने सञ्जातः ९६वर्षाणि सञ्जीव्य क्रि.श.१९९७तमवर्षे डिसेम्बर् मासे नवमे दिने दिवङ्गतः । स्वस्य जीवतावधौ ४२७ कृतीः व्यरचयत् । तासुअ ४७कथाग्रन्थाः एव । स्वस्य ९६तमे वयसि अपि खगानां विषये ग्रन्थमेकम् अरचयत् । साहित्यकारः भूत्वा यथा प्रसिद्धः अभवत् तथैव अन्यक्षेत्रेषु अपि अस्य प्रसिद्धिः अस्ति एव । कर्णाटकस्य प्रमुखकलायाः यक्षगानस्य प्रचाराय संवर्धनाय च अनेकान् प्रयोगान् कृतवान् । एषः यक्षगानकलाम् अभ्यस्य "ब्याले" विविधपरिवर्तनानि कृत्वा विदेशेषु अपि प्रदर्शितवान् । यदा युवा आसीत् तदा समाजपरिवर्तनार्थमपि प्रयत्नं कृतवान् । बालानां प्रतिभाविकसनार्थं कर्णाटकस्य दक्षिणकन्नडमण्डलस्य पुत्तूरुपरिसरे "बालवन" इति असाम्प्रदायिकशिक्षाकेन्द्रम् आरब्धवान् । तत्र एव कञ्चित् मुद्रणालयं संस्थाप्य स्वग्रन्थान् मुद्रापयति स्म । स्वस्य बहूनां पुस्तकानां मुखचित्रमपि स्वयं विरचय्य मुद्रितवान् । एतादृशः प्रतिभावान् आसीत् कारन्तमहोदयः । निरन्तरं प्रयोगशीलः कारन्तमहोदयः कन्नडभाषायाः चित्ररङ्गे अपि हस्तक्षेपं कृत्वा क्रि.शा.१९३०तमे वर्षे हरिजनानां जीवनकथाम् अवलम्ब्य डोमिङ्गो इति मूकचलच्चित्रमेकं निर्मिय निदिश्य अभिनीतवान् । क्रि.श.१९३१तमे वर्षे भूतराज्य इति किञ्चितमूकचित्रमपि निदेशितवान् ।

  • परिसरस्य रक्षणान्दोलनम् - कारन्तमहोदयस्य कथाग्रन्थेषु सर्वेषु अवश्यं परिसरस्य विषयः प्रस्तुतः । तथैव स्वजीवने अपि परिसरस्य संरक्षणार्थं विप्लवं कृतवान् । कर्णाटके कैगा अणुस्थावरस्य निर्माणावसरे तद्विरुध्य प्रचालितान्दोलनस्य नेता कारन्तः एव आसीत् । आबालवृद्धं साहित्यकृषि कृतवान् कारन्तः देशस्य एव महानिधिः आसीत् । कर्णाटकस्य कोणे कोणे सञ्चरन् समग्रं भारतदेशम् अटन् विदेशस्य सांस्कृतिककेन्द्राणि अपि सन्दृष्टवन् । स्वस्य चरमकालपर्यन्तमपि सहित्यकप्रवासे निरतः आसीत् । भारते केन्द्रस्तरस्य ज्ञानपीठप्रशस्तिः, पद्मभूषणप्रशस्तिः, राज्यस्तरस्य पम्पप्रशस्तिः,नाडोजपुरस्कारः, विविधविश्वविद्यालयानां डक्टरेट् उपाधयः अस्मै कारन्तमहोदयाय प्रदताः । वयसः श्रन्तिम् अपरिगणयन् ज्ञानमार्गे जनान् नयन् सर्वेषां प्रियः कारन्तज्जः अभवत् ।

सालिग्रामेस्मारकम्[सम्पादयतु]

