नागपुरमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नागपुरमण्डलम्
Nagpur district
नागपुर जिल्हा
—  मण्डलम्  —
महाराष्ट्रराज्ये नागपुरमण्डलम्
देशः  India
जिल्हा नागपुरमण्डलम्
उपमण्डलानि नागपुर, नागपुर ग्रामीण, सावनेर, कळमेश्वर, नरखेड, काटोल, पारशिवनी, रामटेक, हिङ्गणा, मौदा, कामठी, उमरेड, भिवापुर, कुही
विस्तारः ९,८९२ च.कि.मी.
जनसङ्ख्या(२०११) ४६,५३,५७०
सर्वकारः
 • मण्डलसङ्गाहकः
(District Collector)
भारतीयमानसमयः(IST) (UTC+५:३०)
जालस्थानम् http://nagpur.nic.in
कालिदास स्मारकम्
कस्तूरचन्द पार्क
जामा मस्जिद्
अम्बाझरी तडागः
'मारबत' उत्सवः

नागपुरमण्डलं (मराठी: नागपुर जिल्हा, आङ्ग्ल: Nagpur Districtआङ्ग्लः) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नागपुर इत्येतन्नगरम् | नारङ्गफलानाम् उत्पादने मण्डलमिदम् अग्रस्थाने वर्तते । भारतदेशस्य मध्यबिन्दुः(Zero Mile Indicator) अस्मिन्नेव मण्डले अस्ति । महाराष्ट्रराज्यस्य द्वितीया राजधानी अस्ति नागपुर इत्येतन्नगरम् । भारतदेशस्य स्वच्छेषु हरितेषु च मण्डलेषु द्वितीये स्थाने विराजते मण्डलमिदम् । आभारतं व्याघ्र-राजधानी इत्यपि ख्यातिः अस्य मण्डलस्य ।

भौगोलिकम्[सम्पादयतु]

नागपुरमण्डलस्य विस्तारः ९,८९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भण्डारामण्डलं, पश्चिमदिशि अमरावतीमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि वर्धामण्डलम् अस्ति । अस्मिन् मण्डले १,२०५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी वैनगङ्गा अस्ति । मण्डलेऽस्मिन् नैसर्गिकाः, मानवनिर्मिताः च बहवः तडागाः सन्ति । मण्डलेऽस्मिन् सामान्यतः उष्णं, शुष्कं च वातावरणं विद्यते ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

अस्मिन् परिसरे पाषाणयुगात् मानवानां निवासः अस्ति इति पुरातत्त्वीय-उत्खननेभ्यः ज्ञायते । मण्डलेऽस्मिन् राष्ट्रकूट-वाकाटक-चालुक्य(बादामि)-यादव-मुघल-मराठाराजानाम् आधिपत्यमासीत् । मण्डलमिदं कन्हाननद्याः उपनदी नाग इत्यस्याः तटे अस्ति अतः 'नागपुर' इति नाम । मराठासाम्राज्यानन्तरम् अयं परिसरः आङ्ग्लाधिपत्ये गतः । १९४७ तमे वर्षे 'सेन्ट्रल प्रोव्हिन्स् एण्ड बेरार' इति नाम्ना अयं परिसरः भारतदेशस्य मध्यप्रदेशराज्ये समाविष्टः । अनन्तरं यदा १९५६ तमे वर्षे भाषाधारेण राज्यनिर्मितिः जाता तदा मण्डलत्वेन अयं परिसरः महाराष्ट्रराज्ये समाविष्टः जातः । नागपुरपरिसरस्य इतिहासः वर्धामण्डले उपलब्धात् दशमे शतके लिखितात् ताम्रपत्रात् ज्ञातुं शक्यते । १ जानेवारी १८७७ दिनाङ्के भारतदेशस्य प्रथमः वस्त्रोद्यमः-'सेण्ट्रल इण्डिया स्पिनिङ्ग एण्ड विविङ्ग कं.लि.' नाम्ना टाटा-समूहेन अत्रैव स्थापितः । १९५६ तमे वर्षे बाबासाहेब आम्बेडकर महोदयः स्वस्य अनुयायिभिः सह बौद्धधर्मं प्रविष्टवान् । अयम् ऐतिहासिकप्रसङ्गोऽपि अत्रस्थः, तदर्थं 'दीक्षाभूमिः' इति स्मारकम् अपि स्थापितम् ।

जनसङ्ख्या[सम्पादयतु]

नागपुरमण्डलस्य जनसङ्ख्या(२०११) ४६,५३,५७० अस्ति । अस्मिन् २३,५८,९७५ पुरुषाः, २२,६८,५९५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे ४७० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.४०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ८८.३९% अस्ति ।

कृषिः उद्यमश्च[सम्पादयतु]