डा.कारन्तमहोदयस्य जन्मस्थले सालिग्रामे कारन्तस्मृतिचित्रशाला इति सुन्दनं बहुस्तरभवनम् अस्ति । तत्र कारन्तसम्बद्धानि अनेकानि वस्तूनि सुस्थाप्तितानि सन्ति । तस्य कथाग्रन्थानाम् आशयस्य बृहत् भित्तिचित्राणि, यक्षगानस्य वेशभूषाः, कथाग्रन्थानां प्राचीनप्रतयः, अनेन रचितानि चित्राणि, तस्य साहित्यसृष्टौ उपयुक्तानि वस्तूनि, च अत्र विराजन्ते । सालिग्रामस्य पण्यशलायाम् एव स्थितम् एतत् भवनं दृष्ट्वा जनेषु डा.शिवराम कारन्तस्य अभिमनः उद्गच्छति ।

कृतयः[सम्पादयतु]

गीतानि[सम्पादयतु]

  • गीतसुधाकर
  • सीळ्गवनगळु

कथाग्रन्थाः[सम्पादयतु]

  • अदे ऊरु, अदे मर (ಅದೇ ಊರು, ಅದೆ ಮರ)
  • अळिद मेले (ಅಳಿದ ಮೇಲೆ)
  • अण्टिद अपरञ्जि (ಅಂಟಿದ ಅಪರಂಜಿ)
  • आळ निराळ (ಆಳ, ನಿರಾಳ)
  • इद्दरू चिन्ते (ಇದ್ದರೂ ಚಿಂತೆ)
  • इन्नोन्दु दारि (ಇನ್ನೊಂದೇ ದಾರಿ)
  • इळेयेम्ब (ಇಳೆಯೆಂಬ)
  • उक्किद नोरे (ಉಕ್ಕಿದ ನೊರೆ)
  • उक्किद नोरे (ಒಡ ಹುಟ್ಟಿದವರು)
  • ओण्टि दनि (ಒಂಟಿ ದನಿ)
  • औदार्यद उरुळल्लि (ಔದಾರ್ಯದ ಉರುಳಲ್ಲಿ)
  • कण्णिद्दरू काणरु (ಕಣ್ಣಿದ್ದೂ ಕಾಣರು)
  • कन्नडियल्लि कण्डत (ಕನ್ನಡಿಯಲ್ಲಿ ಕಂಡಾತ)
  • कन्याबलि (ಕನ್ಯಾಬಲಿ)
  • करुळिनकरे (ಕರುಳಿನ ಕರೆ)
  • कुडियरकूसु (ಕುಡಿಯರ ಕೂಸು)
  • केवल मनुष्यरु (ಕೇವಲ ಮನುಷ್ಯರು)
  • गेद्द दोड्डस्तिके (ಗೆದ್ದ ದೊಡ್ಡಸ್ತಿಕೆ)
  • गोण्डारण्य (ಗೊಂಡಾರಣ್ಯ)
  • चिगुरुरिद कनसु (ಚಿಗುರಿದ ಕನಸು)
  • चोमन दुडि( ಚೋಮನ ದುಡಿ)
  • जगदोद्धार ना (ಜಗದೋದ್ಧಾರ ನಾ)
  • जारुव दारियल्लि (ಜಾರುವ ದಾರಿಯಲ್ಲಿ)
  • देवदूतरु (ದೇವದೂತರು)
  • धर्मरायन संसार (ಧರ್ಮರಾಯನ ಸಂಸಾರ)
  • नाष्ट दिग्गजगळु (ನಷ್ಟ ದಿಗ್ಗಜಗಳು)
  • नम्बिदवर नाक नरक (ನಂಬಿದವರ ನಾಕ, ನರಕ)
  • नावु कट्टिद स्वर्ग (ನಾವು ಕಟ್ಟಿದ ಸ್ವರ್ಗ)
  • निर्भाग्य जन्म (ನಿರ್ಭಾಗ್ಯ ಜನ್ಮ)
  • बत्तद तोरे (ಬತ್ತದ ತೊರೆ)
  • बेट्टद जीव (ಬೆಟ್ಟದ ಜೀವ)
  • भूत (ಭೂತ)
  • मरळि मण्णिगे (ಮರಳಿ ಮಣ್ಣಿಗೆ)
  • मुगिद युद्ध (ಮುಗಿದ ಯುದ್ಧ)
  • मूकज्जिय कनसुगळु (ಮೂಕಜ್ಜಿಯ ಕನಸುಗಳು)
  • मूरु जन्म (ಮೂಜನ್ಮ)
  • मै मनगळ सुळियल्लिल् (ಮೈ ಮನಗಳ ಸುಳಿಯಲ್ಲಿ)
  • मोग पडेद मन (ಮೊಗ ಪಡೆದ ಮನ)
  • विचित्र कूट (ವಿಚಿತ್ರ ಕೂಟ)
  • शनीश्वरन नेरळल्लि (ಶನೀಶ್ವರನ ನೆರಳಿನಲ್ಲಿ)
  • सन्यासिय बदुकु (ಸನ್ಯಾಸಿಯ ಬದುಕು)
  • समीक्षा (ಸಮೀಕ್ಷೆ)
  • सरसम्मन समाधिः (ಸರಸಮ್ಮನ ಸಮಾಧಿ)
  • सप्नद होळे (ಸ್ವಪ್ನದ ಹೊಳೆ)
  • हेत्तळा तायि (ಹೆತ್ತಳಾ ತಾಯಿ)

रूपकानि[सम्पादयतु]

  • अवळि नाटकगळु (ಅವಳಿ ನಾಟಕಗಳು)
  • एकाङ्क नाटकगळू (ಏಕಾಂಕ ನಾಟಕಗಳು)
  • ऐदु नाटकगळु (ಐದು ನಾಟಕಗಳು)
  • कट्टे पुराण (ಕಟ್ಟೆ ಪುರಾಣ)
  • कठारि भैरव (ಕಠಾರಿ ಭೈರವ)
  • कर्णार्जुन (ಕರ್ಣಾರ್ಜುನ)
  • कीचक सैरन्ध्रि (ಕೀಚಕ ಸೈರಂಧ್ರಿ)
  • गर्भगुडि (ಗರ್ಭಗುಡಿ)
  • गीत नाटकनि (ಗೀತ ನಾಟಕಗಳು)
  • जम्बद जानकि (ಜಂಬದ ಜಾನಕಿ)
  • ज्यूलियस् सीज़र् (ಜ್ಯೂಲಿಯಸ್ ಸೀಸರ್)
  • डुमिङ्गो (ಡುಮಿಂಗೊ)
  • दृष्टि सङ्गम (ದೃಷ್ಟಿ ಸಂಗಮ)
  • नवीन नाटकगळु (ನವೀನ ನಾಟಕಗಳು)
  • नारद गर्वभङ्ग (ನಾರದ ಗರ್ವಭಂಗ)
  • बित्तिद बेळे (ಬಿತ್ತಿದ ಬೆಳೆ)
  • बेवरिगे जयवागलि (ಬೆವರಿಗೆ ಜಯವಾಗಲಿ)
  • बौद्ध यात्रा (ಬೌದ್ಧ ಯಾತ್ರಾ)
  • मङ्गळारति (ಮಂಗಳಾರತಿ)
  • मुक्तद्वार (ಮುಕ್ತದ್ವಾರ)
  • यारो अन्दरु (ಯಾರೊ ಅಂದರು)
  • विजय (ವಿಜಯ)
  • विजयदशमि (ವಿಜಯ ದಶಮಿ)
  • सरळ विरळ नाटकगळु । (ಸರಳ ವಿರಳ ನಾಟಕಗಳು)
  • साविर मिलिय (ಸಾವಿರ ಮಿಲಿಯ)
  • हणे बरह (ಹಣೆ ಬರಹ)
  • हिरियक्कन चाळि (ಹಿರಿಯಕ್ಕನ ಚಾಳಿ)
  • हेगादरेनु (ಹೇಗಾದರೇನು?)
  • हेमन्त (ಹೇಮಂತ)

लघुकथाः[सम्पादयतु]

  • कविकर्म (ಕವಿಕರ್ಮ)
  • तेरेय मरेयल्लि (ತೆರೆಯ ಮರೆಯಲ್ಲಿ)
  • हसिवु (ಹಸಿವು)
  • हावु (ಹಾವು)