यवनालः(ज्वारी), गोधूमः, कार्पासः, कलायः, चणकः, 'जवस', नारङ्गफलम् इत्यादीनि नागपुरमण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । नारङ्गफलानि आभारतं तु प्रसिद्धानि सन्ति एव, विदेशविक्रयणमपि भवति । वस्त्रोद्यमाः, तमाखुनालि-उत्पादनोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, कर्गजोद्यमाः च प्रचलन्ति अत्र । मण्डलेऽस्मिन् जल-विद्युत्-इतरसंसाधनानां प्राचुर्यात् उद्यमानां विकासः जायमानः अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश-उपमण्डलानि सन्ति । तानि-

  • नागपुर
  • नागपुर ग्रामीण
  • सावनेर
  • कळमेश्वर
  • नरखेड
  • काटोल
  • पारशिवनी
  • रामटेक
  • हिङ्गणा
  • मौदा
  • कामठी
  • उमरेड
  • भिवापुर
  • कुही

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् मराठीभाषा तथा मराठीभाषाप्रकारः 'वर्हाडी', हिन्दी इत्येताः मुख्यभाषाः प्रचलन्ति । भारतदेशे द्वितीयं हरितं, स्वच्छं च मण्डलमिदम् । दीपावलिः, होलिका(होळी), 'दसरा', गणेशोत्सवः, नवरात्र्युत्सवः इत्यादयः अत्रस्थजनानां प्रमुखोत्सवाः सन्ति । सिद्धरामेश्वरमन्दिरस्य यात्रा भवति, जनाः सोत्साहेन भागं वहन्ति । सार्वजनिकोत्सवेषु 'मानवी वाघ'-व्याघ्ररूपं धारयन्तः जनाः सहभागिनः भवन्ति । महाराष्ट्रशासनपक्षतः कालिदास-उत्सवः प्रतिवर्षं प्रचलति ।
विदर्भ इति महाराष्ट्रविभागे निवसतां जनानां 'मारबत' इति विशिष्टोत्सवः । आङ्ग्लप्रशासनसमये बाङ्काबाई नामिका महिला आसीत्, सा आङ्ग्लप्रशासकैः सह योगम् अकुर्वत् । अस्य प्रसङ्गस्य निषेधं सामान्यजनाः 'मारबत-बडग्या' इत्येतायां यात्रायां दर्शयन्ति । इदानीं दुष्टप्रवृत्तिनिवारणार्थम् इयं यात्रा भवति । बाङ्काबाई, तस्याः पतिः बडगा तथा दुष्टप्रवृत्तीनां ‌मूर्तीः कृत्वा शोभायात्रा भवति अनन्तरं तेषां मूर्तीनां दहनं जनाः कुर्वन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति -

१ ऐतिहासिकस्थलानि -

  • नागनद्याः तीरे कुही/खोपडी इत्यस्मिन्स्थलस्य उत्खनने महापाषाणयुगसम्बद्धअवशेषाः प्राप्ताः । ३००० वर्षेभ्यः प्राक् या संस्कृतिः आसीत् तस्याः विषये बहुमहत्वपूर्णा प्रज्ञप्तिः प्राप्यते । तस्याः प्रज्ञप्ते विदर्भसंस्कृत्याः इतरसंस्कृतिभिः सह विद्यमानाः सम्बन्द्धान् ज्ञातुं शक्नुमः । अतः महत्त्वपूर्णस्थलमिदम् ।
  • कस्तूरचन्द-पार्क
  • नगरधन-कोटः
  • सीताबर्डी-कोटः
  • भारतदेशस्य मध्यबिन्दुः (Zero mile indicator)
  • दीक्षाभूमिः

२ निसर्गरम्यस्थलानि -

  • सक्करदरा इत्यत्र 'लेक गार्डन'
  • गान्धि-सागर-तडागः
  • सातपुडा-सस्योद्यानम्
  • खेकरा तडागः
  • 'सेमिनरी हिल' उपशैलः
  • फुटाळा तडागः
  • अम्बाझरी तडागः

३ इतर-वीक्षणीयस्थलानि -

  • 'जपानी' पाटलपुष्पोद्यानम्
  • अन्ताराष्ट्रियं क्रीडाङ्गणम्
  • महाराज-उद्यानं तथा प्राणिसङ्ग्रहालयः
  • पेञ्च इत्यस्थं राष्ट्रियोद्यानम्, व्याघ्रप्रकल्पः च
  • रमण-विज्ञानकेन्द्रम्
  • मध्यवर्ती-सङ्ग्रहालयः(अजब बङ्गला)
  • नेरो-गेज-रेलयान-सङ्ग्रहालयः
  • गङ्गावतरणप्रतिमा
  • राष्ट्रियस्वयंसेवकसङ्घस्य मुख्यालयः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"http://sa.wikipedia.org/w/index.php?title=नागपुरमण्डलम्&oldid=268455" इत्यस्माद् पुनः प्राप्तिः