जलपनं विडम्बनं च[सम्पादयतु]

  • ग्नान (ಗ್ನಾನ)
  • किक्क दोड्डदु (ಚಿಕ್ಕ ದೊಡ್ಡವರು)
  • देहज्योतिगळु म्त्फ़्तु प्राणि प्रबन्धगळु (ದೇಹಜ್ಯೋತಿಗಳು ಮತ್ತು ಪ್ರಾಣಿ ಪ್ರಬಂಧಗಳು)
  • मैगळ्ळन दिनचरियिन्द (ಮೈಗಳ್ಳನ ದಿನಚರಿಯಿಂದ)
  • मैलिकल्लिनोडने मातुकतेग्ळु (ಮೈಲಿಕಲ್ಲಿನೊಡನೆ ಮಾತುಕತೆಗಳು)
  • हळ्ळिय हत्तु समस्तरु (ಹಳ್ಳಿಯ ಹತ್ತು ಸಮಸ್ತರು)

प्रवासकथनम्[सम्पादयतु]

  • अपूर्व पश्चिम (ಅಪೂರ್ವ ಪಶ್ಚಿಮ)
  • अरसिकरल्ल् (ಅರಸಿಕರಲ್ಲ)
  • अबूविनिन्द बरामक्के (ಅಬೂವಿನಿಂದ ಬರಾಮಕ್ಕೆ)
  • पालाळक्के पयण (ಪಾತಾಳಕ್ಕೆ ಪಯಣ)
  • पूर्वदिन्द अत्यपूर्वक्के (ಪೂರ್ವದಿಂದ ಅತ್ಯಪೂರ್ವಕ್ಕೆ)
  • यक्षरङ्गक्कागि प्रवास (ಯಕ್ಷರಂಗಕ್ಕಾಗಿ ಪ್ರವಾಸ)

आत्मकथनम्[सम्पादयतु]

  • स्मृतिपटलतः (१,२,३) [ಸ್ಮೃತಿಪಟಲದಿಂದ (೧,೨,೩)]
  • हुच्चुमनस्सिन हत्तु मुखगळु (ಹುಚ್ಚು ಮನಸ್ಸಿನ ಹತ್ತು ಮುಖಗಳು)

जीवनेतिहासः[सम्पादयतु]

  • कलाविद कृष्ण हेब्बाररु (ಕಲಾವಿದ ಕೃಷ್ಣ ಹೆಬ್ಬಾರರು)

कलाप्रबन्धाः[सम्पादयतु]

  • कलेय दर्शन (ಕಲೆಯ ದರ್ಶನ)
  • कर्णाटकस्य चित्रकले (ಕರ್ನಾಟಕದಲ್ಲಿ ಚಿತ್ರಕಲೆ)
  • चालुकय मत्तु वाश्तुशिल्प (ಚಾಲುಕ್ಯ ವಾಸ್ತು ಮತ್ತು ಶಿಲ್ಪ)
  • चित्र, शिल्प, वासुकलेगळु (ಚಿತ್ರ,ಶಿಲ್ಪ,ವಾಸ್ತು ಕಲೆಗಳು)
  • जानपद गीतेगळु (ಜಾನಪದ ಗೀತೆಗಳು)
  • भारतीय चित्रकले (ಭಾರತೀಯ ಚಿತ್ರಕಲೆ)
  • भारतेय शिल्प (ಭಾರತೇಯ ಶಿಲ್ಪ)
  • यक्षगान बयलाट् (ಯಕ್ಷಗಾನ ಬಯಲಾಟ)
  • सौन्दर्यप्रज्ञेयन्नु बेळेयिसलु (ಸೌಂದರ್ಯ ಪ್ರಜ್ಞೆಯನ್ನು ಬೆಳೆಯಿಸಲು)

वैज्ञानिकाः[सम्पादयतु]

  • अद्भुतजगत्तु (ಅದ್ಭುತ ಜಗತ್ತು(೧. ವಿಚಿತ್ರ ಖಗೋಲ,೨. ನಮ್ಮ ಭೂಖಂಡಗಳು)
  • उष्णवलयस्य आग्नेस्य (ಉಷ್ಣವಲಯದ ಆಗ್ನೇಸ್ಯ)
  • प्राणिप्रपञ्चद विस्मयगळु (ಪ್ರಾಣಿಪ್ರಪಂಚದ ವಿಸ್ಮಯಗಳು)
  • मङ्गन कायिले (ಮಂಗನ ಕಾಯಿಲೆ)
  • विज्ञान मत्तु अन्धश्रद्धे (ವಿಜ್ಞಾನ ಮತ್ತು ಅಂಧಶೃದ್ಧೆ)
  • विशाल सागरगळु (ವಿಶಾಲ ಸಾಗರಗಳು)
  • हिरिय किरिय हक्किगळु (ಹಿರಿಯ ಕಿರಿಯ ಹಕ್ಕಿಗಳು)

अन्याः[सम्पादयतु]

  • प्रजाप्रभुत्ववन्नु कुरितु (ಪ್ರಜಾಪ್ರಭುತ್ವವನ್ನು ಕುರಿತು)
  • बाळ्वेयॆ बेळकु (ಬಾಳ್ವೆಯೇ ಬೆಳಕು)
  • बाळ्वेये बेळकु अथवा जीवनधर्म (ಬಾಳ್ವೆಯೇ ಬೆಳಕು ಅಥವಾ ಜೀವನ ಧರ್ಮ)
  • मनोदेहियाद् मानव (ಮನೋದೇಹಿಯಾದ ಮಾನವ)
  • विचारशीलते (ವಿಚಾರಶೀಲತೆ)
  • विचार साहित्य निर्माण (ವಿಚಾರ ಸಾಹಿತ್ಯ ನಿರ್ಮಾಣ)
  • स्वार्थिमनव (ಸ್ವಾರ್ಥಿ ಮಾನವ)

सम्पादिताः[सम्पादयतु]

  • ऐरोडि शिवरामय्य बदुकु बरह (ಐರೋಡಿ ಶಿವರಾಮಯ್ಯ ಬದುಕು, ಬರಹ)
  • कौशिक रामायण ಕೌಶಿಕ ರಾಮಾಯಣ
  • पञेयवर नेनपिगागि (ಪಂಜೆಯವರ ನೆನಪಿಗಾಗಿ)

विश्वकोशः[सम्पादयतु]

  • कला प्रपञ्च (ಕಲಾ ಪ್ರಪಂಚ)
  • प्राणि प्रपञ्च (ಪ್ರಾಣಿ ಪ್ರಪಂಚ)
  • बाल प्रपञ्च (ಬಾಲ ಪ್ರಪಂಚ (೧,೨,೩)
  • विज्ञानप्रपञ्च (ವಿಜ್ಞಾನ ಪ್ರಪಂಚ (೧,೨,೩,೪)

निघण्टुः[सम्पादयतु]

  • सिरिगन्नड अर्थकोश (ಸಿರಿಗನ್ನಡ ಅರ್ಥಕೋಶ)

अनूदिताः[सम्पादयतु]

  • कीटनाशकगळ पिडुगु (ಕೀಟನಾಶಕಗಳ ಪಿಡುಗುಗಳು)
  • कोट महाजगत्तु (ಕೋಟ ಮಹಾಜಗತ್ತು)
  • जनगेयू अरण्यगळू (ಜನತೆಯೂ ಅರಣ್ಯಗಳೂ)
  • नम्म परमाणु चैतन्य - उत्पादना साधनगळू (ನಮ್ಮ ಪರಮಾಣು ಚೈತನ್ಯ—ಉತ್ಪಾದನಾ ಸಾಧನಗಳು)
  • नम्म शिक्षणपद्धतियू समस्येगळू, भविष्यवू (ನಮ್ಮ ಶಿಕ್ಷಣ ಪದ್ಧತಿಯ ಸಮಸ್ಯೆಗಳೂ, ಭವಿಷ್ಯವೂ)
  • नम्म सुत्तलिन कडलु (ನಮ್ಮ ಸುತ್ತಲಿನ ಕಡಲು)
  • नम्मेल्लरिगू ओन्दे भविष्य (ನಮ್ಮೆಲ್ಲರಿಗೂ ಒಂದೇ ಭವಿಷ್ಯ)
  • परमाणु इन्दु नाळे (ಪರಮಾಣು – ಇಂದು ನಾಳೆ)
  • पञ्च ऋतु (ಪಂಚ ಋತು)
  • बेळेयुत्तिरुव समस्ये (ಬೆಳೆಯುತ್ತಿರುವ ಸಮಸ್ಯೆ)
  • भारतद परिसर - द्वितीय समीक्षे (ಭಾರತದ ಪರಿಸರ – ದ್ವಿತೀಯ ಸಮಿಕ್ಷೆ)
  • भारतद परिसरद परिस्थिति - प्रजेय दृष्टियल्लि ।(ಭಾರತದ ಪರಿಸರದ ಪರಿಸ್ಥಿತಿ – ೧೯೮೨ – ಪ್ರಜೆಯ ದೃಷ್ಟಿಯಲ್ಲಿ)
  • भारतवर्षदल्लि ब्रिटिषरु (ಭಾರತ ವರ್ಷದಲ್ಲಿ ಬ್ರಿಟಿಷರು)
  • यारु लक्षिसुवु (ಯಾರು ಲಕ್ಷಿಸುವರು?)
  • श्री रामकृष्णर जीवन चरिते (ಶ್ರೀ ರಾಮಕೃಷ್ಣರ ಜೀವನ ಚರಿತೆ)

बालसाहित्यानि[सम्पादयतु]

  • अनादिकालद मनुष्य (ಅನಾದಿ ಕಾಲದ ಮನುಷ್ಯ)
  • ओन्दे रात्रि ओन्दे हगलु (ಒಂದೇ ರಾತ್ರಿ ಒಂದೇ ಹಗಲು)
  • गजराज (ಗಜರಾಜ)
  • गेद्दवर सत्य (ಗೆದ್ದವರ ಸತ್ಯ)
  • ढं ढं डोलु (ಢಂ ಢಂ ಢೋಲು)
  • नरनो वानरनो (ನರನೋ ವಾನರನೋ)
  • मरियप्पन साहासगळु (ಮರಿಯಪ್ಪನ ಸಾಹಸಗಳು)
  • मङ्गन मदुवे (ಮಂಗನ ಮದುವೆ)
  • सूर्य चन्द्र (ಸೂರ್ಯ ಚಂದ್ರ)
  • हुलिराय (ಹುಲಿರಾಯ)
  • कन्नडादेशः कन्नडजनसम्बद्ध १०पुस्तकानि (ಕನ್ನಡ ನಾಡು ಮತ್ತು ಕನ್ನಡಿಗರ ಪರಂಪರೆಗೆ ಸಂಬಂಧಿಸಿದ ೧೦ ಪುಸ್ತಕಗಳು)
  • ऐबिएच् मूलविज्ञानपाठमाला, इको संस्थायाः कृते कृताः अनुवादाः - १३३ ( ಐಬಿಎಚ್, ಮೂಲವಿಜ್ಞಾನ ಪಾಠಮಾಲೆ ಹಾಗು ‘ಇಕೊ’ ದವರಿಗಾಗಿ ಮಾಡಿದ ಅನುವಾದಗಳು : ಸುಮಾರು ೧೩೩)
  • इको संस्थायाः कृते सम्पादिताः ग्रन्थाः - ४२ (‘ಇಕೊ’ ದವರಿಗಾಗಿ ಮಾಡಿದ ಸಂಪಾದಿತ ಪುಸ್ತಕಗಳು : ೪೨)

शैक्षणिकाः[सम्पादयतु]

बालशिक्षा[सम्पादयतु]

  • ओदुव आट (ಓದುವ ಆಟ)
  • गृहविज्ञान - १,२,३ (ಗೃಹ ವಿಜ್ಞಾನ (೧,೨,೩))
  • चित्रमय दक्षिणकन्नड (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಕನ್ನಡ)
  • चित्रमय दक्षिणकन्नड - अन्दु , इन्दु (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಕನ್ನಡ – ಅಂದು, ಇಂದು)
  • चित्रमय दक्षिण हिन्दुस्थान (ಚಿತ್ರಮಯ ದಕ್ಷಿಣ ಹಿಂದುಸ್ತಾನ)
  • नागरिकतेय होस्तिलल्लि (ನಾಗರಿಕತೆಯ ಹೊಸ್ತಿಲಲ್ಲಿ)
  • रमण तात (ರಮಣ ತಾತ)
  • समाज नीति १,२,३(ಸಮಾಜ ನೀತಿ (೧,೨,೩)
  • सामान्य विज्ञान १,२,३ಸಾಮಾನ್ಯ ವಿಜ್ಞಾನ (೧,೨,೩)
  • सिरिगन्नड पाठमाले १-७ (ಸಿರಿಗನ್ನಡ ಪಾಠಮಾಲೆ (೧,೨,೩,೪,೫,೬,೭)
  • हूगन्नड पाठमाले १-८ (ಹೂಗನ್ನಡ ಪಾಠಮಾಲೆ (೧,೨,೩,೪,೫,೬,೭,೮)

ज्येष्ठशिक्षा[सम्पादयतु]

  • अळिलभक्ति मळल सेवे (ಅಳಿಲ ಭಕ್ತಿ ಮಳಲ ಸೇವೆ)
  • कर्णाटकस्य जानपदकलेगळु ( ಕರ್ನಾಟಕದ ಜಾನಪದ ಕಲೆಗಳು)
  • कोळि साकणे (ಕೋಳಿ ಸಾಕಣೆ)
  • जोगि कण्ड ऊरु (ಜೋಗಿ ಕಂಡ ಊರು)
  • दक्षिण हिन्दुस्तानद नदिगळु (ದಕ್ಷಿಣ ಹಿಂದುಸ್ತಾನದ ನದಿಗಳು)
  • देव ओलिद ऊरु (ದೇವ ಒಲಿದ ಊರು)
  • बेरेयरू सरि इरबहुदु ( ಬೇರೆಯವರೂ ಸರಿ ಇರಬಹುದು)
  • हुट्टु सावु ओट्टु ओट्टु ( ಹುಟ್ಟು ಸಾವು ಒಟ್ಟು ಒಟ್ಟು)

आङ्ग्लभाषासाहित्यानि[सम्पादयतु]

  • Folk Art of Karnataka
  • Karnataka Paintings
  • My Concern for Life, Literature and Art
  • Picturesque South Kanara
  • Yakshagana

प्रशस्तिपुरस्काराः[सम्पादयतु]

कारन्तस्य विशिष्टचिन्तनानि[सम्पादयतु]

  • अहं देवं न विश्वसिमि यतः अहं तं न दृष्टवान् । अहं यत् न जानानि तदहं न विश्वसिमि । रामकृष्णपरमहंसः विश्वस्तः तपसा तं दृष्टवान् । मद्विषये रामः नाम रविवर्मणः चित्रम् । कृष्णः नाम गुब्बिवीरण्णस्य कृष्णलीला नाटकम् । उत्तमं कार्यं करोमि उत्तमं फलं लभते इति तु जानामि । मम यदा आनुकूल्यं भवति तदा केवलं देवे विश्वसिमि इति वादः समीचीनः न ।
  • साहित्यकाराणां समाजे अन्यत् किमपि पात्रं नास्ति । न साहित्यकारः लोकोद्धारकः । सोऽपि सामन्यः जनः । स्वस्य जीवनस्य अनुभवान् लिखति । लेखनेन सह महाजनः न भवति । अलेखकाः अपि महाकार्याणि कृतवन्तः ।
  • वृक्षः स्वयं प्ररोहति । किन्तु मनुष्यः तथा न संवर्धते । अस्माकं जीवनस्य आरम्भात् सहस्राधिकवर्षेभ्यः प्राक् एव अस्मिन् जगति जीवराशिः आसीत् इति ज्ञातव्यम् ।
  • कस्यचिदपि लेखकस्य ग्रन्थस्य सहस्राधिकाः प्रतयः विक्रीताः शताधिकाः प्रतिस्पन्दनरूपेण पत्राणि लिखितवन्तः नाम जनां तम् इच्छन्ति इति अर्थः न ।
  • जीह्वाचापल्येन सर्वभक्षिणः न भवन्तु , हितं मितं खातन्तु । मनसि आगतानि सर्वाणि कार्यपथे नानेतव्यानि । एतदेव मे आरोग्यस्य रहस्यम् ।

कारन्तस्य विषये अन्यविदुषामभिप्रायः[सम्पादयतु]

ति.नं.श्रीकण्ठय्यः[सम्पादयतु]

शिवरामकारन्तः अस्य शतकस्य क्रान्तिकारीपुरुषेषु अन्यतमः । तस्य लेखन्या सृष्टकृतिषु काश्चन पठित्वा सुखम् अनुभूतेषु जनेषु अहमपि अन्यतमः । अस्य बहुमुखकार्योत्साहं समीतः अपि वीक्ष्य अहं चकितः । प्रकृतिः स्वयं पुरतः आत्मानं परिचाययति चेत् यथा भवति तथा अनुभवस्य अस्य कृतीनां पठनावसरे भवति । तस्य कृतौ कलायाः निर्मित्याः अपेक्षया परिसरस्य आविष्कृतिः अधिका अस्ति । अत्र प्रकृतिः नाम न केवलं सागरादयः अचेतनानि न मानवप्रकृतिः अपि अविनाभावेन अस्ति ।

पूर्णचन्द्रतेजस्वी[सम्पादयतु]

अद्यतनसहित्यरचनायासु प्रभावं कुर्वाणानि लोहियातत्त्वचिन्तनानि, कुवेम्पुलेखनानि, कारन्तस्य जीवनदृष्टिः च । भविष्यति साहित्यकाराणाम् एतत्त्रयमेव मार्गदर्शकम् ।

हा.मा.नायक[सम्पादयतु]

येन केनचित् मापनेन मपयति चेत् अपि कारन्तः विश्वलेखकावल्यां भवति एव ।

गोपालकृष्ण अडिगः[सम्पादयतु]

शिवरामकरन्तस्य परिचयं भवद्भ्यः करणम्, सूर्यस्य परिचयं दीपशिखया करोमि इव ।

जि.एस्.शिवरुद्रप्पः[सम्पादयतु]

डा.शिवराम कारन्तः इति पर्वतसमुद्रयोः मध्ये जातं एतत् चैतन्यं समुद्रम् इव विस्तृतम् अनुभवं स्वस्य कृतिषु सङ्गृह्य कन्नडसाहित्यस्य समृद्धिम् अकरोत् । कारन्तस्य निधनेन उज्ज्वला सर्जशीलपरम्परा कस्याश्चित् वंशश्रेण्याः अवसानस्य शून्ये वयं प्रविष्टाः इव अस्ति ।

बालवने कारन्तपितामहः[सम्पादयतु]

कारन्तमहोदयः कन्नडभाषायाः तरङ्ग इति साप्ताहिकपत्रिकायाः 'बालवन' इति बालोचितविभागे बालवने कारन्तज्ज इति लेखं प्रकाशयति स्म । अयं विभागः बहुजनप्रियः अभवत् । बालैः प्रेषितानां वैज्ञानिकप्रश्नानाम् उत्तराणि सरलया शैल्या लिखति स्म । तस्मिन् काले कन्नडजनानां शिवरामकारन्तमहोदयः कारन्तज्ज इत्येव परिचितः ।

बाह्यानुबन्धाः[सम्पादयतु]

http://karanth.kannadavedike.net

"http://sa.wikipedia.org/w/index.php?title=शिवराम_कारन्तः&oldid=271216" इत्यस्माद् पुनः प्राप्तिः